For faster navigation, this Iframe is preloading the Wikiwand page for जगन्नाथदासः.

जगन्नाथदासः

जगन्नाथदासः (Jagannatha dasa) श्रेष्ठः कीर्तनकारः । जगन्नाथदासः (कन्नडभाषा : ಜಗನ್ನಾಥ ದಾಸ) कर्णाटकराज्यस्य रायचूरुमण्डलस्य मान्वी उपमण्डले बागवट्टीग्रामः शा.श १६४९ (क्रि.श. १७२७ )तमे वर्षे कीलकसंवत्सरे श्रावणशुद्धद्वितीया दिने जन्म प्राप्तवान् । दासपरम्परायाः प्रसिद्धदासस्य तिम्मण्णदासस्य शिष्यः "नरसिंहाचार्यः" जगन्नाथदासस्य पिता, "लक्ष्मीबायी" माता । पूर्वाश्रमे अस्य नाम श्रीनिवासाचार्यः इति । दम्पत्योः एकाकी पुत्रः चेदपि गार्हस्थ्याश्रमं नाश्रितवान् इति वदन्ति । वरदेन्द्रतीर्थः गोपालदासः च अस्य गुरू अस्ताम् इति श्रूयते । जगन्नाथदासस्य पद्येषु "जगन्नाथविठल" इति अङ्कितं भवति । चन्द्राभागा नद्यां प्राप्तफलकैः अयं विषयः दृढीकृतः । दासवर्गे एषः सुप्रसिद्धः, महाविद्वान् च । भगवद्गीता, ब्रह्मसूत्रम् , दशोपनिषत् इत्यादिनां व्याख्यानं लिखितवान् । एतेन लिखिते हरिकथामृतसारः इत्येतस्मिन् कन्नडग्रन्थे मध्वमतस्य तत्त्वं दृश्यते । एतान् विहाय अन्यानि कीर्तनानि, पद्यानि अपि लिखितवान् । एषः शा.श १७३१ (क्रि.श. १८०९) तमे वर्षे शुक्लसंवत्सरे भाद्रपदशुक्लनवम्यां तिथौ वैकुण्ठवासी अभवत् । एषः टिप्पुसुल्तानस्य यः दिवानः आसीत् तस्य पूर्णय्यस्य आदरभाक् आसीत् । मान्वी मध्ये एव जगन्नाथदास्य स्मारिका बृन्दावनं निर्मितम् अस्ति ।

एतावति काले तस्य लब्धाः कृतयः "२०७" हरिकीर्तनानि, उगाभोगौ, सुळादयः, हरिकथामृतसारः इति मध्वशास्त्रग्रन्थः च । चरणश्लोकः, जलज्येष्टनिभाकारं जगदीश पदाश्रयम् ।
जगतीतलविख्यातं जगन्नाथं गुरुं बजे ॥
अस्य प्रसिद्धकृतौ हरिकथामृतसारे ३२ सन्धयः सन्ति । कन्नडास्य प्रसिद्धे छन्दसि भामिनीषट्पदीवृत्ते लिखितः अस्ति । हरिकथामृतसारस्य रचनाकाले घटिता काचित् घटना एवमस्ति । तस्य कृतिरचनावसरे २८सन्धयः अनायासेन रचिताः अग्रे नेतुं कष्टम् अभवत् । तदा तस्य गुरुः गोपालदासः सूचितवान् यत् तस्मिन् काव्ये आरम्भे भगवतः गणपतेः स्तोत्रं न योजितं अतः एवम् अभवत् इति । तदनन्तरं २८तमं सन्धिं विघ्नेश्वरसन्धिः इति नामाङ्कितं कृत्वा समर्पितवान् । तदनन्तरं ३२सन्धयः समापिताः ।

मुक्तिः

[सम्पादयतु]

