For faster navigation, this Iframe is preloading the Wikiwand page for श्रीमद्भागवतमहापुराणम्.

श्रीमद्भागवतमहापुराणम्

श्रीमद्भागवतम्  
भागवतं श्रीकृष्णलीलामृतम् ।
लेखक वेदव्यासः
देश भारतम्
भाषा संस्कृतम्
शृंखला पुराणम्
विषय श्रीकृष्णः भक्तिः
प्रकार प्रमुखवैष्णवग्रन्थः
पृष्ठ १८,००० श्लोकाः
१५०० ईशवीयाब्दे लिखिते भागवतपुराणे कृष्णं स्नापयन्ती यशोदा

श्रीमद्भागवतमहापुराणम् ( SrimadbhagavataPurana) हिन्दूधर्मस्य अनुयायिनाम् अष्टादशपुराणेषु अन्यतमम्। एतत् पुराणं श्रीमद्भागवतम् अथवा केवलं "भागवतम्" च उच्यते। पुराणस्य मुख्यवर्ण्यविषयः भक्ति योगः अस्ति। पुराणे कृष्णं सर्वेषां देवानां देव: इति वा स्वयं भगवान् इति रूपेण वा चित्रितवन्त: सन्ति। एतत् अतिरिच्य अस्मिन् पुराणे रसभावं भक्तिनिरूपणञ्च कृतवन्त: सन्ति, परम्परागतरुपेण एतस्य पुराणस्य रचयिता व्यासः । श्रीमद्भागवतम् भारतीयवाङ्मयस्य मुकुटमणिः इव अस्ति। भगवता शुकदेवेन महाराज्ञे परीक्षिताय उक्तस्य भक्तिमार्गस्य वर्णनं अस्मिन् पुस्तके अस्ति। पुराणस्य प्रत्येकं श्लोक: श्रीकृष्णप्रेम्णा सुगन्धित: अस्ति। साधन-ज्ञानं, सिद्धज्ञानं, साधन-भक्तिः, सिद्धा-भक्तिः, मर्यादा-मार्गः, अनुग्रह-मार्गः, द्वैताद्वैतसमन्वयेन सह प्रेरणादायीनि विविधानि उपाख्यानानि अद्भुतप्रकारेण सङ्गृहीतानि सन्ति। []

भागवतपुराणे महर्षि सूत गोस्वामी तस्य समक्षे प्रस्तुतसाधूभ्यः शौनकादिभ्यः एकां कथाम् उवाच। साधवः सूतसमक्षे भगवतः विष्णोः विभिन्नानाम् अवताराणां विषये जिज्ञासां कुर्वन्ति। सूतगोस्वामी समस्तप्रश्नानां उत्तरं ददाति। अस्मिन् ग्रन्थे द्वादश स्कन्धाः वर्तन्ते। प्रथमे स्कन्धे सर्वेषाम् अवताराणां संक्षिप्तरुपेण वर्णनं कृतमस्ति। द्वितीये स्कन्धे पुराणलक्षणानां वर्णनं कृतम्। एते लक्षणाः सर्गः, विसर्गः, स्थानं, पोषणम्, ऊतयः, मन्वन्तरम्, ईशानुकथा, निरोधः, मुक्तिः, आश्रयश्च। एतेषाम् लक्षणानाम् वर्णनं तृतीयस्कन्धादारभ्य द्वादशस्कन्धपर्यन्तं क्रमेण भवति।

विद्यावतां भागवते परीक्षा इत्युक्तेर्भागवतस्य काठिन्यं श्रुतचरम् । भागवतस्य पुराणत्वे लोकाः सन्दिहते, ते हि देवीभागवतमेवाष्टादशपुराणान्तर्गतं मन्यन्ते न श्रीमद्भागवतम् । त्रयोदशशतकोत्पन्नो वोपदेवनाम‌ वङ्गीयो विद्वान् श्रीमदभागवतं प्रणीतवानिति कथनमपि श्रीमदभागवतस्य पुराणत्वं सन्देहे पातयतां केषाञ्चनावस्तुतत्त्वविदामेव ।

