For faster navigation, this Iframe is preloading the Wikiwand page for हिन्दी.

हिन्दी

मानकहिन्दीभाषा
मानक हिन्दी
देवनागरीलिपियते हिन्दी शब्दः
विस्तारः  भारतम्
मारिषस्, दक्षिण-आफ्रिका, संयुक्तराज्यानि अमरिका, केनडा, नेपालः
स्थानीय वक्तारः
भाषाकुटुम्बः
लिपिः
  • देवनागरी (आधिकारिक)
  • कैथी (ऐतिहासिक)
  • महाजनी (ऐतिहासिक)
  • लण्डा (ऐतिहासिक)
आधिकारिकस्थितिः
व्यावहारिकभाषा  भारतम्
नियन्त्रणम् केन्द्रीयहिन्दी आयुक्तः (भारतम्)[]
भाषा कोड्
ISO 639-1 hi
ISO 639-2 hin
ISO 639-3 hin
LINGUIST List hin-hin
Linguasphere 59-AAF-qf

हिन्दीभाषा सांविधानिकरूपेण भारतस्य एका आधिकारिकभाषा विद्यते । भारते अत्यधिकैः जनैः भाष्यमाणा अवगम्यमाना च भाषा विद्यते । विश्वे अधिकं भाषमाणायाः चीनीभाषायाः अनन्तरं स्थानं हिन्दीभाषायाः । उत्तरभारते अस्याः उपयोगः अधिकः । भारते अन्येषु देशेषु च विद्यमानाः हिन्दी-भाषिणः ६० कोट्यधिकाः सन्ति । एते हिन्दीभाषया सम्भाषन्ते, पठन्ति, लिखन्ति च । फिजी, मारिषस्, गयाना, सूरीनाम् इत्येतेषु देशेषु अधिकाः, नेपालदेशे केचन च हिन्दीभाषया सम्भाषन्ते । हिन्दीभाषा राष्ट्रभाषा, राजभाषा, सम्पर्कभाषा, जनभाषा इत्यादीनि सोपानानि आरुह्य विश्वभाषास्थानस्य अलङ्करणे अग्रेसरा वर्तते । भाषाविकासक्षेत्रे कृतपरिश्रमवतां भाषाविज्ञानिनां भविष्यवाणी हिन्दीभाषाप्रेमिणां सन्तोषदायिका अस्ति । ते वदन्ति यत् विश्वस्तरे अन्ताराष्ट्रियमहत्त्वम् आप्नुवत्सु भाषासु हिन्दी प्रमुखा अस्ति इति ।

शब्दानां व्युत्पत्तिः

[सम्पादयतु]

हिन्दीशब्दस्य मूलं संस्कृतस्य सिन्धुशब्दः इति मन्यते । 'सिन्धु'इत्येषः शब्दः सिन्धुनदीं परितः विद्यमानां भूमिं च निर्दिशति । अयं सिन्धुशब्दः इरानीयानां मुखे 'हिन्दु' इति जातम् । ततः हिन्दी, हिन्द इति जातम् । अग्रे इरानीयाः भारतस्य बहु भागं यदा आक्रान्तवन्तः तदा 'हिन्द्'शब्देन पूर्णं भारतं निर्देष्टुम् आरब्धवन्तः । इरानीभाषायाः 'ईक'प्रत्ययस्य योजनेन 'हिन्दीक' (हिन्दस्य) इति जातम् । यूनानीशब्दस्य 'इन्दिका'शब्दस्य आङ्ग्लशब्दः 'इण्डिया'इति जातम् ।

हिन्दीभाषा उर्दुभाषा च

[सम्पादयतु]

भाषाकोविदाः हिन्दी उर्दूभाषा च समाना इति मन्यन्ते । हिन्दीभाषा देवनागरीलिप्या लिख्यते । अस्याः शब्दाः अधिकतया संस्कृतशब्दाः एव । उर्दूभाषा फारसीलिप्या लिख्यते । फारसि-अरबीभाषयोः प्रभावः अस्याः उपरि अधिकतया विद्यते । व्याकरणदृष्ट्या हिन्दी-उर्दुभाषयोः शतप्रतिशतं समानता विद्यते । उर्दूभाषायाः केचन विशेषध्वनयः अरबी-फारसीसम्बद्धाः । अतः उर्दुभाषा हिन्दीभाषायाः काचित् विशेषशैली इति चिन्तयितुं शक्या ।

परिवारः

[सम्पादयतु]

हिन्दीभाषा हिन्द-यूरोपीयभाषापरिवारे अन्तर्भवति । इयं हिन्द-ईरानीयशाखायाः हिन्द-आर्य-उपशाखायां वर्गीकृता अस्ति । हिन्द-आर्यभाषाः संस्कृतभाषोत्पन्नाः सन्ति । उर्दू, काश्मीरी, बाङ्ग्ला, ओडिया, पञ्जाबी, रोमानी, मराठी नेपाली इत्यादयः भाषाः हिन्द-आर्यभाषाः सन्ति ।

