For faster navigation, this Iframe is preloading the Wikiwand page for चीनः (क्षेत्रम्).

चीनः (क्षेत्रम्)

चीनः (चीनी: 中国, आङ्ग्ल: China) विश्वस्य प्राचीनसभ्यतासु अन्यतमः अस्ति, यः जम्बुद्वीपस्य पूर्वदिशि स्थितः अस्ति । चीनदेशस्य सभ्यता संस्कृतिः च ६ शताब्दात् अपेक्षया प्राचीना अस्ति । चीनदेशस्य लिखितभाषाव्यवस्था विश्वस्य प्राचीनतमासु भाषाव्यवस्थासु अन्यतमा अस्ति या अद्यापि प्रचलति, अनेकेषां आविष्कारानाम् स्रोतः च अस्ति । ब्रिटानीय विद्वांस-जैवरसायनशास्त्रज्ञाः जोसेफ् नीधं प्राचीनचीनस्य चत्वारः महान् आविष्काराः कथितवन्तः – कर्गजं, कार्पासः, आग्नेयचूर्णं, मुद्रणम् च । ऐतिहासिकदृष्ट्या चीनसंस्कृतेः पूर्व-आग्नेय-एशिया-उपमहादेशैः प्रभाविता अस्ति, एतेषु देशेषु चीनीयधर्मः, प्रचलनं, लेखनव्यवस्थाः च भिन्न-भिन्न-प्रमाणेन स्वीकृताः सन्ति । चीनदेशे प्रथममानवस्य उपस्थितेः प्रमाणं झौ-कौ डायनगुहायाः समीपे प्राप्यते, यत् होमो इरेक्टस् इत्यस्य प्रथमः नमूना अपि अस्ति यत् वयं 'पेकिङ्ग्-मानवः' इति जानीमः । अनुमानितम् अस्ति यत् ते अस्मिन् क्षेत्रे ३,००,००० तः ५,००,००० वर्षाणां मध्ये निवसन्ति स्म, केनचित् संशोधनेन महत्त्वपूर्णाः सूचनाः अपि प्राप्ताः च यत् पेकिङ्ग्-मनुष्याः अग्निप्रकाशस्य, नियन्त्रणस्य च कलां ज्ञातवन्तः ।

भौगोलिकम्

[सम्पादयतु]

सामान्यतः चीनादेशस्य भौगोलिकप्रदेशः ९,६००,००० कि मी (३,७००,००० मी) अस्ति ।

समग्रभूखण्डस्य विवरणम्

[सम्पादयतु]
  • एन्सैक्लोपिडिया आफ् बृटानिका अनुसारम् - ९,५७२,९०० कि मी (३,६९६,१०० मी)
  • यु एन् डेमोग्राफिक् इयर्बुक् अनुसारम् - ९,५९६,९६१ कि मी (३,७०५,४०७ मी)
  • सि ऐ ए वर्ल्ड् फाक्ट् बुक् अनुसारम् - ९,५९६,९६१ कि मी (३,७०५,४०७ मी)
  • अक्सै चिन्-ट्रान्स्कारकोरम् च मिलित्वा भारतदेशेन अधिकृतानुसारम् - ९,६४०,०११ कि मी (३,७२२,०२९ मी)

सीमायाः विवरणम्

[सम्पादयतु]

समग्रे विश्वे रष्यादेशं विहाय चीनादेशस्य सीमा अतीव विस्तृता वर्तते । यलुनदी आरभ्य गल्फ् आफ् टोङ्किन् पर्यन्तं अस्य सीमायाः विस्तारः २२,११७ कि मी (१३,७४३ मी) वर्तते। अस्य देशस्य सीमायाः सम्बन्धः १४ देशानां सह वर्तते । तेषां नामानि वर्तन्ते,

  1. चम्पादेशः (वियतनामदेशः)
  2. लाओसदेशः
  3. ब्रह्मदेशः (म्यान्मार्देशः, बर्मादेशः)
  4. भारतम्
  5. भूटान
  6. नेपालदेशः
  7. पाकिस्थानम्
  8. अफगानिस्थानम्
  9. ताजिकिस्थानम्
  10. किर्गिजस्थानम्
  11. कजाखस्थानम्
  12. मङ्गोलियादेशः
  13. रास्यादेशः (रशादेशः, रूशादेशः)
  14. उत्तरकोरियादेशः
चीनादेशस्य राजकीय भूपटम्

शासनम्

[सम्पादयतु]

चीनादेशे मुख्यतः विभागद्वयं वर्तते । तत्,

  1. पौरगणतन्त्रचीनदेशः (People's Republic of China)
  2. गणतन्त्रचीनदेशः (Republic of China)

१. पौरगणतन्त्रचीनदेशः (People's Republic of China)

[सम्पादयतु]
पौरगणतन्त्रचीनादेशः (People's Republic of China)