वस्तुतस्तु पुराणेषु अपेक्षितस्य ग्रन्थविस्तरस्य ‘सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च । वंशानुचरितं चेति पुराणं पञ्चलक्षणम्’ इति स्वरुपनिर्दिशस्य च भागवते सत्त्वेन तदीयं महापुराणत्वं न सन्देहदोलाधिरुढम् श्रीमदभागवतं गायत्रिमन्त्रेणारभ्यते तेनैव च समाप्तिमाप्नोतीति मन्ये महामन्त्रसम्पुटितमिदं न केवलं पुराणमेवापि तु महापुराणम् । अष्टादशपुराणेषु गणनाऽपि भागवतशब्दसाधारण्यादुभयोः प्राप्नोति, तत्र श्रीमदभागवतमुत्कृष्टगुणशालितया प्राथम्यमर्हति ।

वोपदेवेन त्रयोदशशतकोत्पन्नेन भागवतं रचितमिति कथनं तु नितान्तनिर्मूलम् तत्र कारणान्यधो निर्दिश्यते –

१. द्वैतमतानुयायी मध्वाचार्यो भागवतोपरि भागवततात्पर्यनिर्णयं नाम टीकाग्रन्थं व्यरचयत्, मध्वाचार्यः ११९९ ई. वर्षे जन्माग्रहीत्, अतस्त्रयोदशशतकात् पूर्वकालिकं भागवतं त्रयोदशशताब्द्यामुत्पन्नेन वोपदेवेन प्रणीतं न सम्भवति ।
२. एकादशशतकोत्पन्नो रामानुजाचार्यो वेदान्ततत्वसारनामके स्वग्रन्थे भागवतवर्त्तिवेदस्तुतेः पद्यमुदधृतवान् ।
३. चित्सुखाचार्येण नवमशतकसम्भूतेन विरचिताया भागवतव्याख्याया निर्देशो मध्वाचार्यश्रीधरस्वामिविजयध्वजैः स्वग्रन्थेषु कृतः ।
४. दशमशतकोत्पन्नः प्रत्यभिज्ञादर्शनाचार्योऽभिनवगुप्तः स्वीयायां गीतादीकायां भागव्तस्यैकादशस्कन्धतः कतिपयपद्यानि उद्धृतवान् ।
५. साङ्ख्याकारिकासु माठरवृत्तिनाम्नी व्याख्या विद्यते, यस्याः अनुवादःचीनदेशभाषायां ५५७-५६९ मध्ये कदाचिदजायत, तत्र भागवतस्य श्लोकद्वयं निर्दिष्टम् ।
६. अष्टमशतकोत्पन्नः शङ्कराचार्यः गोविन्दाष्टक-प्रबोधसुधाकरनामकयोः स्वस्तोत्रयोः स्तुतिप्रसङ्गे यासां घटनानां चर्चामकृत ता भागवत इव स्थिताः ।
७. शङ्कराचार्यस्य परमगुरवः गौडपादाचार्याः पञ्चीकरणव्याख्यां ‘जगृहे पौरुषं रुपम्’ इति भागवतस्य पद्यं भागवतनामोपादानपूर्वकसुद्धृतवान् । अयं गौडपादाचार्यः षष्ठ शतकात् परतो नैव सम्भावयितुं शक्यते ।

इमानि प्रमाणानि सभेरीनादं साधयन्ति भागवतस्य षष्ठशतकात्प्राचीनताम्, तथा सति त्रयोदशशताब्दीजातेन वोपदेवेन निर्मितत्वं वक्तुरुपहासायैव केवलम् । पद्मपुराणान्तर्गत भागवतमाहात्म्यानुसारेण तु कलियुगप्रारम्भ एव भागवतस्य निर्माणं सिद्ध्यति । वोपदेवेन यदि भागवतं कृतं तदा हरिलीलामृतं मुक्ताफलं चेति ग्रन्थद्वयं कथं कृतम् ? हरिलीलामृते भागवतानुक्रमणी विद्यते, मुक्ताफलं च भागवतस्थसरसश्लोकानां संग्रहः, वोपदेवस्य भागवतरचयितृत्वे मुक्ताफलसदृशस्य ग्रन्थस्य तेनैव प्रणयनएप्यर्थमेव स्यात् ।

भागवतस्य कवितासौष्ठवम्

[सम्पादयतु]

