For faster navigation, this Iframe is preloading the Wikiwand page for ५२ शक्तिपीठानि.

५२ शक्तिपीठानि


शक्तिः नाम शिवतत्त्वेन सह अविभाज्यरूपेण संयुक्ता क्रियाचैतन्यस्वरूपा। सृष्टि-स्थिति-लयादिप्रक्रियाणाम् अधिष्ठात्री। दुर्गा, पार्वती, गौरी, काली, श्रीललिता, दाक्षायणी इत्यादिरूपेण आदिपराशाक्त्याः वर्णनं कृतं दृश्यते । भारतीयसनातनधर्मस्य आराधनपरम्परायां शैव-वैष्णव-गाणपत्यपन्थाः इव शाक्तपन्थः अपि महत्त्वम् आवहति।

सतीदेव्याः शरीरम् उन्नीय गच्छन् शिवः

पौराणिककथा

[सम्पादयतु]

दक्षप्रजापतेः पुत्री सती । तस्याः अपरं नाम दाक्षायिणी। पितुः इच्छया विरुद्धं सा शिवेन सह विवाहं कृतवती । पुत्र्याः विष्ये क्रुद्धः दक्षः तया सह सम्बन्धं न रक्षितवान् । एकदा तेन कस्यचित् यज्ञस्य आयोजनं कृतमासीत् । सहजतया शिवाय निमन्त्रणं न प्रेषितवान् । सतीदेवी पितुः गृहस्य कार्यक्रमे भागं वोढुम् इष्टवती । "निमन्त्रणं विना गमनं न उचितम्" इति शिवः अनुरोधं कृतवान् । तथापि सती पितुः गृहं गतवती। तत्र दक्षः पुत्र्याः अवमाननं कृतवान् । अवमानेन सन्तप्ता सती यज्ञकुण्डे कूर्दनेन आत्मार्पणं कृतवती ।विषयं ज्ञात्वा शिवः दक्षस्य शिरः कर्तयित्वा यज्ञकुण्डे क्षिप्तवान् । पत्न्याः शरीरम् उन्नीय ताण्डवनृत्यम् आरब्धवान् । लोके अल्लोलकल्लोलः आरब्धः । यावत् सत्याः शरीरं तिष्ठति तावत् शिवस्य क्रोधशमनं न भवति इति धिया विष्णुः सुदर्शनचक्रेण तस्या शरीरं खण्डशः कर्तयति । तदा सत्याः शरीरस्य ५२ भागाः अभवन् । ते भागाः यत्र यत्र पतिताः सः प्रदेशः शक्तिपीठम् इति उच्च्यते । तत्र सर्वत्र शक्त्याराधना प्रचलति।

