For faster navigation, this Iframe is preloading the Wikiwand page for रत्नगिरिमण्डलम्.

रत्नगिरिमण्डलम्

रत्नगिरिमण्डलम्

Ratnagiri District

रत्नगिरि जिल्हा
मण्डलम्
महाराष्ट्रराज्ये रत्नगिरिमण्डलम्
महाराष्ट्रराज्ये रत्नगिरिमण्डलम्
देशः  India
मण्डलम् रत्नगिरिमण्डलम्
उपमण्डलानि मण्डणगड, दापोली, खेड, चिपळूण, गुहागर, सङ्गमेश्वर, रत्नागिरि, लाञ्जा, राजापुर
विस्तारः ८,२०८ च.कि.मी.
जनसङ्ख्या(२०११) १६,१५,०६९
Time zone UTC+५:३० (भारतीयमानसमयः(IST))
Website http://ratnagiri.gov.in

रत्नगिरिमण्डलं (मराठी: रत्नागिरी जिल्हा, आङ्ग्ल: Ratnagiri District) महाराष्ट्रराज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रमस्ति रत्नागिरि इति नगरम् । अत्रस्थम् उष्ण-आर्द्रतायुक्तं वातावरणं फलोत्पादनाय अतीव उपयुक्तम् । अस्य मण्डलस्य ‘रत्नागिरी-हापुस’ इति आम्रप्रजातिः विश्वप्रसिद्धा ।

सुवर्णगडदुर्गः

भौगोलिकम्

[सम्पादयतु]

रत्नगिरिमण्डलस्य विस्तारः ८,२०८ च.कि.मी.मितः अस्ति । अस्य मण्डलस्य पूर्वदिशि सातारामण्डलं, साङ्गलीमण्डलं च, पश्चिमदिशि अरबीसमुद्रः, उत्तरदिशि रायगडमण्डलं, दक्षिणदिशि सिन्धुदुर्गमण्डलं च अस्ति । अत्र प्रवहन्त्यः मुख्याः नद्यः सन्ति - शास्त्री, बोर, मुचकुन्दी, काजळी, सावित्री, वासिष्ठी च । अस्मिन् मण्डले आर्द्रवातावरणं वर्तते । अत्र बहुवृष्टिपातः भवति ।


आम्रफलं, भल्लातकफलं, पनसफलं च अस्मिन् मण्डले उत्पाद्यते । तण्डुलः, रागिका, चणकं, माषः(black gram) च रत्नगिरिमण्डले उत्पाद्यमानानि कृष्युत्पादनानि सन्ति । मण्डलेऽस्मिन् ३०% अरण्यक्षेत्रम् अस्ति । अरण्ये वंशवृक्षाः, किकि(cocoa palm)-वरदारु(teak)-शिसव-ऐन-काष्ठप्रजातिवृक्षाश्च सन्ति ।

जनसङ्ख्या

[सम्पादयतु]

रत्नगिरिमण्डलस्य जनसङ्ख्या (२०११) १६,१५,०६९ अस्ति । अत्र ७,६१,१२१ पुरुषाः, ८,५३,९४८ महिलाः च सन्ति । अस्मिन् मण्डले प्रति च.कि.मी. १९७ जनाः निवसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रति च.कि.मी. १९७ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ४.८२% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-११२२ अस्ति । अत्र साक्षरता ८२.१८ % अस्ति ।

लोकजीवनम्

[सम्पादयतु]
  • वेशभूषा – वृद्धपुरुषाः वेष्टिं, गान्धि-टोपिकां च धरन्ति । महिलाः शाटिकां, कञ्चुकं च धरन्ति ।
  • अत्रस्थजनानाम् ओदनं, व्यञ्जनम्, मत्स्याः च मुख्याहारः अस्ति ।
  • ब्राह्मण, कुणबी-मराठा, वाणी, भण्डारी, हरिजनाः, मुस्लिमाः, क्रैस्ताः च अत्र निवसन्ति ।
  • कीर्तन-प्रवचन-दशावतारी खेळ-गोन्धळ इत्येताः लोककलाः अत्र दृश्यन्ते । गणेशोत्सवः, दीपावलिः अत्र आचर्यमाणाः प्रमुखोत्सवाः ।

उपमण्डलानि

[सम्पादयतु]

अस्मिन् मण्डले नव उपमण्डलानि सन्ति । तानि-

१ मण्डणगड
२ दापोली
३ खेड
४ चिपळूण
५ गुहागर
६ सङ्गमेश्वर
रत्नागिरि
८ लाञ्जा
९ राजापुर

वीक्षणीयस्थलानि

[सम्पादयतु]

अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -

१ अस्य मण्डलस्य केन्द्रं रत्नागिरि लोकमान्यटिळकवर्यस्य जन्मस्थानम् । सुव्यवस्थितं नगरमिदम् । लोकमान्यटिळकस्मारकं, 'सागरजीवसंशोधन संस्था', रत्नदुर्गः, ‘मिरे’ इत्यत्र नौनिर्माणोद्यमः, थिबा राजप्रासादः, गीताभवनं, दीपगृहं च अस्मिन्नगरे विद्यमानानि प्रेक्षणीयस्थानानि ।
२ मन्दिराणि : गणपतीपुळे, सङ्गमेश्वरः, पावस, मार्लेश्वरः, वेळणेश्वरः, हेदवी, राजापुर
३ गुहाः - सङ्गमेश्वरः, पन्हाळेकाजी
४ दुर्गाः - पूर्णगड, रत्नदुर्गः
५ सागरतीराणि : माण्डवी, केळशी, मुरूड, गुहागर, गणपतीपुळे, आञ्जर्ले, वेळणेश्वरः ।

बाह्यानुबन्धाः

[सम्पादयतु]
{{bottomLinkPreText}} {{bottomLinkText}}
रत्नगिरिमण्डलम्
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?