भागवतस्य पद्येषु गद्येष्वपि तादृशं चमत्कारकं सौष्ठवं प्राप्यते यत तेन विदुषां मनांसि हठादाकृष्यन्ते । नवेषु काव्यषु जातेष्वपि भागवतगता काव्यमाधुरी नापकृष्टतां गता । तत्पठतां मनांसि भागवतं काव्यमेव प्रथमं मन्यन्ते ततोऽनन्तरं पुराणादि किञ्चिदन्यत । भागवते समायातानि मथुराद्वारकाप्रभृतिनगरीवर्णनानि यथा कलायुतानि तथैव यथार्थान्यपि । केशिनो विकरालस्य रुपस्य जरासन्धभीमयोर्भीषणस्य गदायुध्दस्य च वर्णनमेकतो यदि रोमाञ्चमुदञ्चयति तदा गोपिगीतभ्रमरगीतादि पठयमानमेव हृदयं स्तिमितयति नयने उदस्रयति च । दृश्याताम –

रत्नप्रदीपनिकरद्युतिभिर्निरस्त-
ध्वान्तं विचित्रवलभीषु शिखण्डिनोऽङ्ग ।
नृत्यन्ति यत्र विहितागुरुधूपमक्षै –
र्निर्यान्तमीक्ष्य घनबुध्दय उन्नदन्तः॥

द्वारकावर्णनपद्येऽस्मिन् मयूराणां भ्रमस्य वर्णनं नितान्तमनोहरमिदम् । भागवतस्थितेषु वर्णनेषु चमत्कारस्तदाऽतिशयमाप्नोति यदा तत्र वर्णनेष्वपि आत्महिताधायका आध्यात्मिका उपदेशा रसवृष्टिं कुर्वते –

गिरयो वर्षधाराभिर्हन्यमाना न विव्यथुः ।
अभिभूयमाना विषयैर्यथाऽधोक्षजचेतसः ॥ ( १०/२०/१५)
सरिद्भिः संगतः सिन्धुःचुक्षुभे श्वसनोर्मिवान् ।
अपक्वयोगिनश्चित्तं कामाक्तं गुणयुग्यथा ॥ (१०/२०/१४)

रासपञ्चाध्यायी भागवतस्य काव्यकलायाः पराकाष्ठाया निदर्शनम् –

शरदुदाशये साधुजातसत्सरसिजोदरश्रीमुषा दृशा ।
सुरतनाथ तेऽशुल्कदासिका वरद विध्नतो नेह किं वधः ?॥
चरसि तंयद् व्रजाच्चारयन् पशून् नलिनसुन्दरं नाय ते पदम् ।
तृणकृशाङ्कुरैः खिद्यतीतिः नः कलिलतां मनः कान्त गच्छति ॥

ईदृशं सङ्गीतमयं हृदयोद्गारप्रकाशनक्षमं च सरसं काव्यं वस्तुतः संस्कृतसाहित्येऽपरत्र दुर्लभमिति कथनं भूतार्थकथनमेव ।

शास्त्री अतुलभाई आर रावल रणावाडा (जागीरी)=भागवतस्य टीकासम्पत्= वैष्णवदर्शनिकैः सर्वैरेव भागवतस्य व्याख्या कृता, तदयं भागवतग्रन्थो ब्रह्मसूत्रसमतां गतः । अस्य ग्रन्थस्य टीकासम्पदेवादसीयं गौरवं गमयितुमलम् –

  1. चित्सुखाचार्यकृता टीका, नोपलभ्यते, केवलं निर्दिश्यते ।
  2. श्रीधरकृता टिका, इयं प्रामाणिकी, ‘श्रीधरः सकलं वेत्ति श्रीनृसिंहप्रसादतः’ इति श्रुतेः ।
  3. सुदर्शनसूरिणः शुकपक्षीया टीका, श्रीवैष्णवमतपोषिका ।
  4. वीरराघवाचार्यस्य भागवतचन्द्रचन्दिकाटीका, श्रीवैष्णवमतपोषिका ।
  5. विजयध्वजकृता पदरत्नावली, माध्वमतपोषिका ।
  6. सनातनगोस्वामिनः बृहद्वैष्णवतोषिणी, दशमस्कन्धस्य ।
  7. जीवगोस्वामिनः क्रमसन्दर्भः ।
  8. विश्वनाथचक्रवर्तिनः सारदर्शिनी ।
  9. जीवगोस्वामिनः षट्सन्दर्भः, तत्त्वविवेचनग्रन्थः ।
  10. वल्लभाचार्यस्य सुबोधिनी, वल्लभसम्प्रदायस्य ।
  11. शुकदेवचार्यस्य सिध्दान्तप्रदीपः, निम्बार्कसम्प्रदायस्य ।
  12. श्रीहरेः हरिभक्तिरसायनं नाम पद्यमयी टीका ।

