For faster navigation, this Iframe is preloading the Wikiwand page for स्वामी रामदेवः.

स्वामी रामदेवः

स्वामी रामदेवः
जन्मस्थानम् सैयदलिपुरम्,महेन्द्रगडमण्डलम्, हरियाणाराज्यम्, भारतम्
पूर्वाश्रमनाम गुन्नु रामकिशन यदवः
गुरुः/गुरवः आचार्यः कर्मवीरः, आचार्यः बालकृष्णः च
शिष्याः सहस्रशः शिष्याः
तत्त्वचिन्तनम् सनातनधर्मः
उक्तिः जागृत भारत!


बाबा रामदेवः इति ख्यातः स्वामी रामदेवः भारतस्य प्रसिद्धः कश्चित् सनातनधर्मरक्षकः साधुः । एषः पातञ्जलयोगसूत्रेषु प्रतिपादितयोगप्राणायामान् प्रचारेण प्रसारेण च प्रसिद्धिमापन्नः । योगं जनप्रियं कारयितुम् आयुर्वेदस्य चिकित्साविधानस्य दिव्ययोगमन्दिर ट्रस्ट् इति संस्थायाः स्थापकेषु अन्यतमः । अस्य सार्वजनिकशिबिरेषु अत्यधिकप्रमाणेन जनाः सम्मिलन्ति । एतावता कालेन ८.५कोट्यधिकजनाः भागम् अवहन् ।[] दूरदर्शनवाहिन्या योगप्रात्यक्षिकायाः दर्शनेन जनाः अनुसरन्ति । तस्य योगप्रशिक्षा सामान्यजनां कृते निश्शुल्कं भवति । जीवने सर्वजनसहायः भवेयम् इति तस्य आशयः ।

बाल्यं शिक्षा च

[सम्पादयतु]

बाबा रामदेवस्य जन्म हरियाणाराज्यस्य महेन्द्रगडमण्डलस्य सैयदलिपुरे अभवत् । गुन्नु रामकिशन यदवः इति अस्य पूर्वनाम आसीत् । बाल्ये पार्श्ववायुव्याधिना पीडितः योगद्वारा एव रोगोपशमनम् अभवत् । इमं विषयं आकाशवाणीप्रसारे बाबा स्वयम् उक्तवान् । शहभाज़ नगरस्य शलायाम् अष्टमकक्ष्यां समापितवान् । पश्चात् संस्कृतं योगं च अध्येतुं खान्पुरग्रामे आर्षगुरुकुलं प्राविशत् । कालान्तरेण एषः संयासम् आश्रित्य लोकान्तात् एकान्तम् अगच्छत् । पश्चात् अस्य नाम बाबा रामदेवः इति विख्यातम् । जिन्दोपमण्डलस्य कल्बा आर्षगुरुकुलं गत्वा हरियाणाराज्यस्य ग्रामीणानां निश्शुल्कयोगशिबिरं समारभत ।

उपलब्धयः

[सम्पादयतु]

