For faster navigation, this Iframe is preloading the Wikiwand page for यजुर्वेदः.

यजुर्वेदः

वाजस्नेयी सम्हिता, शुक्ल यजुर्वेद, १२००-१००० ख्रिष्टपूर्व
हिन्दुधर्मः

हिन्दुधर्मःइतिहासः

Portal:Hinduism

प्रवेशद्वारम्:सनातनधर्मः
प्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः

यजुर्वेद: चतुर्वेदस्य अन्यतमः। यजुर्वेदे यज्ञयागादिक्रियाकलापानुरोधेन मन्त्राणां सन्निवेशोऽस्ति, अतः स ‘यजुःवेद' इति निगद्यते । यजुः इत्येतत्पदं यज् धातोः उसि प्रत्यये कृते निष्पद्यते । यजूंषि गद्यानि । अध्वर्युणा यज्ञे उपयुज्यमाना मन्त्रा एवात्र यजुर्वेदे सङ्कलिताः, यज्ञस्य वास्तविकं विधानमध्वर्युरेव करोति, अतोऽयं यजुर्वेदो यज्ञविधेरतिसन्निकृष्टं सम्बन्धं रक्षति । यजुर्वेदो द्विप्रकारकः- कृष्णयजुःशुक्लयजुश्च

यजुःसंहितायां सर्वविधानामपि यज्ञयागादीनां वर्णनं विद्यते । कृष्णयजुः शुक्लयजुर्भेदेन सा द्विविधा । मन्त्रब्राह्मणयोर्द्वयोरपि यत्र मिश्रीभावः कृतः स कृष्णयजुर्वेद इति नाम्ना, किञ्च यत्र मन्त्राणामेव विशुद्धतया प्रतिष्ठानं कृतं सः शुक्लयजुर्वेद इति नाम्ना विश्रुतः । शुक्लयजुर्वेदस्य द्वे एव शाखे स्तः, ते माध्यन्दिनकाण्वनामभ्यां विदिते स्तः। कृष्णयजुर्वेदस्य सम्प्रति पञ्चाशीतिशाखासु केवलं चतस्रस्तैत्तिरीय-मैत्रायणी-कठकपिष्ठलकठाख्याः शाखाः समुपलभ्यन्ते ।

वस्तुतः आाध्वर्यव-कर्मणे उपादेये यजुर्वेदे यजुषां सङ्ग्रहो वर्त्तते । यजुःशब्दस्य व्याख्या आपाततः भिन्नाः प्रतीता भवन्ति, किञ्च तासु एकमेव लक्षणं प्रति सङ्केतो लभते। ‘अनियताक्षरावसानो यजुः’ अर्थात् यत्राक्षराणां संख्या नियता निश्चिता वा नास्ति तद्यजुः । ‘गद्यात्मको यजुस्तथा शेषे यजुः'-शब्दस्य तात्पर्यमिदमेवास्ति यदृक्-सामभ्यां भिन्नं गत्यात्मक-मन्त्राणामभिधानमेव ‘यजुः' वर्त्तते ।

स्वरूपम्

[सम्पादयतु]

सोऽयं यजुर्वेदः ४० अध्यायान्, ३०३ अनुवाकान्, १९७५ कण्डिका (मन्त्रान्), २९६२५ शब्दान्, ८८८७५ अक्षराणि च बिभर्ति । अस्य वेदस्य प्रथमेऽध्याये दर्शपौर्णमासौ, द्वितीये पिण्डपितृयज्ञः, तृतीयेऽग्निहोत्रं चातुर्मास्येष्टिः, चतुर्थाध्यायादष्टादशाध्यायपर्यन्तम् अग्नष्टोमविधानं सोमयागः, नवमे वाजपेयो राजसूयश्च, दशमे सौत्रामणिः, एकादशाध्यायादष्टादशाध्यायपर्यन्तमग्निचयनम्, उखाभरणम्, चितयः रुद्रहः, शतरुद्रियम् वसोर्धारा, राष्ट्रभृच्च । एकोनविंशतितमाध्यायात् परिशिष्टमारभ्यते, विंशे एकविंशे च सोमसम्पादनविधिः, तदनु पञ्चविंशतिपर्यन्तमश्वमेधः ततः शेषे भागे पुरुषमेधसर्वमेधपितृमेधादिविवरणञ्च प्रपञ्चितम् । अन्तिमश्चाध्याय ईशावास्योपनिषद्रूपः ।