एवं वयं पश्यामो यदाचार्याः भागवतं स्वमतपोषणाय सादरं व्याचख्युः, अतोऽस्य ग्रन्थस्य सारत्त्वं प्रतीमः ।

स्कन्ध

[सम्पादयतु]
स्कन्धसंख्या प्रमुखविषयाः विवरणम्
प्रथमस्कन्ध: भक्तियोग: तथा भक्तियोगात्

उत्पन्नस्य वैराग्यस्य वर्णनम् ।

सूतशौनकसंवादः,भागवतमाहात्म्यवर्णनं,विष्णोः चतुर्विंशतिरूपवर्णनं,व्यासेन भागवतपुराणरचनम्,शुकेन अध्ययनं,पाण्डवानां उत्पत्तिः,अश्वत्थामावृत्तान्तः,कृष्णेन उत्तरायाः गर्भरक्षणम्,परीक्षितः उत्पत्तिः,विदुरधृतराष्ट्रादीनां वनगमनम् तत्र इहलोकपरित्यागः,कृष्णस्य तिरॊधानं,पाण्डवानाम् वीराध्वगमनं,परीक्षितस्य राज्यप्राप्तिः कलिनिग्रहश्च,मृगयागमनं,आश्रमे विप्रतिरस्कारः,तत्सुतशापः पश्चात्तपश्च,शुकादिमुनीनां आगमनम्।
द्वितीयस्कन्ध: ब्रह्माण्डस्य उत्त्पत्ति: एवं विराट्पुरुषस्य स्थिति: स्वरूपं च । भागवतकथाप्रारम्भः,विराड्रूपोपासनं,हृदयाकाशगतरूपोपासनं,मुमुक्षूणां कर्तव्यः,अण्डान्तः सृष्टिकथनानुवृत्तिः,ब्रह्मणः सृष्टिः तपश्च,हरिणा वरदानम् चतुश्लोकीभागवतोपदेशः,पुराणस्य दशलक्षणानि,अण्डान्तः भ्रह्मशरीरसृष्टिः,तत्र देवानां प्रवेशः।
तृतीयस्कन्ध: उद्धवद्वारा कृष्णस्य बाल-चरित्र-वर्णनम् । विदुरस्य तीर्थयात्रा,यमुनातटे उद्दवदर्शनं,तेन कृष्णजन्ममारभ्य यादवानां नाशपर्यन्तं श्रीकृष्णचरित्राकथनं,उद्दववचनानुसारेण विदुरस्य बदरी यात्रा, तत्र मैत्रेयसमागमः, तेन तत्वोपदेशः, तत्र ब्रह्मणः सृष्टिः, कर्दमदेवहूत्याः विवाहः। कपिलावतारः,भक्तियोगप्रकाराणां निरूपणं।
चतुर्थस्कन्ध: राजर्षि ध्रुव: एवं पृथु: इत्यादीनां चरित्राणि । यज्ञावतारः,नरनारायणावतारश्च,दाक्षायणीकथा,यज्ञे रुद्रस्य तिरस्कारः,शापप्रतिशापौ, सत्या देहत्यागः, वीरभद्रादिभिः शिवेन दक्षाध्वरभङ्गः,स्वायम्भुवपुत्रवंशचरितं, ध्रुवचरित्रं, वेनवृत्तान्तः, पृथुचरित्रं,पृथॊः शताश्वमेधः,तत्र शक्रेण अश्वाहरणम्,अन्ततः सन्धानं,पृथोः देहत्यागः,पृथुवंशविस्तारह् ,तत्र पुरञ्जनचरित्रं,प्रचेतसां चरित्रम्।
पञ्चमस्कन्ध: समुद्र-पर्वत-नदी-पाताल-नरकादीनां स्थिति: । प्रियवृतकथा,नाभेः यज्ञः,ऋषभावतारः,भरतचरित्रम्,तस्य हरिणीजन्मप्राप्तिः,आङीरसकुले जन्म, जडताविडम्बनं, भरतरहूगणसमागमः, तस्य तत्वोपदेशः,विस्तारतया भूमण्डलवर्णनं,सूर्यगतिवर्णनं,चन्द्रादिग्रहाणांवर्णनं, शिंशुमारस्य वर्णनं,सप्तोधोलोकवर्णनं, शेषस्य महिमा।
