प्रकृत्यैव च कर्माणि...
श्लोकः
[सम्पादयतु]- प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः ।
- यः पश्यति तथात्मानमकर्तारं स पश्यति ॥ २९ ॥
अयं भगवद्गीतायाः त्रयोदशोध्यायस्य क्षेत्रक्षेत्रज्ञविभागयोगस्य नवविंशतितमः(२९) श्लोकः ।
पदच्छेदः
[सम्पादयतु]प्रकृत्या एव च कर्माणि क्रियमाणानि सर्वशः यः पश्यति तथा आत्मानम् अकर्तारं सः पश्यति ॥ २९ ॥
अन्वयः
[सम्पादयतु]यः सर्वशः कर्माणि प्रकृत्या एव च क्रियमाणानि पश्यति तथा आत्मानम् अकर्तारं (पश्यति) स: पश्यति ।
शब्दार्थः
[सम्पादयतु]- प्रकृत्या एव च = मायया एव च
- सर्वशः = सर्वप्रकारेण
- क्रियमाणानि = निर्वर्त्यमानानि ।
अर्थः
[सम्पादयतु]शरीरेन्द्रियसङ्घातरूपा इयं प्रकृतिरेव कर्माणि करोति न तु आत्मा । तस्य तु प्रकृतिसम्बन्धात् केवलं कर्तृत्वाभिमानः न तु पारमार्थिकं कर्तृत्वम् इति यः जानाति स एव सम्यक् जानाति, नान्यः ।
सम्बद्धसम्पर्कतन्तुः
[सम्पादयतु]सम्बद्धाः लेखाः
[सम्पादयतु]Text is available under the CC BY-SA 4.0 license; additional terms may apply.
Images, videos and audio are available under their respective licenses.