For faster navigation, this Iframe is preloading the Wikiwand page for डि देवराज अरसु.

डि देवराज अरसु

डि देवराज अरसु
अष्टमः कर्णाटकस्य मुख्यमन्त्री
In office
20 मार्च् 1972 – 31 डिसेम्बर् 1977
Preceded by राष्ट्रपतिशासनम्
Succeeded by राष्ट्रपतिशासनम्
In office
28 फेब्रवरी 1978 – 7 जनवरी 1980
Preceded by राष्ट्रपतिशासनम्
Succeeded by आर् गुण्डूराव्
व्यैय्यक्तिकसूचना
Born 20 आगस्ट् 1915
मैसूरु, मैसूरुराज्यम् (अद्यत्वे कर्णाटके विद्यते)
Died 1982
Political party भारतीयराष्ट्रियकाङ्ग्रेस्
भारतीयराष्ट्रियकाङ्ग्रेस् (अरस्)

डि देवराज अरसु (२० आगस्ट् १९१५-१९८२) भारतीयराजकीयनेतृषु अन्यतमः यः दक्षिणभारते विद्यमानस्य कर्णाटकराज्यस्य अष्टममुख्यमन्त्रिरूपेण पर्यायद्वये उत्तरदायित्वं निरवहत् । भारतीयराष्ट्रियकाङ्ग्रेस् पक्षस्य मैसूरुप्रदेशस्य नायकः आसीत् । परिशिष्टवर्गस्य जनानाम् उन्नत्यै तेन यत् कार्यं कृतं तन्निमित्तं सः विशेषतया स्मर्यते ।

व्यक्तिगतजीवनम्

[सम्पादयतु]

देवराज अरसु मण्डयमण्डलस्य हुणसूरुतालुकु कल्लळ्लि ग्रामे क्रि.श.१९१५तमे वर्षे अगष्ट् मासस्य २०दिने मैसूरुसंस्थानसम्बद्धे अरसु कुले सञ्जातः । पितुः नाम अपि देवराजः मातुः नाम देवीरम्मण्णि इति । देवीरम्मण्णिमहाभागायाः सहोदराः नासन् इति कारणेन बेट्टदपुरस्य देवराज अरसुः गृहजामाता इव कल्लळ्लिग्रामे श्वशुरगृहे एव न्यवसत् ।

देवीरम्मण्णिदेवराजु-दम्पत्योः पुत्रौ सञ्जातौ । एकः देवराजः अपरः केम्पराजः च । यदा केम्पराजः अष्टवर्षीयः आसीत् तदा पिता देवराजः दिवङ्गतः । देवीरम्मण्णि एव स्वक्षेत्रे अन्येषां धान्यसहाय्येन कृषिं कृतवती । कल्लळ्लिग्रामे एव अस्य देवराजस्य प्राथमिकी शिक्षा समाप्ता । योगं व्यायामं च कृत्वा मल्लपटुः इव देहदार्ढ्यं सम्पादितवान् । अरण्ये मृगयात्रा तस्य व्यसनम् आसीत् । मैसूरुनगरे इण्टर्मीडियेट् शिक्षां प्राप्य बेङ्गळूरुनगरे सेण्ट्रल् महाविद्यालयात् बि.एस्.सि.पदविम् अवाप्नोत् । स्वयं कृषिकर्म कृतवान् । गोपालनवृत्तिम् अपि आरभ्य स्वयं द्विचक्रयानेन गोजन्यवस्तूनि हुणसूरुपत्तनं प्रापयति स्म ।

युवा देवराज अरसुमहाभागः क्रि.श.१९४३तमे वर्षे पिरियारपट्टणसमीस्य कोगिलूरुग्रामस्य स्वजातियां कन्यां चिक्कम्मण्णिं परीणीतवान् । तयोः मधुरदाम्पत्यफलरूपेण तिस्रः पुत्र्यः सञ्जाताः ।

राजकीयप्रवेशः

[सम्पादयतु]

सर्वदा देशस्य स्वातन्त्रविषये एव चिन्तयतः तस्य सुभाश्चन्द्रबोस् विषये अतीव प्रीतिः आसीत् । अतः कालक्रमेण राजकीयात् आकृष्टः । क्रि.श. १९३७तमवर्षस्य अनन्तरं मैसूरुराजकीयपरिस्थितिः परिवर्तिता । क्रि.श. १९४१तमे वर्षे मैसूरुमहाराजेन पोषितदलस्य विरुद्धं काङ्ग्रेस् प्रजाप्रतिनिधिसभायाः अभ्यर्थिरूपेण देवराज अरसुमहोदयः चितः । विधानसभानिर्वाचने हुणसूरुक्षेत्रे विजयी अभवत् । क्रि.श. १९४२तमे वर्षे अस्य सहोदरः केम्पराजः कारागृहं प्रेषितः । किन्तु देवराज अरसुमहोदयं न बद्धवन्तः ।

प्रजाप्रतिनिधिसभायाः सदस्येषु अधिकाः युवानः एव आसन् । क्रि.श. १९४५तमे वर्षे यदा देवराज अरसु महोदयः प्रजप्रतिनिधिसभायाः निर्वाचने स्पर्धित्वा वीजयं प्राप्तवान् तदा अस्य आयुः २६वर्षाणि एव । क्रि.श.१९४७तमे वर्षे सञ्चालितस्य “मैसूरु चलो” आन्दोलनस्य पोषकः अभवत् । क्रि.श.१९५२तमे वर्षे निर्वाचने अभ्यर्थी भूत्वा जितः सः विधानसाभां प्रविष्टवान् । क्रि.श.१९५७तमे वर्षे पुनः चितः । क्रि.श.१९६२तमे वर्षे हुण्सूरुक्षेत्रे काङ्ग्रेस् पक्षस्य अभ्यर्थी भूत्वा अविरोधेन चितः । तदा निर्वाचने पराजितः एस्.निजलिङ्गप्पमहोदयः मुख्यमन्त्री न भवेत् इति उक्त्वा धैर्यं प्रदर्शितवान् अरसु महोदयः एव । तदा एस्.आर्.कण्टीमहोदयः तात्कालिकः मुख्यमन्त्री अभवत् । मासचतुष्टयानन्तरं प्रचालिते उपनिर्वाचने निजलिङ्गप्पमहोदयः जितः मुख्यमन्त्री अभवत् । तस्य सचिवसम्पुटे देवराज अरसुमहोदयः वाहनसञ्चारविभागस्य मन्त्री अभवत् । अनेन सह पशुसङ्गोपनम्, वार्ता, मत्स्योद्यमः, चीनांशुकम् च विभागान् अपि परिपालितवान् ।

अग्रिमाध्ययनाय

[सम्पादयतु]
{{bottomLinkPreText}} {{bottomLinkText}}
डि देवराज अरसु
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?