पौराणिककथा

[सम्पादयतु]

व्यासो वैशम्पायनाय वेदं प्रोवाच, स स्वशिष्याय याज्ञवल्क्याय । पुराणेषु वैदिकसाहित्येषु च याज्ञवल्क्यवाजसनेयः अतीव प्रौढस्तथा तत्वज्ञ ऋषित्वेन प्रस्थापितौ। अस्यानुकूलसम्मत्याः उल्लेखः शतपथब्राह्मणे तथोपनिषदि लभते।[] कुतोऽपि कारणाद् रुष्टो वैशम्पायनो याज्ञवल्क्यमुवाच – देहि मदधीतं वेदमिति । याज्ञवल्क्यो गुरुवचनपालनाय ततोऽधीतं वेदं सद्योवान्तवान् । अन्ये वैशम्पायनशिष्याः तित्तिरिरुपं धृत्वा याज्ञवल्क्येन वान्तं वेदं गृहीतवन्तः । स एवायं वान्तगृहीतो वेदः कृष्णयजुर्वेदः ।

वैशम्पायने कुपिते ततोऽधीतं वेदं विसृज्य याज्ञवल्क्यः पुनर्वेदाधिगतये सूर्यमाराधयामास, ततश्च वेदमापततोऽयं वेदः शुक्लयजुर्वेदनाम्नाऽप्रथत । अनयोर्वेदयोर्महदन्तरम् । 

शुक्लयजुर्वेदे विनियोगवाक्यरहिताः केवला मन्त्रा विद्यन्ते, कृष्णयजुर्वेदे तु विनियोग वाक्यानि मन्त्राश्च । अतोऽमिश्रितरूपतया शुक्लयजुर्वेदः, मिश्रितरूपतया च कृष्णयजुर्वेद इति संज्ञा जातेत्यपि लोकाः कथयन्ति ।

यजुर्वेदस्य विभागः

[सम्पादयतु]

यजुर्वेदः द्विधा विभज्यते । यथा – शुक्लयजुर्वेदः, कृष्णयजुर्वेदश्चेति । तत्र ब्रह्मसम्प्रदायस्य प्रतिनिधिः कृष्णयजुर्वेदो भवति , आदित्यसम्प्रदायस्य प्रतिनिधिश्च शुक्लयजुर्वेदोऽस्ति ।शुक्लयजुर्वेदस्य मन्त्रसंहिता वाजसनेयीसंहिता इत्युच्यते । कृष्णयजुर्वेदस्य संहिता च मैत्रायणीसंहिता इति कथ्यते । वेदस्य द्वौ सम्प्रदायौ स्तः - ( १ ) ब्रह्म-सम्प्रदायः ( २) आदित्यसम्प्रदायः च। शतपथब्राह्मणानुसारेण अादित्ययजुः शुक्लयजुर्वेदनाम्ना विख्यातोऽस्ति, तथा याज्ञवल्क्येनाख्यातोऽस्ति - ‘अादित्यानीमानि शुक्लानि यजूंषि वाजसनेयेन याज्ञवल्क्येनाख्यायन्ते'[] अतः अादित्यसम्प्रदायस्य प्रतिनिधिः शुक्लयजुर्वेदोऽस्ति तथा ब्रह्मसम्प्रदायस्य प्रतिनिधिः कृष्णयजुर्वेदोऽस्ति । यजुर्वेदस्य शुक्लत्वकृष्णत्वयोर्भेदस्तस्य स्वरूपस्योपरि अाश्रितोऽस्ति । शुक्लयजुर्वेदे दर्शपौर्णमासाद्यनुष्ठानाय एव मन्त्राणां सङ्कलनमस्ति । कृष्णयजुर्वेदे तु मन्त्रैः सह तन्नियोजकानां ब्राह्मणानां सम्मिश्रणमस्ति । मन्त्रब्राह्मणयोर्भागस्य एकत्र मिश्रणमेव कृष्णयजुर्वेदाय कृष्णत्वस्य कारणमस्ति । अनेनैव रूपेण मन्त्राणां विशुद्धं तथा अमिश्रितरूपमेव शुक्लयजुर्वेदस्य शुक्लत्वस्य कारणमस्ति ।