क्रमसङ्ख्या देव्याः नाम कः भागः पतितः स्थानम् राज्यम् देशः
बहुलादेवी (बहुलाक्षेत्रम्) वामबाहुः बहुलाक्षेत्रम्(बर्दवान्) पश्चिमबङ्गाल भारतम्
मङ्गलचण्डिका (उजानि) दक्षिणमणिबन्धः उजानि(बर्दवान्) पश्चिमबङ्गाल भारतम्
भ्रामरीदेवी (त्रिस्रोट) वामपादः त्रिस्रोट(जल्पाय्गुडी) पश्चिमबङ्गाल भारतम्
युगाद्या/योगाद्यादेवी (क्षीरग्रामः) दक्षिणपादाङ्गुष्ठः खीरग्राम/क्षीरग्रामः(बर्दवान्) पश्चिमबङ्गाल भारतम्
कालिकादेवी (कोलकता) दक्षिणपादस्य अङ्गुल्यः कोलकता पश्चिमबङ्गाल भारतम्
विमलादेवी (किरीटकोनम्) किरीटम् किरीटकोनम्(मुर्षिदाबाद्) पश्चिमबङ्गाल भारतम्
देवगर्भादेवी (कङ्कालिताल्) अस्थि कङ्कालिताल्(बीरभूम) पश्चिमबङ्गाल भारतम्
कपालिनीदेवी (विभाश) वाममीनखण्डः विभाश(पूर्वमेदिनीपुर/मिड्नापुर पश्चिमबङ्गाल भारतम्
कुमारीदेवी ( रत्नावळी) दक्षिणभुजः रत्नावळी(हूग्ली) पश्चिमबङ्गाल भारतम्
१० कालिका (नल्हाति) पादास्थीनि नल्हाति(बीरभूम) पश्चिमबङ्गाल भारतम्
११ महिषमर्दिनी (बक्रेश्वरम्) भ्रूमध्यभागः बक्रेश्वर(बदहाम्) पश्चिमबङ्गाल भारतम्
१२ फुल्लारदेवी (अट्टहास) ओष्ठौ अट्टहास(बर्दवान्पुर) पश्चिमबङ्गाल भारतम्
१३ नन्दिकेश्वरी (नन्दीपुरम्) --- नन्दीपुर(बीरभूम) पश्चिमबङ्गाल भारतम्
१४ ललितादेवी (प्रयागः) दक्षिणहस्तस्य अङ्गुल्यः प्रयागः उत्तरप्रदेशः भारतम्
१५ विशालाक्षी/मणिकर्णिका (वाराणसी) कर्णाभरणानि वाराणसी उत्तरप्रदेशः भारतम्
१६ शिवानी (रामगिरिः) उरसः दक्षिणभागः रामगिरिः(चित्रकूटम् ) उत्तरप्रदेशः भारतम्
१७ उमादेवी (वृन्दावनम्) अलका वृन्दावनम्(मथुरा) उत्तरप्रदेशः भारतम्
१८ नर्मदादेवी (अमरकण्टकम्) नितम्बम् अमरकण्टकम्टकम् -शहडोल मध्यप्रदेशः भारतम्
१९ काळी (शोणदेशः) --- शोणदेशः मध्यप्रदेशः भारतम्
२० अवन्तीदेवी (भैरवपर्वतः) ओष्ठस्य उपरितनः भागः उज्जायिनी मध्यप्रदेशः भारतम्
२१ कामाक्षी (काञ्चीपुरम्) मेखला कञ्ची तमिळ्नाडु भारतम्
२२ कन्याकुमारी (कन्याश्रमः) पृष्ठम् कन्याश्रमः(कन्याकुमारी) तमिळ्नाडु भारतम्
२३ नारायणी (शुचीन्द्रम्) दंष्ट्रा शुचीन्द्रम् तमिळ्नाडु भारतम्
२४ श्रीसुन्दरी (श्रीशैलम्) दक्षिणपादस्य आभरणम् श्रीशैलम् आन्ध्रप्रदेशः भारतम्
२५ विश्वेश्वरी/माणिक्याम्बा (राजमण्ड्री) कपोले राजमण्ड्री आन्ध्रप्रदेशः भारतम्
२६ अम्बाजी (अरसुरि) हृदयम् अरसुरी गुजरात् भारतम्
२७ चन्द्रभागा (सोमनाथः) उदरम् सोमनाथ(जुनागढ्) गुजरात् भारतम्
२८ गायत्री (पुष्करम्) कण्ठाभरणम् पुष्करम् राजास्थानम् भारतम्
२९ अम्बिका (विराटनगरम्) वामपादस्य अङ्गुल्यः विराटनगरम् राजास्थानम् भारतम्
३० महामाया (अमरनाथः) कण्ठः अमरनाथः जम्मु तथा काश्मीरम् भारतम्
३१ ज्वालामुखी (पठाणकोट्) जिह्वा पठाणकोट् हिमाचलप्रदेशः भारतम्
३२ विरजादेवी (जाजपुरम्) नाभिः पुरी ओडिश्शा भारतम्
३३ त्रिपुरसुन्दरी (त्रिपुरा) दक्षिणपादः राधाकिशोरपुर(उदयपुर) त्रिपुरा भारतम्
३४ कामाख्या (गुवाहटी) योनिः गुवाहटी अस्साम् भारतम्
३५ सावित्री (कुरुक्षेत्रम्) मीनखण्डः कुरुक्षेत्रम् हरियाणा भारतम्
३६ भ्रामरीदेवी (नासिक्) कपोले नासिक् महाराष्ट्रम् भारतम्
३७ दन्तेश्वरी (दन्तेवाडा) दन्ताः दन्तेवाडा छत्तिसगढ भारतम्
३८ सुनन्दादेवी (शिकारपुर) नासिका शिकारपुर बारिसोल् बाङ्ग्लादेशः
३९ महालक्ष्मीः (सिल्हट्) कण्ठभागः सिल्हट् सिल्हट् बाङ्ग्लादेशः
४० भवानीदेवी (सीताकुण्डम्) दक्षिणबाहुः सीताकुण्डम् चित्तगाङ्ग बाङ्ग्लादेशः
४१ अपर्णादेवी (भवानीपुरम्) वामपादस्य नूपुरम् भवानीपुरम् बोग्रा बाङ्ग्लादेशः
४२ जेस्सोरेश्वरी/यशोरेश्वरी (ईश्वरीपुरम्) हस्तपादौ ईश्वरीपुरम् सात् खीर् बाङ्ग्लादेशः
४३ काळीजयन्तीमाता (भोरबाग्) --- भोरबाग् सिल्हट् बाङ्ग्लादेशः
४४ महाशिरा ( पशुपतिनाथक्षेत्रम् ) जानुनी पशुपतिनाथक्षेत्रम् पशुपतिनाथक्षेत्रम् नेपालदेशः
४५ गण्डकीचण्डी (पोखारा) ललाटम् पोखारा मुक्तिनाथ नेपालदेशः
४६ उमादेवी ( मिथिला ) वामभुजः मिथिला जनकपुरम् नेपालदेशः
४७ नैनादेवी ३नेत्राणि सुक्कूर् कराची पाकिस्तानम्
४८ शाकम्भरी शीश सहारनपुर सहारनपुर भारतम्
४९ दाक्षायणीदेवी दक्षिणहस्तः मानससरोवरम् मानससरोवरम् टिबेट्
५० नागपूषणीदेवी पादः जाफ्ना जाफ्ना श्रीलङ्का
५१ वाराहीदेवी अधोभागस्य दंष्ट्रा पञ्चसागर उत्तराञ्चलम् भारतम्
५२ जयदुर्गादेवी कर्णौ कर्णाट्(काङ्ग्रा) हिमाचलप्रदेशः भारतम्
हिङ्गोलादेवी मस्तिष्कम् कराची कराची पाकिस्तानम्
{{bottomLinkPreText}} {{bottomLinkText}}
५२ शक्तिपीठानि
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?