पीपल्स् रिपब्लिक् आफ् चीनदेशे २२ प्रदेशाः(Provinces‌), ५ स्वयंशासितप्रदेशाः(Autonomous Regions), ४ ग्रामसङ्घानि(Municipalities),
२ विशेषशासनप्रदेशौ(Special Administrative Regions) च वर्तन्ते ।

अस्य २२ देशानां (Provinces‌) नाम एवं वर्तन्ते,

  1. हबे देशः (Hebei Province)
  2. शन्शी देशः (Shanxi Province)
  3. ल्यावीनिङ्ग् देशः (Liaoning Province)
  4. जीलिन् देशः (Jilin Province)
  5. हेलूङ्च्याङ्ग् देशः (Heilongjiang Province)
  6. जिआङ्ग्सू देशः (Jiangsu Province)
  7. चेजियाङ्ग् देशः (Zhejiang Province)
  8. अन्हुये देशः (Anhui Province)
  9. फुजियान् देशः (Fujian Province)
  10. जियाङ्शी देशः (Jiangxi Province)
  11. शान्दोङ्ग् देशः (Shandong Province)
  12. हेनान् देशः (Henan Province)
  13. हूबे देशः (Hubei Province)
  14. हूनान् देशः (Hunan Province)
  15. ग्वाङ्ग्दोङ्ग् देशः (Guangdong Province)
  16. हैनान् देशः (Hainan Province)
  17. सिच्वान् देशः (Sichuan Province)
  18. ग्वेचो देशः (Guizhou Province)
  19. युन्नान् देशः (Yunnan Province)
  20. शान्शी देशः (Shaanxi Province)
  21. गान्सु देशः (Gansu Province)
  22. चिङ्ग्है देशः (Qinghai Province)
  23. तैवान्देशः (Taiwan Province) - (तैवान् देशः गणनां कृत्वा २३ देशाः भवन्ति । प्रस्तुतसमये तैवान् रिपब्लिक् आफ् चीनदेशस्य अधीने वर्तते । )

अस्य ५ स्वयंशासितप्रदेशानां नाम एवं वर्तन्ते,

  1. अन्तर्भूतः मङ्गोलिया (Inner Mongolia) स्वयंशासितप्रदेशः
  2. शिञ्ज्याग् (Xinjiang) स्वयंशासितप्रदेशः
  3. ग्वाङ्ग्क्षी (Guangxi) स्वयंशासितप्रदेशः
  4. निङ्शिया (Ningxia) स्वयंशासितप्रदेशः
  5. तिब्बत (Tibet) स्वयंशासितप्रदेशः

अस्य ४ ग्रामसङ्घानां नामा एवं वर्तन्ते,

  1. बीजिङ्ग् (पेचिङ्ग्) ग्रामसङ्घः
  2. चोङ्चिङ्ग् (चोङ्किङ्ग्) (Chongqing Municipality) ग्रामसङ्घः
  3. शाङ्घायी ग्रामसङ्घः
  4. त्याञ्जिन् (Tianjin Municipality) ग्रामसङ्घः

अस्य २ विशेषशासनप्रदेशौ

  1. हाङ्ग् काङ्ग् (Hong Kong) विशेषशासनप्रदेशाः
  2. मकौ (Macau) विशेषशासनप्रदेशाः

२. गणतन्त्रचीनदेशः (Republic of China)

[सम्पादयतु]
गणतन्त्रचीनादेशः(Republic of China)

अस्य सामान्यतया तैवान् इत्यपि व्यवहारः वर्तते । अत्र मुख्यतया ४ द्वीपानि वर्तन्ते । तेषां नाम एवं वर्तन्ते,

  1. तैवान्द्वीपम्
  2. पङ्ग्-हू द्वीपम् (Penghu Island)
  3. किन्मन्(किमोइ) द्वीपम् (Kinmen/Quemoy Island)
  4. मात्सु द्वीपम् (Matsu Island)

समग्रदेशे प्रमुखतया २ विभागं, ५ विशेषग्रामसङ्घानि च वर्तन्ते।

अस्य प्रमुखं २ विभागम्,

  1. तैवान्देशः (Taiwan Province)
  2. फ्यूजियान् देशः (Fujian Province)

अस्य ५ विशेषसङ्घानि,

  1. कौशियुङ्ग् ग्रामसङ्घम् (Kaohsiung Municipality )
  2. नवतैपे ग्रामसङ्घम् (New Taipei Municipality)
  3. तैचुङ्ग् ग्रामसङ्घम् (Taichung Municipality)
  4. तैनान् ग्रामसङ्घम् (Tainan Municipality)
  5. तैपे ग्रामसङ्घम् (Taipei Municipality)

