For faster navigation, this Iframe is preloading the Wikiwand page for साङ्ख्यदर्शनम्.

साङ्ख्यदर्शनम्

सांख्यदर्शनं (Sāṃkhya) प्राचीनतमं दर्शनमस्ति । अस्य सांख्यशास्त्रस्य प्रवर्तकः भगवान् कपिलः । वेदेषु यद्यपि स्पष्टरूपेण सांख्यस्य पारिभाषिकपदानाम् उपलिब्धिर्न भवति तथापि बृहदारण्यक-कठोपनिषद्-श्वेताश्वतर-प्रभृतिषु ग्रन्थेषु सांख्यतत्त्वानां स्पष्टं दर्शनं भवति । यद्यपि तास्वेव उपनिषत्सु इतरदर्शनानां मूलबीजान्यपि उपलभ्यन्ते तथापि अनेन दर्शनानां वैदिकस्रोतसां समर्थनमेव भवति । कपिलकृतेन सांख्यसूत्रेण विज्ञायते यत् सूत्रकाल एव सांख्यतत्त्वानि पर्याप्तं प्रसृतानि आसन् तेषां सुरक्षायै निश्चितमनाः कपिलः तत्सन्दर्भितं सकलं ज्ञानं सूत्ररूपेण सङ्कलितवान् । शास्त्रेऽस्मिन् संक्षेपतः तत्त्वचतुष्टयस्य अस्तित्वमभ्युपगतम् । तानि यथा- प्रकृतिः, प्रकृतिविकृत्युभयात्मकम्, केवलविकृतिः, अनुभयात्मिकम् चेति । प्रकृतिः मूलप्रकृतिः अथवा प्रधानमित्युच्यते । यतः सा एव सकलप्रपञ्चस्य मूलकारणभूता भवति । प्रकर्षेण करोति - कार्यमुत्पादयति इति प्रकृतिः इति तस्याः व्युत्पत्तिः । अथवा या स्वभिन्नतत्त्वान्तराणाम् उत्पत्तिं करोति सा प्रकृतिरिति ।

प्रकृतिरित्यत्र ’प्र’ इति शब्देन प्रकर्षस्य प्रतीतिः द्योत्यते, स तु प्रकर्षः तत्त्वारम्भकः भवति । अत्रेदानीमयं प्रश्नः उदेति यत् घटस्य मृत्तिका प्रकृतिः इति व्यवहारोऽयं लोके दृष्टः, यदि घटप्रकृतिमृत्तिका, तर्हि मृत्तिकाभिन्नत्वेन तत्त्वान्तरभूतः घटः इति परं न सिध्यति अथापि घटप्रकृतिमृत्तिका इति कथमुच्यते इति चेत्, उच्यते । यद्यपि मृत्तिका घटप्रकृतिः वस्तुतः तथापि प्रकृतिशब्देन प्रकर्षाविवक्षया केवलोपादानकारणमेव प्रकृतित्वेन स्वीकृत्य उक्तदृष्टान्ते व्यवहारः। अनेन एतत्सिद्धं भवति यत् स्वभिन्नतत्त्वान्तरोत्पत्तौ कारणात्मिका या सा प्रकृतिरिति एतल्लक्षणं तस्याः सामान्यलक्षणं भविष्यतीति ।

शब्दनिष्पत्तिः

[सम्पादयतु]

सांख्यशब्दस्य निष्पत्तिः सम् उपसर्गपूर्वकं ख्याधातोः सञ्जाता । अस्यार्थोऽस्तिसम्यग्विचाराणामुपस्थापकं शास्त्रम् । अस्मिन् एव शास्त्रे सर्वप्रथमं तत्त्वानां संख्या परिभाषिताऽस्ति । अत एवास्य नाम संख्यमित्यस्ति इत्यपि केचन प्रतिपादयन्ति तथापि एषा व्युत्पत्तिर्ग्राह्या नैव प्रतीयते । यतो हि एतद्विपरीतं प्रकृतिपुरुषयोर्भेदरूपस्य विवेकस्य ज्ञापकं शास्त्रं सांख्यशास्त्रमस्ति । पुरा इदं प्रसिद्धमवर्तत यत् सांख्यज्ञानं विना कश्चिदपि विद्वान् न भविंतु शक्नोति । स्वयं कपिलोऽपि आदिविद्वान् इति नाम्ना प्रसिद्धोऽस्ति । अन्यदर्शनानाम् अपेक्षया सांख्यस्य चिन्तनम् अधिकं मनोवैज्ञानिकम् अस्ति । यावत् इतरदर्शनानां दृष्टिर्न याति तावत् सांख्यस्य प्रारम्भो भवति । तात्त्विकदृष्ट्या यत्र न्यायवैशेषिकप्रभृतिभिर्दर्शनैः सूक्ष्मतत्त्वेषु विचारो विहितस्तत्र सांख्येन सूक्ष्मतमानि तत्त्वानि विचारितानि प्रस्तुतानि च । आचार्यपरम्परायाः दृष्टिकोणेन ग्रन्थपरम्पराया च प्रतीयते यत् सांख्यमेव अपेक्षाकृतम् अधिकप्राचीनं समृद्धं चास्ति ।