आर्याणां कुरुषु अधिनिवेशकाले संग्रथितो यजुर्वेद इति अभिप्रायः । यजुर्वेदस्य अध्वरवेद इति नामान्तरमस्ति । यजुषः एकोत्तरशतं शाखाः सन्ति इति पतञ्जलिः प्रपञ्चहृदयकारः च प्रस्तौति । वाजसनेयापरनाम कृष्णयजु‍वेदः गद्यपद्यात्मा । यदीया रचना विश्ववश्या देदीप्यते ।

 युजर्वेदस्य विषयाः

[सम्पादयतु]

शुक्लयजुर्वेदस्य मन्त्रसंहिता वाजसनेयीसंहितानाम्ना विख्याताऽस्ति। अस्य चत्वारिंशदध्यायेषु अन्तिमाः पञ्चदशाध्यायाः खिलरूपेण प्रसिद्धेः कारणात् अवान्तरयुगीया मन्यन्ते ।

प्रारम्भिकयोर्द्वयोरध्याययोः दर्शपौर्णमासनाम्नेष्टिसम्बद्धमन्त्राणां वर्णनमस्ति । तृतीयाध्याये अग्निहोत्राय चातुर्मास्याय च यज्ञाय उपयोगिनां मन्त्राणां विवरणमस्ति । चतुर्थाध्यायादारभ्य अष्टमाध्यायपर्यन्तं सोमयागानां वर्णनमस्ति । अस्मिन्नध्याये अग्निष्टोमस्य प्रकृतियागत्वेन नितान्तं विस्तृतविवरणमस्ति । अग्निष्टोमे सोमस्योपलखण्डेन कुट्टनं कृत्वा रसक्षरणम् अकारयत् । तेन हि प्रातः, मध्याह्ने सायंकाले चाग्नौ हवनं भवति । अस्यैव ‘सवनमि'त्यभिधानमस्ति। सवनमिदं समयानुसारेण विभिन्ननाम्ना विख्यातमस्ति । दिनमात्रमेव समाप्य सवनम् ‘एकाहः' इति कथ्यते । सोमयागे वाजपेययागः अन्यतमोऽस्ति । राज्ञः अभिषेककाले राजसूययज्ञो भवति । यज्ञेऽस्मिन् द्यूतक्रीडा-अस्त्रक्रीडाप्रभृतयः राजन्योचितविभिन्नक्रियाकलापानां विधानं भवति । नवम एवं दशमाध्याये अनेन यज्ञेनैव सम्बद्धानां मन्त्राणां सङ्कलनमस्ति । तदनन्तरमेकादशाध्यायादारभ्य अष्टादशाध्यायपर्यन्तम् अग्निचयनं भवति । अर्थात् यज्ञीयहोमाग्निहेतवे वेदनिर्माणस्य वर्णनं विस्तरेण कृतमस्ति । वेद्या रचना १०८०० इष्टिकाभ्यो भवति। इष्टिकेयं विशिष्टस्थानादेव समानीता भवति ।

