For faster navigation, this Iframe is preloading the Wikiwand page for गडचिरोलीमण्डलम्.

गडचिरोलीमण्डलम्

गडचिरोलीमण्डलम्

Gadchiroli District

गडचिरोली जिल्हा
मण्डलम्
महाराष्ट्रराज्ये गडचिरोलीमण्डलम्
महाराष्ट्रराज्ये गडचिरोलीमण्डलम्
देशः  India
मण्डलम् गडचिरोलीमण्डलम्
उपमण्डलानि चामोर्शी, अहेरी, आरमोरी, सिरोञ्चा, एटापल्ली, गडचिरोली, कोरची, कुरखेडा, धानोरा, देसाईगञ्ज(वडसा), भामरागड, मुलचेरा
विस्तारः १४,४१४ च.कि.मी.
जनसङ्ख्या(२०११) १०,७२,९४२
Time zone UTC+५:३० (भारतीयमानसमयः(IST))
Website http://gadchiroli.nic.in
वनव्यापृतपरिसरः
मार्कण्ड-देवालयः
लोक-बिरादरी-प्रकल्पे प्रकाश-आमटेवर्यः
शोधग्राम प्रकल्पे अभय बङ्ग,राणी बङ्ग

गडचिरोलीमण्डलं(मराठी: गडचिरोली जिल्हा, आङ्ग्ल: Gadchiroli district) महाराष्ट्रराज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रं गडचिरोली इत्येतन्नगरम् । गडचिरोलीमण्डलं निबिडारण्येन व्यापृतम्, वनवासिबहुसङ्ख्यं च अस्ति । वेणु(bamboo)वृक्षाणां, 'तेन्दू'पर्णानां प्राचुर्यात् प्रसिद्धमिदम् । सद्यः 'नक्षलवाद'प्रभावितक्षेत्रम् इत्यपि अस्य मण्डलस्य कुप्रसिद्धिः जाता ।

भौगोलिकम्

[सम्पादयतु]

गडचिरोलीमण्डलस्य विस्तारः १४,४१४ च.कि.मी.मितः अस्ति । अस्य मण्डलस्य पूर्वदिशि छत्तीसगढराज्यं, पश्चिमदिशि चन्द्रपुरमण्डलम्, उत्तरदिग्विभागे गोन्दियामण्डलं, दक्षिणदिशि आन्ध्रप्रदेशराज्यम् अस्ति । गडचिरोलीमण्डलं महाराष्ट्रराज्यस्य ईशान्यभागे अस्ति । मण्डलेऽस्मिन् ७६% क्षेत्रम् अरण्यव्यापृतम् । अस्मिन् मण्डले १,७०४ मि.मी. मितः वार्षिकवृष्टिपातः भवति । अस्य मण्डलस्य मुख्यनदी गोदावरी नदी

ऐतिहासिकं किञ्चित्

[सम्पादयतु]

गडचिरोलीमण्डलस्य स्थापना २६ 'अगस्त' १९८२ दिनाङ्के अभवत् । गडचिरोलीमण्डलं पूर्वं चन्द्रपुरमण्डले एव समाविष्टम् आसीत् । प्राचीनकाले अत्र क्रमेण राष्ट्रकूटराजानां, चालुक्यवंशीयराजानां, देवगिरिप्रान्तस्य यादवानां, 'गोण्ड'राजानां च साम्राज्यम् आसीत् । १३ तमे शतके 'खण्डक्या-बल्लाळ-शाह' इत्यनेन चन्द्रपुरमण्डलस्य स्थापना कृता । तदा एतत् मण्डलं चन्द्रपुरमण्डले आसीत् । अस्मिन्नेव 'गडचिरोली'-'सिरोञ्चा'- प्रमुखोपमण्डलम् । अत्र मराठाराजानाम् अपि आधिपत्यम् आसीत् । १९६० पर्यन्तं गडचिरोलीमण्डलं केन्द्रीयप्रशासनाधिपत्ये आसीत् । महाराष्ट्र्रराज्यस्थापनानन्तरम् इदं महाराष्ट्रे समाविष्टं जातम् ।

जनसङ्ख्या

[सम्पादयतु]

गडचिरोलीमण्डलस्य जनसङ्ख्या (२०११) १०,७२,९४२ अस्ति । अस्मिन् ५,४१,३२८ पुरुषाः ५,३१,६१४ महिलाः च सन्ति । अस्मिन् मण्डले प्रति च.कि.मी. मिते क्षेत्रे ७४ जनाः निवसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रति च.कि.मी. ७४ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १०.४६% आसीत् । अत्र पुं-स्त्री-अनुपातः १०००-९८२ अस्ति । अत्र साक्षरता ७४.३६% अस्ति । गडचिरोलीमण्डले वनवासिजनानां लोकसङ्ख्या ४,१५,३०६ अर्थात् ३८.१७% अस्ति ।

उपमण्डलानि

[सम्पादयतु]