सांख्यदर्शनस्य तत्त्वमीमांसा

[सम्पादयतु]

सांख्यशास्त्रे मुख्यतः त्रीणि तत्त्वानि प्रतिपादितानि सन्ति-व्यक्ततत्त्वम्, अव्यक्ततत्त्वं, ज्ञप्तत्त्वञ्च । एषां त्रयाणां तात्विकेन विज्ञानेन एव दुःखानाम् आत्यन्तिकी निवृत्तिर्भवति । व्यक्ततत्त्वानि त्रयोविंशतिर्वर्तन्ते । महत्, अहङ्कारः, मनस्, पञ्च ज्ञानेन्द्रियाणि, पञ्च कर्मेन्द्रियाणि, पञ्च तन्मात्राः, पञ्च महाभूतानि चेति । मूलप्रकृतिरव्यक्तमस्ति सा च जडात्मिका विद्यते । ‘ज्ञ’ संज्ञकं पुरुषतत्त्वं व्यक्ताव्यक्तयोः परे तिष्ठति । एवं पञ्चविंशतितत्त्वानि[] सांख्यस्य प्रतिपाद्यमस्ति । एषां सांख्योक्ततत्त्वानां वर्गीकरणं एवं प्रकारेण कृतं-मूलप्रकृतिरविकृतिरस्ति[], महदाद्याः सप्त प्रकृतिविकृतयः सन्ति । षोडशतत्त्वानि न प्रकृतिर्वर्तन्ते विकृतिरेव सन्ति । पुरुषतत्त्वं न केनापि उत्पद्यते, न च कञ्चिद् उत्पादयति ।
सांख्योक्तं पुरुषतत्त्वं चेतनमस्ति । तदतिरिक्तानि व्यक्ताव्यक्तानि तत्त्वानि जडात्मिकानि सन्ति । पुरुषः निष्क्रियो निर्गुणो निर्लिप्तश्च वर्तते । यद्यपि अन्यानि चतुर्विंशतितत्त्वानि त्रिगुणात्मिकानि सन्ति तथापि पुरुषापेक्षया तानि अप्रधाननि वर्तन्ते । त्रिविधं तत्त्वमेव जगतः सूक्ष्मपदार्थारूपं भवति । त्रीणि तत्त्वानि एव कार्यकारणरूपेण परिणतानि सन्ति ।
सांख्यसिद्धान्तानुसारम् अस्य दृश्यमाणस्य जगतो मूले त्रयाणां गुणानाम् अवस्थितिरस्ति । अर्थात् सम्पूर्णं विश्वं सत्त्वरजस्तमसां परिणामोऽस्ति । एषां त्रयाणां गुणानां तारतम्येनैव वस्तुतः स्वरूपम् उत्पद्यते विनश्यति च । त्रिषु गुणेषु सत्त्वगुणः प्रकाशकोऽस्ति लघुश्च वर्तते । रजोगुणः चाञ्चल्ययुक्तः उत्तेजकश्च कथितः । तमोगुणः आवरणकः गुरुश्च विद्यते । संसारे सर्वेषां पदार्थानां त्रिगुणात्मकतया परिणामित्वं स्वाभाविकमस्ति । सांख्ये परिणामरहितं केवलं पुरुषतत्त्वमस्ति । पदार्थानां परिणामः त्रिविधः प्रतिपादितः – धर्मपरिणामः, लक्षणपरिणामः, अवस्थापरिणामश्च । धर्मपरिणामो यथा मृत्तिकया घटः, लक्षणपरिणामो यथा अतीतः वर्तमानः भविष्यत् वेति कालभेदः, अवस्थापरिणामो यथा बाल्य-यौवन-वार्धक्याद्या अवस्थाः ।
सांख्योक्ता प्रकृतिः नित्या सततपरिणामिनी अस्ति । एवं सत्त्वरजस्तामसां त्रयाणां गुणानां साम्यावस्था प्रकृतिः कथ्यते । एषैव व्यक्तावस्थायां सृष्टिरस्ति । सृष्टिः कार्यरूपा विद्यते । मूल प्रकृतिश्च तस्या कारणमस्ति । तथापि सांख्ये सत्कार्यवादस्य सिद्धान्तोऽभिमतः । सत्कार्यवादस्य सिद्धान्तानुसारेण कार्यं सत् वर्तते कारणे तस्य सत्वं सिद्ध्यति । कर्मणः कदापि विनाशो नैव भवति अपितु कारणरूपे तस्य तिरोभावो भवति ।