वेद्याः अाकृतिः पतत्रप्रसारित पक्षी इव भवति । ब्राह्मणमन्त्रेषु वेद्याः तथा तासाम् इष्टकानाम् आध्यात्मिकरूपस्य व्याख्यानमतीव मार्मिकतया कृतमस्ति । षोडशाध्याये शतरुद्रीयहोमस्य प्रसङ्गः अस्ति । अस्मिन् अध्याये रुद्रस्य कल्पनायाः साङ्गोपाङ्गं विवेचनमस्ति । वैदिकेष्वेव रुद्राध्यायः अतीवोपयोगित्वेन नितान्तं प्रख्यातोऽस्ति । अष्टादशाध्याये वसोर्धारासम्बन्धी मन्त्रः निर्दिष्टोऽस्ति । तदनन्तरं त्रिष्वध्यायेषु (१९-२१ अ० ) सौत्रामणि-यज्ञस्य विधानमस्ति । जनश्रुतिरस्ति यत्, अधिकसोमपानेनेन्द्रः रुग्णोऽभवत् । अस्य रोगस्य चिकित्सा स्वर्वेद्येन कृताऽनेनैव यज्ञेन। राज्यच्युतनृपाय, पशुकाम-यजमानाय, सोमरसानुकूलतया पराङ्मुखजनाय चास्यैव यज्ञस्यानुष्ठानं विहितम् । अस्याः प्रक्रियायाः संक्षिप्तं विवरणम् ऊनविंशत्यध्यायस्य महीधरभाष्यस्य प्रारम्भे समुपलब्धमस्ति । सोत्रामणियज्ञे सोमरसेन सह सुरापानस्याऽपि विधानं वर्त्तते (सौत्रामण्यां सुरां पिबेत्) ।

द्वाविंशत्यध्यायादारभ्य पञ्चविंशत्यध्यायपर्यन्तम् अश्वमेधयज्ञस्य विशिष्टमन्त्राणां निर्देशोऽस्ति । अश्वमेधयज्ञस्तु सार्वभौमाधिपत्यस्य अभिलाषी सम्राजे विहितोऽस्ति । अस्य यज्ञस्य साङ्गोपाङ्गवर्णनं शतपथब्राह्मणस्य त्रयोदशकाण्डे, कात्यायनश्रौतसूत्रस्य विंशत्यध्याये चास्ति । षड्विंशत्यध्यायादारभ्य ऊनत्रिंशदध्यायपर्यन्तं खिलमन्त्राणां सङ्कलनमस्ति । त्रिंशदध्याये पुरुषमेधस्य वर्णनमस्ति, यस्मिन् चतुरशीत्यधिकशतपदार्थानाम् आलम्भनस्य निर्देशोऽस्ति । आलम्भनः अयं यथार्थतः अालम्भनः न भूत्वा प्रतीकरूपेण उल्लिखितोऽस्ति । भारतवर्षे कदापि पुरुषमेधो नाभवत् । केवलमयं काल्पनिकयज्ञोऽस्ति । अस्मिन् यज्ञे पुरुषस्य नानाप्रतिनिधिभूतवस्तुहेतवे विभिन्नपदार्थेषु दानस्य विधानमासीत् । यथा - नृत्तनिमित्ताय सूतस्य, गीतनिमित्ताय शैलूषस्य, धर्माय समाचारस्य च आलम्भनविधिः अस्ति । अस्मिन्नध्याये तात्कालिकस्य प्रचलितस्य व्यवसायस्य, वृत्तेः, कलाकौशलस्य चाऽपि यत्किञ्चित् परिचयः प्राप्तो भवति । एकत्रिंशदध्याये प्रसिद्धपुरुषसूक्तमस्ति, यस्मिन्नृग्वेदापेक्षया षड्मन्त्राः अधिकाः सन्ति । द्वात्रिंशत् तथा त्रयस्त्रिंशदध्याये सर्वमेधस्य मन्त्रः उल्लिखितोऽस्ति । द्वात्रिंशदध्यायस्य आरम्भे हिरण्यगर्भसूक्तस्य अपि कतिपयमन्त्राः समुद्धृताः सन्ति । चतुस्त्रिंशदध्यायस्य प्रारम्भे षड्मन्त्राणां ‘शिवसङ्कल्पोपनिषद्' ( तन्मे मनः शिवसङ्कल्पमस्तु ) नितान्तोपादेयाऽस्ति ।