स्वामी रामदेवः क्रि.श. १९९५तमे वर्षे आचार्येण कर्मवीरेण आचार्येण बालकृष्णेन च सह दिव्ययोगमन्दिरम् अस्थापयत् । आचार्यः कर्मवीरः योगे वेदे च निष्णातः आसीत् । बालकृष्णः दैहिकज्ञः आयुर्वेदज्ञः चासीत् ।[].स्वामिनः रामदेवस्य दूरदर्शनस्य योगप्राणायामदर्शनानि सार्वजनिकयोगशिबिराणि च अतीवजनप्रियानि सन्ति । तस्य सर्वसामान्ययोगशिबिरेषु २०सहस्राधिकाः स्वास्थेच्छुकाः भागं वहन्ति ।[]भारतदेशे बहुत्र योगशिबिराणि कृत्वा भारतस्य राष्ट्रपतिभवने अपि आयोजितवान् ।[] अस्य दूरदर्शनमाध्यमेन योगबोधनं जगतः विविधखण्डेषु प्रसार्यमाणम् अस्ति । तेषु आफ्रिका, आस्ट्रेलिया, एष्या, यूरोफ्. अमेरिका च अन्तर्गतानि । अस्य कार्यक्रमस्य अभ्यर्थना सर्वदा भवति एव अतः दूरदर्शनस्य विविधवाहिन्यः अस्य कार्यक्रमाणां दृश्यावलीः मुद्राप्य प्रसारयन्ति ।[] २०दशलक्षजनाः अस्य कार्यक्रमाणां निरन्तरवीक्षकाः सन्ति ।[] एतेषु कार्यक्रमेषु भागमूड्वा फलानुभविनः वदन्ति यत् अस्माकं देहस्य रुधिरनिपीडः, मधुमेहः, कशेरुकवेदना, यकृद्दौर्बल्यम्,देहस्थौल्यम्, इत्यादयः समस्याः नितरां परिहृताः अभवन् इति ।[] स्वामी रामदेवः अन्ययोगबोधकानाम् अपेक्षया पृथक् तिष्ठति । एषः प्राणायामविषये आद्यतां कल्पयति । एतत् सामान्यजनान् बोधयित्वा अभ्यस्तुम् अवकाशान् परिकल्पयति ।[] किन्तु अन्यशिक्षकाः आसनानि आद्यत्यास्वयोगकेन्द्रेषु बोधयन्ति ।[]प्राणायामकार्यक्रमस्य प्रदर्शनचित्रणम् बाबा रामदेवस्य स्वास्थ्यसंरक्षणार्थं प्राणायामः प्रत्याहारः च भारतीयसंस्कृतेः भागः एव ।[],विख्यातः अध्यात्मगुरुः श्री श्री रविशङ्करः बाबारामदेवस्य विषये एवं वदति अस्मिन् देशे भारते योगस्य पुनरुज्जिवयितुः किञ्चित् नाम अस्ति चेत् तत् रामदेवस्य एव । योगः प्राणान्तकरोगान् अपि निर्मूलयति इति बहुवारं रामदेवः दर्शितवान् तदग्रे अनुवर्तते अपि, इति[]

पतञ्जलियोगपीठम्

[सम्पादयतु]
पतञ्जलियोगपीठम्

क्रि.श २००६तमे वर्षे अगस्ट मासे षष्टे दिने स्वामी रामदेवस्य अत्यन्तं प्रमुखां योजनां पदञ्जलियोगपीठम् उद्घाटितम् । अस्य लक्ष्यं तु चिकित्सा, संशोधनम्, प्रशिक्षणम् इति प्रकल्पयुक्तं आयुर्वेदयोगयोः बृहद्विश्वविद्यालयस्य निर्माणम् ।[][]. इयं संस्था दीनानाम् अशक्तानां च निश्शुल्कं चिकित्सां करोति । अन्यसामान्यानाम् अन्यचिकित्सालयानाम् अपेक्षया न्यूनशुल्केन उत्तमा चिकित्सा लभ्यते । स्वामी रामदेवः पिवैपिद्वारा अन्यान्यसंस्थाभिः सहयोगेन सेवां कुर्वाणः अस्ति । एवमेव मधुमेहः, रुधिरनिपीडनम्, कायस्थौल्यम्, एतेषु रोगेषु अपि योगः प्रभावं करोति इति चिन्तनं प्रसारयन् अस्ति ।

राष्ट्रियविषयानां चर्चा

[सम्पादयतु]

स्वामी रामदेवः स्वस्य योगशिबिरमाध्यमेन राष्ट्रियस्तरस्य नैकान् विषयान् मन्त्रयते । एतावति काले समाजोत्थनस्य अनेकान् अंशान् विचर्च्य बहूनां लक्ष्यम् आकृष्टवान् । तेषु भारतसर्वकारस्य प्रशासनिकनीतिः सामान्यजनानां जीवनशैली च परिवर्तनीया इति अस्य प्रमुखम् अभ्यर्थनम् । अन्ये विषयाः ये सर्वत्रिकचर्चानुगताः ...