सत्कार्यवादः

[सम्पादयतु]

ईश्वरकृष्णेन सत्कार्यवादस्य सिद्धिः एवं प्रकारेण विहिता-
(१) असदकरणात् - अर्थात् यत् सत् नास्ति तस्मिन् उत्पादनक्षमताया अभावो भवति यथा शशश्रृङ्गम् ।
(२) उपादानग्रहणात् - प्रत्येकं कार्यस्य कृते उपादानस्य ग्रहणं क्रियते यथा पटस्य कृते तन्तवः । कार्येण असम्बद्धं कारणं कदापि तत्कार्यम् उत्पादयिंतु न शक्नोति ।
(३) सर्वसम्भवाभावात् - केनापि कारणेन कस्यापि कार्यस्योत्पत्तिर्नैव भविंतु शक्नोति । अनेनेदं ज्ञायते यत् कार्यं कारणे कारणव्यापारात् पूर्वमपि विद्यमानं भवति ।
(४) शक्तस्य शक्यकरणात्- कस्मिंश्चिदपि कारणे तत्स्मम्बन्धिनं कार्यम् उत्पादयितुं क्षमता भवति । तदैव तत्कार्यम् उत्पद्यते । अर्थात् तत् कार्यं तस्मिन् शक्ते कारणे नित्यं स्थितं भवति । व्यापारेण सह तद्व्यक्तं भवति ।
(५) कारणाभावात् - कार्यं कारणे तादात्म्यसम्बन्धेन भवति, अतो यदि कारणमस्ति तर्हि तस्मिन् तादात्म्यसम्बन्धेन कार्यमपि विद्यमानं भवति । यतोहि यदि कारणं सत् अस्ति तर्हि तस्मिन् कार्यमपि सत् एव व्यक्तं भविष्यति । अन्यथा तु कार्यकारणयोः तादात्म्यसम्बन्धः असिद्धो भवेत् ।
एभिः कारणैः सिद्ध्यति यत् इदम् आखिलं जगत् अव्यक्तावस्थायाम् अव्यक्तप्रकृतौ तादात्म्यसम्बन्धेन स्थितं भवति । गुणवैषम्येण च उत्पन्नपरिमाणरूपं कारणं व्यापारान्तरं व्यक्तं भवति । न च नूतनरूपेण उत्पद्यते यथा कच्छपस्य अङ्गानि शीतसमाधेरनन्तरं व्यक्तानि जायन्ते सः च क्रियाशीलो भवति, शीतकाले पुनः आत्मनः अवयवानि निरोद्धुं निष्क्रियोऽपि भवति । एवमेव सांख्यमतेन सृष्टिः परिणामरूपिणि कार्यव्यापारे जाते जगद्रूपेण व्यक्ता भवति, कारणव्यापारे अवरुद्धे सति च सा स्वकारणेष्वेव तिरोहिता जायते ।
गुणानां साम्यावस्था एव प्रकृतिरस्ति । यद्यपि क्रियाशीलस्य रजोगुणस्य हेतोः साम्यावस्थायाः स्थैर्यम् असम्भवम् अस्ति तथापि गुणप्रभावात् तत् नियन्त्रितं भवति । तदा प्रकृतेरपि उपरामो भवति तथापि जीवानां जन्मजन्मान्तरयोः कर्म यथासमयं फलोन्मुखि भूत्वा तमोगुणस्य अवरोधम् अपाकरोति, येन रजोगुणस्वभावात् प्रकृतौ पुनर्विक्षोभः उद्भवति प्रकृतिरपि महादादिरूपेषु व्यक्ता जायते । इयमेव सृष्टिक्रमः । अस्मिन् सृष्टिक्रमे तमोगुणः अवरोधरूपेण संलग्नोभवति, रजोगुणः क्षोभकरत्वात् व्यस्तो भवति । यथाकालं स एव प्रधानरूपेण व्यक्तो भवति । पुरुषरूपिणः चैतन्यस्य बिम्बमपि तदनु रूपतया सात्त्विकसृष्टौ उपयोगि प्रतीयते ।