'सुषारथिरश्वानिव यन्मनुष्यान्

नेनीयतेऽभीशुभिर्वाजिन इव

हृत्प्रतिष्ठं यदजिरं जविष्ठं

तन्मे मनः शिवसङ्कल्पमस्तु ॥'[]

पञ्चत्रिंशदध्याये पितृमेधयज्ञसम्बन्धिमन्त्राणां सङ्कलनमस्ति । षट्त्रिंशदध्यायादारभ्य अष्टात्रिंशदध्यायपर्यन्तं प्रवर्ग्ययागस्य विशदं वर्णनमस्ति । अन्तिमाध्याये ईशावास्योपनिषदस्ति। उपनिषत्सु लघुकाशिकेयमुपनिषद् आदिमोपनिषदस्ति, यतो हि अन्योपनिषत् संहितायाः भागो नास्ति । उपनिषद्ग्रन्थेषु अस्य ग्रन्थस्य प्राथम्यस्य इदमेव कारणमस्ति । अस्याः संहितायाः अादित्येन सह घनिष्ठसम्बन्धस्यापि सूचनाऽप्यस्याः एव अन्तिममन्त्रेण उल्लिखिता अस्ति —

‘हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम्।

योसावादित्ये पुरुषः सोऽसावहम् ॥'[]

यजुर्वेदस्य शाखाः

[सम्पादयतु]

वायुपुराणानुसारं यजुर्वेदस्य ८६ शाखाः भवन्ति । चरणव्यूहाधारेणा अस्य ४३ शाखाः भवन्ति । पतञ्जलि-महाभाष्यकारेण अस्य एकशतशाखाः सन्तीति स्वीक्रियते । शुक्लयजुर्वेदस्य प्रधानशाखाद्वयं वर्त्तेते । यथा – माध्यन्दिनशाखा, काण्वशाखा च । कृष्णयजुर्वेदस्य चतस्रः शाखाः प्रधानाः भवन्ति । यथा – तैत्तिरीयशाखा, मैत्रायणीशाखा, कठशाखा, कपिष्ठलकठशाखा च।

यजुर्वेदस्य पदकाराः

[सम्पादयतु]

माध्यन्दिनसंहितायाः पदपाठस्तु बम्बईनगर्यां मुद्रितः अभवत्।[] किञ्च काण्वसंहितायाः पदपाठस्तु अद्याविधि अमुद्रित एवाऽस्ति । अस्य रचयिता अप्यज्ञात एवेति । तैत्तिरीयसंहितायाः पदपाठकारस्य नाम अात्रेयोऽस्ति । अस्य निर्देशः भट्टभास्करेण कृतः स्वकीयस्य ‘तैतिरीयसंहितायाः' भाष्यस्य प्रारम्भे एव । यथा - 'उखश्चात्रेयाय ददौ येन पदविभागश्चक्रे' इति। अतः 'काण्डानुक्रमण्यां' पदकाररूपेण अत्रेयस्य चर्चा वर्तते ।[] बौधायनगृह्यसूत्रे ( ३॥९॥७ ) अपि ऋषितर्पणस्य अवसरे पदकारः आत्रेय-तर्पणस्य अप्युल्लेखो वर्तते । 'आत्रेयाय पदकाराय॥' अयमात्रेयः शाकल्यस्य (ऋग्वेदस्य पदकारः) समकालिकः मन्यते ।

सम्बद्धाः लेखाः

[सम्पादयतु]

सन्दर्भः

[सम्पादयतु]
  1. (बृहदा० उप० अ० ३ एवं ४)
  2. (श० ब्रा० १४।।९।।५।। ३३)
  3. (यजुः ३४॥६)
  4. ( ईशावा० ४०॥१७ )
  5. https://archive.org/details/suklayajurveda
  6. ‘यस्याः पदकृदात्रेयो वृत्तिकारस्तु कुण्डिनः ॥'
{{bottomLinkPreText}} {{bottomLinkText}}
यजुर्वेदः
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?