जनसङ्ख्याविज्ञानम्

[सम्पादयतु]
पौरगणतन्त्रचीनादेशस्य जनगणनायाः गहनत्वम्

पौरगणतन्त्रचीनदेशस्य (People's Republic of China) २०१० तमवर्षस्य जनगणनानुसारं प्रायः १,३३८,६१२,९६८ । तस्यां जनगणनायां २१% जनेषु १४५,४६१,८३३ पुरुषाः, १२८,४४५,७३९ महिलाः च आसन् । अस्यां जनगणनायां ७१% युवजनाः(४८२,४३९,११५ पुरुषाः, ४५५,९६०,४८९ महिलाः) आसन् । अस्यां जनगणनायां ८% जनाः ६५ वर्षाधिकाः(४८,५६२,६३५ पुरुषाः, ५३,१०३,९०२ महिलाः) सङ्ख्यकाः आसन् । २०१० तमवर्षस्य जनगणनानुसारं १०० बालिकानां कृते ११८.०६ बालकाः जन्मं प्राप्नुवन्ति ।

अन्य-भिन्न-देशीयानां समूहः (Ethnic groups)

[सम्पादयतु]

चीनदेशः आधिकारिकतया ५६ मण्डलानि वर्तन्ते । ते अन्य-भिन्न-देशीयानां समूहः इति उद्घोषितः । तत्र विद्यमानेषु अन्य-भिन्न-देशीयानां समूहेषु हान्चैनीस्(Han Chinese) समूहः विश्वे एव बहु बृहत् वर्तते । २०१० तमवर्षस्य जनगणनानुसारं ५९३,८३२ जनाः विदेशीयाः चीनादेशे निवासं कुर्वन्ति स्म । तत्र अधिकतया दक्षिणकोरियादेशतः १२०,७५० जनाः, संयुक्तानि राज्यानि देशतः जनाः ७१,४९३, सूर्यमूलम् देशतः जनाः ६६,१५९ च वर्तन्ते ।

चीनीभाषा

[सम्पादयतु]
चीनदेशस्य भाषाविज्ञानचित्रम्

चीनदेशस्य भाषां मन्दारिन् (Mandarin) इति आह्वयन्ति । एषा भाषा चीनी-तिब्बतीयभाषायाः (Sino-Tibetan) कुटुम्बतः आगतः अस्ति । अत्र केवलं मानकमन्दारिन् (Standard Mandarin) भाषायाः आधिकारिकचीनीभाषात्त्वेन अङ्गीक्रीयते । मन्दारिन् मानत्वम् भाषा बीजिङ्ग्प्रादेशिकभाषातः (Beijing dialect) आगता वर्तते । चीनीभाषायां बहु भेदाः वर्तन्ते । तत्र मुख्यतया,

  • वू (Wu)
  • युए (Yue)
  • मिन् (Min)
  • शियाङ्ग् (Xiang)
  • गान् (Gan)
  • हाक (Hakka)

चीनीलिपिः (Chinese character) लोगोग्राम्(Logogram) उपयोगेन लिख्यते । चीनीभाषायाः शब्दकोशानुसारं ५६,००० अधिकाः चीनीलिपयः वर्तन्ते । तत्र ३,००० लिपीनाम् अध्ययनेन प्रायः ९९% चीनीलिप्यां अथवा चीनीभाषायां प्राविण्यतां प्राप्तुं शक्यते । चीनीलिपीनां लेखनार्थं नूनातिनूनं ६४ रेखाः अपेक्षन्ते । मन्दारिन मानत्वम् (Standard Mandarin)भाषायाः प्रशिक्षणं भारतदेशे केमन्द्रियमाध्यमिकशिक्षासंस्थायाः (Central Board of Secondary Education,C.B.S.E.) पाठ्यक्रमे स्थापितं वर्तते ।

शिक्षणम्

[सम्पादयतु]
शिङ्ग्वा विश्वविद्यालयः,बीजिङ्ग्

१९८६ तमे वर्षे चीनादेशः बालानां ९ वर्षपर्यन्तं बाल्यशिक्षणम् अनिवार्यः कृतः । २००७ तमे वर्षे ३९६,५६७ प्राथमिकविद्यालयाः (Primary Schools), ९४,११६ माध्यमिकविद्यालयाः (Secondary Schools), २,२३६ विश्वविद्यालयाः(Universities) च आसन् । फेब्रवरि, २००६ तमे वर्षे चीनादेशे बालानां मूलशिक्षा ९ वर्षपर्यन्तं सम्पूर्णशिक्षा, पठ्यपुस्तकं च निश्शुल्कं कृतम् । चीनादेशस्य विश्वकिद्यालयानां गुणवत्ता बहु सम्यकस्ति ।

संस्कृतिः

[सम्पादयतु]
चीनी गीतनाटकस्य दृश्यम्

कन्फ्यूशस्(Confucius) नामीयः तत्त्वशास्त्रज्ञेन चीनादेशस्य संस्कृतिः प्रभाविता वर्तते ।

वीथिका

[सम्पादयतु]

सम्बद्धाः लेखाः

[सम्पादयतु]

सन्दर्भाः

[सम्पादयतु]
{{bottomLinkPreText}} {{bottomLinkText}}
चीनः (क्षेत्रम्)
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?