निर्माणकालः

[सम्पादयतु]

अपभ्रंशस्य समाप्तेः अनन्तरम् आधुनिकभाषाणां जन्मकालः 'सङ्क्रान्तिकालः'इति निर्देष्टुं शक्यः । हिन्दीभाषायाः स्वरूपं शौरसेनी-अर्धमागधीभाषयोः अपभ्रंशात् विकसितमस्ति । १० शतके अस्याः भाषायाः स्वतन्त्रास्तित्वं दृश्यते ।

अपभ्रंशस्य सम्बन्धे 'देशी'शब्दस्य प्रयोगः आधिक्येन श्रूयते । वस्तुतः 'देशी'शब्दः देशीशब्दं देशीभाषां च निर्दिशति । प्रश्नः अस्ति - देशीयशब्दः कस्याः भाषायाः ? इति । भरतमुनिः नाट्यशास्त्रे ये शब्दाः संस्कृतस्य तत्समो वा तद्भवो वा न विद्यन्ते तान् देशीशब्देन निर्दिशति । 'देशी'शब्दाः जनैः भाषितभाषायां रूढिगताः भवन्ति । ते सामान्यतः अपभ्रंशाः एव भवन्ति । जनभाषा व्याकरणनियमान् न अनुसरन्ति अपि तु व्याकरणमेव जनभाषाप्रवृत्तेः विश्लेषणं करोति । प्राकृतव्याकरणं संस्कृतस्य अनुसरणम् अकरोत् । संस्कृतं प्रकृतिः मन्यते । अतः ये शब्दाः तस्य नियमानुसारं न भवेयुः ते सर्वे देशीशब्दाः इति निर्दिश्यन्ते ।

इतिहासः

[सम्पादयतु]

हिन्दीसाहित्यस्य इतिहासः अत्यन्तं विस्तृतः प्राचीनश्च विद्यते । अयं कालः त्रिधा विभक्तुं शक्या ।

आरम्भकालः

[सम्पादयतु]
भारते हिन्दीभाषी क्षेत्रम्
हिन्दी देश.

इयं भाषा संस्कृतभाषायाः साक्षात् पुत्री । अध: कानिचलहिन्दीवाक्यानि, तेषां प्रचलितं संस्कृतस्यरूपञ्च प्रदत्तम्‌ ।

  • नहीं, मिलता नहीं। / न हि, न प्राप्यते।
  • मित्र से मिल। / मित्रेण मिल।
  • कितना मूल्य हुआ? / कियत् मूल्यम् अभवत् ?
  • खरीदनें में बहुत रुपये लगेंगे। / क्रयणार्थं बहूनि रुप्यकाणि आवश्यकानि।
  • तुम सफाई पर ध्यान नहीं देते। / त्वं स्वच्छताया: विषये ध्यानं न ददासि।
  • मैं चिन्तित हूँ। / अहं चिन्तितः अस्मि।
  • क्षण में सब करता हूँ। / क्षणाभ्यन्तरे सर्वं करोमि।
  • मैं आज गीता पढता हूँ। / अहं अद्य गीतां पठामि।
  • यौवन में बंदरिया सुन्दरी। / यौवने मर्कटी सुन्दरी।
  • ग्राम में कृषक बसते हैं। / ग्रामे कृषका: वसन्ति।
  • काल की कुटिल गति। / कालस्य कुटिला गतिः।
  • आशा दुःख का कारण है / आशा दु:खस्य कारणम्‌।
  • मूल नष्ट हो जाने पर न तो फल, न पुष्प होते हैं / नष्टे मूले नैव फलं न च पुष्पम्‌।
हिन्दी
संभाषिता भारतदेशे
वक्तार: 80 कोटीः
सूचीयतेस्थानम्2
भाषाकुटुम्बः हिन्दयुरोपीयः भाषापरिवारम्

 भारतीयभाषा
  हिन्‍दी

राजकीय पद्यतीः
राजभाषाभारतस्य
नियन्त्रणम्केन्द्रीयहिन्दीआयुक्तः
भाषाकूटाणां
ISO 639-1hi
ISO 639-2hin
SILHND

लेखका:

[सम्पादयतु]

बाह्यगवाक्षा:

[सम्पादयतु]

सम्बद्धाः लेखाः

[सम्पादयतु]

सन्दर्भाः

[सम्पादयतु]
  1. केन्द्रीयहिन्दीनिदेशालयः भारतदेशे देवनागरीलिप्याः हिन्दीवर्तनीयाश्च प्रयोगं नियन्त्रयति । स्रोतः: केन्द्रीयहिन्दीनिदेशालयः: परिचयः
{{bottomLinkPreText}} {{bottomLinkText}}
हिन्दी
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?