ऋषिभिर्बहुधा गीतं...
श्लोकः
[सम्पादयतु]- ऋषिभिर्बहुधा गीतं छन्दोभिर्विविधैः पृथक् ।
- ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चितैः ॥ ४ ॥
अयं भगवद्गीतायाः त्रयोदशोध्यायस्य क्षेत्रक्षेत्रज्ञविभागयोगस्य चतुर्थः(४) श्लोकः ।
पदच्छेदः
[सम्पादयतु]ऋषिभिः बहुधा गीतं छन्दोभिः विविधैः पृथक् ब्रह्मसूत्रपदैः च एव हेतुमद्भिः विनिश्चितैः ॥ ४ ॥
अन्वयः
[सम्पादयतु](तदिदम्) विविधैः छन्दोभिः ऋषिभिः हेतुमद्भिः विनिश्चितैः ब्रह्मसूत्रपदैश्च बहुधा पृथक् गीतम् ।
शब्दार्थः
[सम्पादयतु]- (तदिदं) विविधैः = नानाविधैः
- छन्दोभिः = वेदैः
- ऋषिभिः = वसिादिभिः मुनिभिः
- हेतुमद्भिः = युक्तियुक्तैः
- ब्रह्मसूत्रपदैश्च = उपनिषद्वाक्यैश्च
- बहुधा = ध्यानधारणादिविषयत्वेन
- पृथक् = पार्थक्येन
- गीतम् = प्रतिपादितम् ।
अर्थः
[सम्पादयतु]सोऽयं क्षेत्रसम्बन्धी क्षेत्रज्ञसम्बन्धी च विषयः यद्यपि वसिष्ठादिभिः ऋषिभिः, नित्यनैमित्तिककाम्यकर्म-प्रतिपादकैः वेदैः, युक्त्युपेतैः उपक्रमोपसंहारपर्यालोचनेन एकार्थकत्वेन निर्णीतैः ब्रह्मसूत्रैः, उपनिषद्वाक्यैः च ध्यानधारणादिविषयत्वेन पृथक् पृथक् एव निरूपितः, तथापि संक्षेपेण कथयामि ।
सम्बद्धसम्पर्कतन्तुः
[सम्पादयतु]सम्बद्धाः लेखाः
[सम्पादयतु]Text is available under the CC BY-SA 4.0 license; additional terms may apply.
Images, videos and audio are available under their respective licenses.