कृषिक्षेत्रे परिवर्तनम्

[सम्पादयतु]

स्वामी रावदेवः वदति यथा कृषकाः फलचयस्य प्रमाणं वर्धयितुम् अधिकलाभेच्छया च रसायनिकदोहदं क्रिमिनाशकानि च उपयोजयन्ति । अनेन् अक्रमेण संवर्धितैः शकैः अन्याहारवस्तुभिः च नानविधाः रोगाः उत्पादिताः ।

सिद्धपानीयाहारविरोधः

[सम्पादयतु]

बहुसङ्खाकाः जनाः विपणिषु लभमानानि सिद्धपानीयानि पोटलितान् सिद्धाहारान् उपयोजयन्ति । अयं विषयः रामदेवस्य शिबिरेषु बहुचर्च्यमानः विषयः । एतेषु पदार्थेषु रोगोत्पादकांशाः अपौष्टिकांशाः च भवन्ति । अतः तेषां पनां भक्षणं वा अस्वास्थ्यकारं भवति । सिद्धपानीयेषु विशेषतः बहुकालसंरक्षणार्थं क्रिमिनाशकविषं भवति ।

कृषकबलवर्धनम्

[सम्पादयतु]

भ्रष्टाः राजनीतिपक्षाः कृषकान् न पोषयन्ति । तेषां समस्याः न श्रुण्वन्ति । अधिकारिणां समाजस्य अविकसितजनानं विषये लक्ष्यं नास्ति । भारतस्य आर्थिकतायं कृषेः योगदानम् अधिकम् । किन्तु कृषकः एव दरिद्रः सञ्जातः इति विपर्यासः । देशस्य कशेरुकः इव विद्यमानः कृषकः अद्यतया परिगणनीयः सर्वकारेण इति अस्य आग्रहः ।

स्वदेशोद्यमानां प्रोत्साहनम्

[सम्पादयतु]

सर्वकारस्य शिथिलनियमानां कारणेनैव उद्यमक्षेतेषु देशः अविकसितः अस्ति । अनेन कारणेन एव अन्यदेशीयाः समवायाः अत्रागत्य व्यभिचरन्ति । विदेशेषु निर्मितानि विविधाङ्कितानि वस्तूनि भारतीयविपणिषु आधिक्येन सन्ति । अनेन देशीयौद्ममिकसंस्थानानि प्रक्षीणानि सन्ति । इति वदन् भारतसर्वकास्य उपरि वाक्प्रहारं कृतवान् । केन्द्रसर्वकारेण राज्यसर्वकारैः च देशीयानि औद्यमिकसंस्थानानि उद्दीप्य उत्पाद्यानि संवृध्य विदेशीयवस्तूनां व्यवहारः न्यूनीकर्तव्यः । इति रामदेवस्य बलवान् आग्रहः अस्ति ।

स्विस् देशेरक्षितभारतीयकालधनस्य आयातः

[सम्पादयतु]

स्विस् वित्तकोशेषु भारतीयानम् अन्यायसम्पादिता अपारा सम्पत् रहस्येन न्यस्ता अस्ति । एतद्धनं तु भारतस्य राष्ट्रिया सम्पत् भवति । अतः भारतसर्वकारः एतद्धनम् आनेतुं गभीरतया प्रयत्नं कुर्यात् । इति स्वामी रामदेवः[१] अधिकृतसमीक्षानुगुणं देशस्य अस्य ८४कोटिजनाः (७५%प्रजाः) प्रतिदिनं २०रूप्यकैः जीवन्ति । बाबा रामदेवः एतादृशजनानां कल्याणार्थमेव भारतस्वाभिमानान्दोलनम् अरब्धवान् । अस्य प्रथमलक्ष्यम् एव ८४कोटिजनानां क्षेमाभिवृद्धिः ।

