For faster navigation, this Iframe is preloading the Wikiwand page for दाण्डीयात्रा.

दाण्डीयात्रा

गन्धिमहोदयस्य नायकत्वे दण्डीयात्रा
गन्धिमहोदयस्य नायकत्वे दण्डीयात्रा

भारते ब्रिटिष् प्रशासनकाले लवणस्य करः सञ्चालितः । तं विरुध्य महात्मा गान्धिः सत्याग्रहं सञ्चालितवान् । अस्य एव लवणसत्याग्रहः अथवा दण्डीयात्रा इति कथयन्ति । ब्रिटिष् लवणकरं तिरस्कृत्य गन्धिमहात्मा स्वानुयायिभिः सह गुजरात्राज्यस्य सबरमती आश्रमतः समुद्रतटस्य दण्डी पर्यन्तं २४०मैलि दूरं पादक्रमणेन अक्रामत् । तत्र गत्वा साङ्केतिकरुपेण लवणस्य निर्माणम् अकरोत् । एतत् आन्दोलनं क्रि.श.१९३०तमे वर्षे मार्चमासस्य १२दिनाङ्कतः एप्रिल् ६दिनाङ्कपर्यन्तं प्राचलत् ।

पृष्ठभूमिः

[सम्पादयतु]

क्रि.श.१९२९तमे वर्षे डिसेम्बर् ३१दिनाङ्के मध्यरात्रं लाहोर् इति नगरे प्रचालितायां भारतीयराष्ट्रियकाङ्ग्रेस्सभायां स्वतन्त्रभारतस्य ध्वजं समारोपयन् । तदनन्तरं क्रि.श.१९३०तमे वर्षे जनवरिमासस्य २६दिनाङ्के गान्धिमहोदयस्य जवाहरलाल नेह्रू महोदयस्य च नायकत्वे काङ्ग्रेस् पक्षः स्वातन्त्र्यस्य घोषणं कृतम् । सर्वकारस्य शासनानि उल्लङ्घ्य शासनभङ्गान्दोलनम् प्रचालनस्य निर्धारः कृतः । अस्य आन्दोलनस्य छायायां हिन्दुमुसल्मानजनानाम् एकीकरणम् उद्दिष्टम् । एतत् आन्दोलनम् अपि अहिंसामार्गेण एव सञ्चालनीयम् इति गान्धिमहोदयस्य दृढः निश्चयः आसीत् । अस्य सत्याग्रहतत्त्वं सहनशीलप्रतिरोधम् अतिरिच्य विशालं व्याप्तम् आसीत् ।

गान्धि उवाच

[सम्पादयतु]

अस्मिन् विषये तस्य कानिचनवचनानि एवं सन्ति । सत्यं प्रीत्याः, आग्रहः दृढविश्वासस्य च सङ्केतः । तन्नाम सत्येन प्रीत्या अहिंसया च जाता दृढता । वयं सत्याग्रहनिरताः तत् समाचर्य यदि अस्माकं दृढतायां विश्वस्ताः तर्हि प्रतिदिनं वयं ब्रबलाः भवेम । अनेन प्राबल्येन अस्माकं सत्याग्रहः अधिकफलयुतः भविष्यति । पुनः तस्य त्यागं कर्तुं कारणम् अपि किमपि न भविष्यति ।

दण्दीयात्रायां गान्धिमहोदयेन सह सरोजिनि नायिडु

लवणकरः

[सम्पादयतु]

ब्रिटिष् सर्वकारः सामान्यजनानाम् अपि नित्योपयोगवस्तुनः यत् विशेषपरिश्रमेण विना उत्पादितं शक्यते तस्य लवणस्य करसङ्ग्रहं कृत्वा स्वकोशं पूरयति स्म । अनेन विषयेण आकृष्टः गान्धिमहात्मा लवणकरम् एव स्वस्य अहिंसात्माकान्दोलनस्य केन्द्रं कृत्वा सत्याग्रहं आरब्दवान् । ब्रिटिष् सर्वकारेण विना अन्यैः लवणस्य निर्माणं विक्रयणं वा न करणीयम् इति नियमः कृतः । समुद्रतटे विद्यामानानां निश्शुल्कं निरायासं लवणं प्राप्यते चेदपि तत् न लभेत । केवलं ब्रिटिष् सर्वकारात् एव लवणं प्राप्तव्यम् । अपि च विविधवस्तूनां करग्रहणेन वस्तूनां मौल्यम् अधिकं भवति स्म । अतः करविरोधः सर्वेषां कृते अनिवार्यं कर्म अभवत् । अतः जातिमताभेदेन सर्वे सताग्रहे भागं स्वीकर्तुम् उत्सुकाः अभवन् । तेन एतत् लवणकरविरोधि अन्दोलनं यशस्वि अपि अभवत् । अस्मिन् एव समये काङ्ग्रेस् पक्षस्य सौम्यवादिनः सामान्यजानाः च अस्मिन् सत्याग्रहे भागं स्वीकर्तुं गान्धिमहोदयः प्रेरेपितवान् । अस्य वार्तां वृत्तपत्राणि प्रासारयन् ।

परिणामाः

[सम्पादयतु]

दण्डिसत्याग्रहस्य परिणामः देशे सर्वत्र व्याप्तः । महात्मा गन्धि महोदयेन प्रेरिताः सहस्राधिकाः जनाः स्वयं लवणं निर्मितवन्तः विक्रीतवन्तः च । अनेन उत्साहिताः भारतीयाः बिटिष् समवायस्य अन्यानि उत्पादनानि अपि तिरस्कृतवन्तः । शासनविधिम् उल्लङ्घ्य लवणनिर्माणस्य विक्रयणस्य व्याजेन सहस्राधिकभारतीयान् ब्रिटिष् सर्वकारः बन्धनम् अकरोत् । अयं सत्याग्रहः भारतस्य अन्यप्रदेशम् अपि व्यापः। पेशावर इति प्रदेशे महात्मागान्धेः अनुयायी गफर् खान् इत्यस्य नेतृत्वे कुदाय् कित्मत्गार् इति नाम्ना सत्याग्रहीनां समूहः आन्दोलनं सञ्चालयति स्म । यदा गफर् खानस्य बन्धनम् अभवत् तदा तद्विरुध्य हिंसायुक्तः विरोधः कृतः । तादा ब्रिटिष् अधिकारिणः गोलिकाघतं कृतवन्तः । अनेन नैके सत्याग्रहकारिणः मृताः । अन्ते महात्मागान्धिम् अपि बन्धयितुं भारतस्य तदानीन्तनः ब्रिटिष्वैसरायः आदिष्टवान् । क्रि.श.१९३०तमे वर्षे मे मासस्य चतुर्थे दिने गुजरातस्य दण्डिग्रामे मध्यरात्रं ३०आरक्षकैः सहितः मण्डलन्यायाधीशः निद्रामग्नं गान्धिमहोदयं बन्धितवान् । समग्रभारतस्य सहस्रशः जनाः लवणसत्याग्रहात् आकृष्टाः । विश्वस्य लक्ष्यमपि आकृष्टम् अनेन लवणान्दोलनेन । केषुचित् दिनेषु गतेषु गान्धिमहोदयस्य विमोचनम् अभवत् । सः भारतस्य स्वातन्त्र्यसङ्ग्रामस्य नेतृत्वं समुन्नीतवान् । भारतस्य दीर्घेतिहासे दण्डिसत्यग्रहः महत्वपूर्णं पुटम् ।

{{bottomLinkPreText}} {{bottomLinkText}}
दाण्डीयात्रा
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?