प्रशासनकारणेन अस्य मण्डलस्य षड्विभागाः कृताः, प्रत्येकस्मिन् विभागे उपमण्डलद्वयम् समाविष्टं च । ते षड्विभागाः - गडचिरोली, वडसा, अहेरी, चार्मोशी, एटापल्ली, कुरखेडा इति । मण्डलेऽस्मिन् ४६७ ग्रामप्रशासनानि सन्ति । मण्डलेऽस्मिन् त्रीणि विधानसभाक्षेत्राणि, एकं लोकसभाक्षेत्रं च अस्ति । मण्डले गडचिरोली-देसाईगञ्ज-नगरपालिके स्तः । अस्मिन् मण्डले द्वादश उपमण्डलानि सन्ति । तानि-

१ चामोर्शी

२ अहेरी

३ आरमोरी

४ सिरोञ्चा

५ एटापल्ली

गडचिरोली

७ कोरची

८ कुरखेडा

९ धानोरा

१० देसाईगञ्ज (वडसा)

११ भामरागड

१२ मुलचेरा

प्राकृतिकविशेषाः

[सम्पादयतु]
  • गोदावरीनदी पश्चिमाभिमुखा प्रवहति । गोदावरीनद्याः दक्षिणपार्श्वे इदं मण्डलम् अस्ति । अस्याः उपनद्यौ-'वैनगङ्गा, वर्धा च । दीना नदी अपि गडचिरोलीमण्डले प्रवहति ।
  • पूर्वेतरभागेषु वनव्यापृतभूभागः अस्ति । धानोरा, एटापल्ली, अहेरी, सिरोञ्चा इत्येतानि उपमण्डलानि वनैः व्यापृतानि सन्ति ।
  • भामरागड, टिपागड, पलसगड, सुरजागड इत्येतेषु उपमण्डलेषु लघुगिरयः सन्ति ।

सांस्कृतिकविशेषाः

[सम्पादयतु]

अस्य मण्डलस्य लोकसङ्ख्यां दृष्ट्वा ज्ञायते यत् अत्र वनवासिबहुसङ्ख्यानि उपमण्डलानि बहूनि वर्तन्ते इति । अतः अत्र विशिष्टा वनवासिसंस्कृतिः द्रष्टुम् शक्यते । 'गोण्ड', 'कोलाम', 'माडिया', 'परधान' इत्येताः अनुसूचितजनजातयः अत्र निवसन्ति । तेषां गोण्डी-माडियाभाषे स्तः । 'पेरसा पेन' इति तेषां दैवतनाम । एते जनाः शुभावसरेषु, सस्यसङ्ग्रहणावसरेषु च 'रेला' इति उत्सवम् आचरन्ति । 'ढोल' इति तेषां नृत्यम् । दसरा(दशहरा), दीपावलिः च तेषां प्रमुखोत्सवः ।

मण्डले निवसताम् इतरजनानां गणेशोत्सवः, दसरा, दीपावलिः, होलिका इत्यादयः प्रमुखोत्सवाः सन्ति । उत्सवदिनेषु 'नाटक-तमाशा' इत्यस्याः लोककलायाः आयोजनं भवति ।

सामाजिककार्याणि

[सम्पादयतु]

गडचिरोलीमण्डलं वनवासिक्षेत्रम् अतः अत्र निवसन्तः जनानां विकासार्थं बहुसेवाकार्यं प्रचलति तेषु केचन -

१. 'सर्च-शोधग्राम' चातगाव, गडचिरोली : डा.अभयः बंग, डा. राणी बंग कार्यरतौ । एषा संस्था सामाजिकविकासक्षेत्रे तथा च आरोग्यक्षेत्रे वनवासिनां कल्याणार्थं कार्यरता ।

२. लोक बिरादरी प्रकल्पः, हेमलकसा, उपमण्डलं-भामरागड : डा.प्रकाशः आमटे वैद्यकीय-शैक्षणिक-सामाजिकक्षेत्रे कर्यरता संस्था ।

३. आम्ही आमच्या आरोग्यासाठी, कुरखेडा : डा.सतीश गोगुलवार सामाजिक-वैद्यकीय-साहाय्यार्थं एषा कार्यरता ।

४. लोक मंगल संस्था घोट, उपमण्डलं-चामोर्शी : डा. टी. वाल्केल सामाजिकक्षेत्रे कार्यरता संस्था ।

वीक्षणीयस्थलानि

[सम्पादयतु]
  • मार्कण्डदेवालयः - शिवमन्दिराणां समूहः । पुरातत्त्वदृष्ट्या महत्त्वपूर्णस्थलम् ।
  • वैरागडदुर्गः - 'गोण्ड'वंशीयविराटराजेन एषः दुर्गः निर्मापितः । इतिहासदृष्ट्या महत्त्वपूर्णपरिसरः ।
  • भामरागड-अभयारण्यम् ।
  • चाप्राला-अभयारण्यम् ।
  • कोलमर्क-अभयारण्यम् ।

बाह्यसम्पर्कतन्तुः

[सम्पादयतु]
{{bottomLinkPreText}} {{bottomLinkText}}
गडचिरोलीमण्डलम्
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?