भारतस्वाभिमानान्दोलनम्

[सम्पादयतु]

आन्दोलनस्य पञ्चलक्षानि ।

  • १००% मतदानम् ।
  • १००% राष्ट्रियतावादस्य चिन्तनम् ।
  • १००% विदेशीयोत्पादनं तिरस्कृत्य स्वदेशीयोद्ममावलम्बनम् ।
  • १००% देशजनसङ्घटनम् ।
  • १००% योगदृष्टिदेशः ।

भारतस्वाभिमानान्दोलनस्य प्रतिज्ञाविधिः

  • देशाभिमानः, निष्ठा, शौर्यम्, दूरदृष्टिः, धिर्यम्, सम्पर्ककौशलम् इत्यादयः नायकत्वगुणाः येषु सन्ति तेभ्यः एव मतदानं कुर्मः ।
  • नवस्वातन्त्रं, नवव्यवस्थाः, नूतनपरिवर्तनं, आनेतव्याः, वयं सर्वे देशाभिमानेन, विश्वासेन, सूक्ष्मप्रज्ञया, निष्ठया युक्तजनान् मेलयामः । सर्वे मिलित्वा १००%राष्ट्रियशक्तेः सञ्चयनं कुर्मः । भारतं जगद्गुरुं कुर्मः ।
  • शून्यतन्त्रज्ञनेन सिद्धानि विदेशियवस्तूनि सम्पूर्णतया बहिष्कुर्मः । अपि देशीयोत्पादनानि उपयुञ्जामहे ।
  • राष्ट्रियतावदस्य चिन्तनानि १००% अङ्गीकृत्य अनुष्ठने अनयामः । इस्लाम्, क्रिश्चियन्, इत्यादीनि मतानि पश्यामः ताथापि वयं यथार्थे भारतीयाः इति जीवमः ।
  • समग्रं राष्ट्रं १००५ योगयुकं कर्तुम्, प्रत्येकं पौरं स्वस्थं कुर्मः । प्रत्येकं वञ्चनं, भ्रष्टता, निराशस्थितिः, अविश्वासः, द्वन्द्वमनोभावः इत्यादीनां कारणं परिशील्य दौर्वल्यं विमोचय्य आत्माभिमानेन जीवितुम् अवकाशं परिकल्पयामः । राष्ट्रियभावं जगरय्य भारतस्य प्रसुप्तगौरवं वर्धयामः ।

भ्रष्ठाचारनिर्मूलनध्येयः

[सम्पादयतु]