षष्ठस्कन्ध: देवता, मनुष्य, पशु, पक्षी इत्यादीनां जन्मन: कथा । अजमिळा कथा,प्रचेतसां कथा,दक्ष जन्म,हर्यश्वानाम् जन्म, इन्द्रेण गुरॊः तिरस्कारः ,पराभवः विश्वरूपोपसत्तिः,तस्य प्रतिश्रवश्च,नारायणवर्म प्राप्तिः,विश्वरूपवधः,तदा ब्रह्महत्याविभागः, वृतजन्म, वज्रनिर्मितिः,वृत्रस्य संरम्भः,वृत्रस्य पूर्ववृत्तान्तः,चित्रकेतोः पार्वतीशापः,अदितिवंशकथनं,दितिवंशकथनं,पुंसवननिरूपणं।
सप्तमस्कन्ध: हिरण्यकश्यिपु-हिरण्याक्षाभ्यां सह प्रह्लादस्य चरितम् । जयविजयॊः जन्मत्रयवृत्तान्तः,हिरण्याक्षवधः,हिरण्यकशिपोः तपः,प्रह्लादस्य अद्ययनं,प्रह्लादेन दैत्यबालकानाम् विष्णुधर्मोपदेशः,हिरण्यकशिपोः रॊषः,नृसिंहावतारः,नारदेन ब्राह्मणादिवर्णानाम् निरूपण्ं,ब्रह्मचर्यादि आश्रमधर्मनिरुपणम्
अष्टमस्कन्ध: राजवंशानां विवरणानि । यज्ञेन स्वायम्भुवमनोः रक्षा,स्वारोचिष-उत्तममन्वन्तरयोः वर्णनं,तापसमन्वन्तरे गजेन्द्रमोक्षः,रैवत-चाक्षुषमन्वन्तरयोः वर्णनं,चाक्षुषे क्षीरसमुद्रमथनं,धन्वतर्याविर्भावः,मोहिनी अवतारः,तेन हरस्य मनोवैचित्र्यम्,वैवस्वतादीन्द्रसावर्ण्यसप्तमन्वन्तरवर्णनम्,सावर्णिमन्वन्तरे वामनावतारः,शुक्रस्य शापह्,बलेर्वामनपादप्रक्षालनं,वामनस्य त्रिविक्रमस्वरूपः,गङ्गाजन्म,बलेः सुतळाधिपत्यदानं,मत्स्यावतारचरितं।
नवमस्कन्ध: श्रीरामस्य कथा । इळावृतमहिमा,इक्ष्वाकुचरित्रं,नाभागकथा,अम्बरीषसुतवंशः,सौभरिकथा,भगीरथस्य गङ्गावतरणं,रामावतारः,सीतापरित्यागः,सोमवंशकथनं,परशुरामावतारः, विश्वामित्रजन्म,नहिषस्य वंशः,पुरुवंशवर्णनं,रन्तिदेवमहिमा,यदुवंशवर्णनं
दशमस्कन्ध: भगवत: श्रीकृष्णस्य अनन्तलीला:। विस्तृततया श्रीकृष्णचरित्रवर्णनं,पाण्डव-कौरवाणां चरित्रं
एकादशस्कन्ध: यदुवंशस्य संहारः। पाण्डवानां वनवासः
द्वादशस्कन्ध: विभिन्नयुगा: प्रलय: तथा भगवतः उपाङ्गादीनां वर्णनम् । कलियुगवर्णनं,मार्कण्डेयचरित्रं

बाह्य लिंकानि

[सम्पादयतु]
{{bottomLinkPreText}} {{bottomLinkText}}
श्रीमद्भागवतमहापुराणम्
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?