जगन्नाथदासः ४०आयुः प्राप्तवान् आसीत् । किन्तु गुरोः गोपालदासस्य अनुग्रहेण ४२वर्षाणि अधिकम् आयुर्भाग्यं प्राप्य ८२वर्षाणि जीवन् क्रि.श १८०९तमे वर्षे दिवं गतः । मन्वीग्रामे यस्मिन् गृहे श्रीजगन्नाथदासः स्वजीवनं सार्थकम् अकरोत् तत् गृहं इदानीं देवालयः अस्ति । यस्य स्तम्भस्य आधारेण सः वार्धक्ये उपविशति स्म तस्मिन् स्तम्भे इदानीमपि तस्य सूक्ष्मशरीरम अस्ति इति भक्तानां भावः अस्ति । अतः तत्र तस्य स्तम्भस्य प्रदिनं पूजा सम्भवति । दासेन उपयुक्तानि कानिचन धार्मिकवस्तूनि इदानीमपि तस्मिन् मन्दिरे सन्ति । हरिकथामृतसारस्य काचन कागदप्रतयः मन्दिरे उपलब्धाः सन्ति । प्रतिवर्षं भाद्रपदशुद्धनवम्यां दासवरेण्यस्य पुण्यदिनं वैभवेन आचर्यते ।

जीवनपाठः

[सम्पादयतु]

जगन्नाथदासस्य पूर्वाश्रमजीवनेन एतत् ज्ञायते यत् केवलं विद्यार्जनेन पर्यप्तं न भवति । विनयादयः गुणाः अपि जीवने आनिवार्याः इति । अहङ्कारेणयुक्ता विद्या जीवने केवलं दुःखमेव जनयति । "श्रीनिवासाचार्यः" यदा जगन्नाथदासः अभवत् तदा सद्विद्या प्रकाशं दर्शयति इति संसिद्धम् । स्वहिताय किमपि नेच्छन् भगवति मनः अस्थापयत् । केवलं स्वस्य मनसि शान्तिः स्थिरा भवति चेत् न पर्याप्तम् तस्य वितरणम् अवश्यं भवेत् इति दर्शितवान् । असाधारणः विद्वान् जगन्नाथदासः यत् वक्तव्यं तत् सरलकन्नडेन अवदत् पुनः तत् आचरन् एव जनान् बोधितवान् । सर्वेऽपि सन्न्यासिनः भवन्तु अयमेव मोक्षमार्थः इति नोक्तवान् । लोकव्यवहारान् कुरवन्तः अपि मानवाः परिशुद्धाः मुमुक्षवः भवितुमर्हन्ति इति अवदत् । मनांसि देवे संस्थाप्य यत्किमपि कर्म कुर्वन्तु तृप्तिं प्राप्स्यन्ति । परिशुद्धं जीवनं समाचरन्तु इति वदन् स्वयम् आदर्शः अभवत् ।

प्रशंसाश्लोकः

[सम्पादयतु]

दासवर्यं दयायुक्तं दूरीकृतदुराशिषम् ।
हरिकथामृतवक्तारं जगन्नाथगुरुं भजे ॥

जलजेष्टं निभाकारं जगदीशपदाश्रयम् ।
जगतितलविख्यातं जगन्नाथगुरुं भजे ॥

हरिकीर्तनम्

[सम्पादयतु]

बन्धनव परिहरिसो भवविदूरा ।
कन्दर्पजनक कारुण्यदलि भक्तरा ।

दुष्टजनगळु बलु कष्ट पडिसुतिहरु ।
निनगेष्टु हेळलि केळु जिष्णु सखने ।
वौश्निष नी दयादृष्टियिन्दलि नोडि हृष्टन्न माडो ।
सन्तुष्टियिन्दलै ॥

हयमुखने निन्न दयदिन्द सलहुदु ।
वय्यगय्यने लोकत्रयव निरत ।
प्रियनेन्दु निनगे ना दैन्यदै मोरेयिडुवे ।
दयमादु गुरु बेग जयप्रदायकनागि ॥

मित शोकने एन्न मातु लालिसिनिन्न दूतरनु ।
सलहुवुदु प्रीतियिन्द, श्री गुरुजगन्नाथविठल ।
ना स्तुतिसबल्ले विधात्रमुख्वन्द्यने ॥
॥श्रीकृष्णार्पणमस्तु॥

{{bottomLinkPreText}} {{bottomLinkText}}
जगन्नाथदासः
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?