अन्यायः, अत्याचारः, उत्कोचग्रहणम् इत्यादीन् नीतिशसनविरुद्धान् दुराचारान् निर्मूलयितुं बाबा रामदेवः भारतस्वाभिमानान्दोलनम् इति सामूहिकप्रतिरोधयात्राम् आरब्धवान् । एतत् आन्दोलनं सर्वकारस्य सर्वेषु विभागेषु भ्रष्टाचारं विरुद्ध्य विप्लवं करोति । भारसर्वकारीयानम् अधिकारिणाम् उत्कोचदुराशया सामाजिकोद्यमक्षेते वैदेशिकसमवायाः प्रविशन्ति । अनेन भारतीयसामाजिकार्थिकव्यवस्थायां विपरीतपरिणामः भवति । रामदेवस्य भारतस्वाभिमानसंस्थया सञ्चालितं भारतदेशस्य भ्रष्टां व्यवस्थां विरुद्ध्य जनान्दोलनम् प्रवर्तते । देशस्य दारिद्र्यं दूरयितुम् एतत् प्रथमं सोपानं भवति । अस्याः संस्थायाः उद्देशं पूरयितुं देशे संस्कृतिविस्मृतिवतः सर्वान् अस्मिन् आन्दोलने योजयेत् । अनेन भारतं बलिष्ठं राष्ट्रं कर्तुं शक्यते इति रामदेवस्य दृढाभिप्रायः । शिक्षाव्यवस्थायाः विषये मुख्योद्देशद्वयम् अस्ति । आद्यः स्वदेशीया शिक्षा नाम भारतीयमूलतत्त्वयुक्ता विद्यादानव्यवस्था । अपरा स्वदेशीया वैद्यशिक्षा । इत्युक्ते भारतीयमूलतत्त्वयुक्ता वैद्यकीयशिक्षाव्यवस्था अनेतव्या । सर्वकारेण प्रादेशिकभाषाः आदरणियाः । भारतीयभाषाः सर्वकारीयव्यवहारस्य प्राथमिकभाषाः भवेयुः । एताभिः एव भाषाभिः न्यायाङ्गव्यवहारः शिक्षा सञ्चालनीया । हिन्दीभाषाभाषिकानां सङ्ख्या देशे अधिका अस्ति । समग्रे विश्वे एव चीनीभाषाभाषिकानां सङ्क्यायाः पश्चात् हिन्दीभाषिकाः एव सन्ति । तथापि देशे आङ्ग्लभाषायाः प्रामुख्यम् अस्ति हिन्दी द्वीतीयस्थाने एव अस्ति । इति विषये रामदेवः भारतसर्वकारस्य अवधानम् आकृष्टवान् । भारतदेशं विना अन्यः यः कोऽपि देशः स्वभाषां त्यक्त्वा विदेशभाषां नोपयोजयति ।

सलिङ्गरतिविरोधः

[सम्पादयतु]

क्रि.श. २००९तमे वर्षे देहल्याः उच्चन्यायालयः भारते सलिङ्गरतिः अनपराधः इति निर्णयम् अश्रावयत् । तदा रामदेवः प्रसारमाध्यमानां पुरतः अयं निर्णयः अपराधं मानसिकास्वस्थ्यं च पोषयति । भारतस्य कुटुम्बव्यवस्थामेव उन्मूलयति । लज्जास्पदः अवमानकरः च विचारः एषः । विदेशीयानाम् अन्धनुकरणस्य फलमेतत्। इति बहुधा आक्षिप्तवान् । यदि सर्वकारः शासननियमं करोति तर्हि वीथ्यां विप्लवं करोमीति गर्जितवान् ।[]

प्रशस्तिपुरस्काराः

[सम्पादयतु]
  • क्रि.श. २००७तमे वर्षे जनवरिमासे के.ऐ.ऐ.टि.विश्वविद्यालयः रामदेवायाय डाक्टरेट् गौरवपदम् अयच्छत् वेदविज्ञनयोगस्य जनप्रियतानिर्माणार्थम् ।[]

उल्लेखाः

[सम्पादयतु]
  1. "Ramdev's yog brand launched in America". 
  2. "Swami Ramdev". knowyoga.org. Archived from the original on 27 September 2007. आह्रियत 21 March 2007.  Unknown parameter |dateformat= ignored (help)
  3. ३.० ३.१ ३.२ ३.३ ३.४ ३.५ ३.६ ३.७ ३.८ "Life Positive". Archived from the original on 2010-01-18. आह्रियत 2012-05-17. 
  4. भगवत्पादस्य शङ्कराचार्यस्य मोहमुद्गरस्त्रित्रम्
  5. "Patanjali Yog Peeth - Introduction". Archived from the original on 2010-01-14. आह्रियत 2012-05-17. 
  6. "Gay is bad, chorus maulanas, saffron brigade & Church". DNA. 
  7. "Doctorate degree for Yoga Guru Ramdev". punjabnewsline.com. Archived from the original on 29 August 2007. आह्रियत 21 March 2007.  Unknown parameter |dateformat= ignored (help)

बाह्यानुबन्धा

[सम्पादयतु]
{{bottomLinkPreText}} {{bottomLinkText}}
स्वामी रामदेवः
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?