For faster navigation, this Iframe is preloading the Wikiwand page for शाजापुरमण्डलम्.

शाजापुरमण्डलम्

शाजापुरमण्डलम्

Shajapur District
शाजापुर जिला
शाजापुरमण्डलम्
शाजापुरमण्डलस्य नयनाभिरामदृश्यम्
मध्यप्रदेश राज्यस्य मानचित्रे शाजापुरमण्डलम्
मध्यप्रदेश राज्यस्य मानचित्रे शाजापुरमण्डलम्
देशः  India
राज्यम् मध्यप्रदेशः
उपमण्डलानि शाजापुरम्, सुसनेर, बडोद, नलखेडा, आगर, मोमन बडोलिया, गुलाना, शुजालपुर, कालपीपल
विस्तारः ६,१९५ च. कि. मी.
जनसङ्ख्या (२०११) १५,१२,६८१
Time zone UTC+५:३० (भारतीयमानसमयः (IST))
साक्षरता ६९.०९%
भाषाः हिन्दी, आङ्ग्लं
लिङ्गानुपातः पु.-५०%, स्त्री.-४६.५%
Website http://www.shajapur.nic.in/

शाजापुरमण्डलम् ( /ˈʃɑːɑːpʊrəməndələm/) (हिन्दी: शाजापुर जिला, आङ्ग्ल: Shajapur district) इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य उज्जैनविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति शाजापुरम् इति नगरम् ।

भौगोलिकम्

[सम्पादयतु]

शाजापुरमण्डलस्य विस्तारः ६,१९५ चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य पश्चिमभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे राजगढमण्डलं, पश्चिमे उज्जैनमण्डलम्, उत्तरे राजस्थानराज्यं, दक्षिणे देवासमण्डलम् अस्ति । अस्मिन् मण्डले कालीसिन्धनदी प्रवहति ।

जनसङ्ख्या

[सम्पादयतु]

२०११ जनगणनानुगुणं शाजापुरमण्डलस्य जनसङ्ख्या १५,१२,६८१ अस्ति । अत्र ७,८०,५२० पुरुषाः, ७,३२,१६१ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते २४४ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २४४ जनाः। २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १७.२०% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९३८ अस्ति । अत्र साक्षरता ६९.०९% अस्ति ।

उपमण्डलानि

[सम्पादयतु]

अस्मिन् मण्डले नव उपमण्डलानि सन्ति । तानि- शाजापुरम्, सुसनेर, बडोद, नलखेडा, आगर, मोमन बडोलिया, गुलाना, शुजालपुर, कालपीपल ।

वीक्षणीयस्थलानि

[सम्पादयतु]

बगलामुखी-माता-मन्दिरम्

[सम्पादयतु]

बगलामुखी-माता-मन्दिरं नलखेडा-ग्रामे स्थितमस्ति । इदं मन्दिरं बहुप्रसिद्धं, बहुप्राचीनं च अस्ति । अस्मिन् मन्दिरे बहवः तान्त्रिकाः साधनां कुर्वन्ति । तेन कारणेन इदं मन्दिरं तन्त्रसाधनायै प्रसिद्धमस्ति ।

पार्श्वनाथ-मन्दिरम्

[सम्पादयतु]

पार्श्वनाथ-मन्दिरं भारतस्य प्रसिद्धेषु मन्दिरेषु अन्यतमम् अस्ति । इदं मन्दिरं जैनसम्प्रदायस्य तीर्थस्थलमस्ति । अस्मिन् मन्दिरे पार्श्वनाथस्य मूर्तिः अस्ति ।

करेडी-माता-मन्दिरम्

[सम्पादयतु]

करेडी-माता-मन्दिरं शाजापुर-नगरात् १० कि. मी. दूरे स्थितम् अस्ति । मन्दिरमिदं कनकावती-माता-मन्दिरम् इत्यपि प्रसिद्धमस्ति । करेडी-माता-मन्दिरं मालवा-प्रान्तस्य मुख्यं पूजनीयस्थलम् अस्ति ।

बाह्यसम्पर्कतन्तुः

[सम्पादयतु]

http://www.shajapur.nic.in/ Archived २०१४-०५-१६ at the Wayback Machine
http://www.census2011.co.in/census/district/303-shajapur.html

{{bottomLinkPreText}} {{bottomLinkText}}
शाजापुरमण्डलम्
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?