महत् तत्त्वम्- यद्यपि महत् तत्त्वमपि त्रिगुणात्मकमस्ति तथापि इदम् अध्यवसायात्मकम् अर्थात् निश्चयात्मकं भवति, इदं मूलप्रकृत्या उत्पद्यते अतः विकृतिरस्ति, किन्तु अनया अहंकारतत्त्वमपि उत्पद्यते, अतः प्रकृतिरप्यस्ति । महत् तत्त्वस्यैव अपरं नाम बुद्धिरस्ति । बुद्धिश्च द्विधा कथिता-सात्त्विकी, तामसी च । बुद्धेः सात्त्विकस्वरूपे धर्मो ज्ञानं विरागः ऐश्वर्यञ्चेति चत्वारि वैशिष्ट्यानि भवन्ति, बुद्धेः तामसिकस्वरूपे अधर्मः अज्ञानं रागः अनैश्वर्यञ्चेति चत्वारि तद्विरुद्धानि वैशिष्ट्यानि भवन्ति । इदं बुद्धितत्त्वमेव भोगस्य साधनमस्ति । इदमेव च प्रकृति पुरुषयोर्भेदं व्यनक्ति ।
अहङ्कारतत्त्वम्- बुद्धित्त्वात् अहङ्कारस्य उत्पत्तिर्भवति । इदम् अभिमानस्वरूपम् अहं इत्यादिरूपेण भावात्मकं चास्ति । यद्यपि सत्त्वादयः त्रयो गुणाः परस्परं विरुद्धाः सन्ति, किन्तु त्रयाणां परस्परं सहयोगं विना किमपि कार्यं न सम्पद्यते । अतएव त्रयाणां मध्ये एकस्य अवस्थानं न भवति केवलं प्राधान्येनैव तन्नाम गृह्यते । अहङ्कारेऽपि त्रयो गुणा निहिताः सन्ति । अयम् अहङ्कारो बुद्ध्या उत्पन्नो भवति अतः विकृतिरस्ति, किन्तु अस्मात् अन्येषां तत्त्वानाम् उत्पत्तिरपि जायते, अतः प्रकृतिरप्यस्ति ।
अहङ्कारोऽपि वैकृतो भूतादेरथवा तैजसभेदात् त्रिविधो भवति । एकादशेन्द्रियाणाम् अहङ्कारो वैकृत इत्युच्यते । अस्मिन् सत्वगुणस्य प्राधान्यं भवति । तमोगुणप्रधानोऽहङ्कारः भूतादिसंज्ञको भवति । अस्मात् पञ्चतन्मात्रा उत्पद्यन्ते । रजोगुणप्रधानोऽहङ्कारस्तैजसो भवति ।
इन्द्रियाणि- सांख्यदर्शने एकादश इन्द्रियाणि अभिमतानि सन्ति । एषु पञ्च कर्मेन्द्रियाणि, पञ्च ज्ञानेन्द्रियाणि,मनश्च गृह्यन्ते । इमानि वैकृत-अहङ्कारात् उत्पन्नानि सन्ति अतएव अहङ्कारस्य विकृतिरुच्यते । एकस्यैव तत्त्वस्य एकस्वभावात् उत्पत्तेरन्तरमपि एकादशेन्द्रियाणां स्वभावे गुणपरिणामात् भेदोऽस्ति ।
ज्ञानेन्द्रियाणि पञ्च सन्ति-श्रोत्रं त्वक् चक्षुः रसना घ्राणं चेति । एतान्येव बुद्धीन्द्रियाणि उच्यन्ते । एषां विषयाः सन्ति-शब्दः स्पर्शः रूपं रसः गन्धश्चेति । कर्मेन्द्रियाणि अपि पञ्च वर्तन्ते-वाक्, पाणिः, पादौ, पायुः, उपस्थश्चेति । एषां विषयाः सन्ति-वचनम्, आदानम्, विहरणम्, उत्सर्गः, आनन्दश्चेति ।
मनः इन्द्रियम् उभयात्मकं भवति । यतो हि मनो विना ज्ञानेन्द्रियाणि कर्मेन्द्रियाणि च नैव प्रवर्तन्ते । यदा मनः ज्ञानेन्द्रियैः सह ज्ञानस्य विषयान् गृह्वाति तदा ज्ञानेन्द्रियं भवति, यदा च कर्मेन्द्रियैः सह क्रियोत्पादनं करोति तदा कर्मेन्द्रियं भवति । इदं सङ्कल्पविकल्पात्मकं भवति अतो यथा बुद्धिः निश्चयात्मिका भवति तदिदं निश्चयात्मकं न भवति ।
तन्मात्राः- अहङ्कारस्य तामसाद् रूपात् पञ्च तन्मात्रा उद्भवन्ति । ‘तन्मात्र’ शब्दस्य तात्पर्यमस्ति तदेव इति तन्मात्रम् । शब्दः स्पर्शः रूपं रसो गन्धश्च तन्मात्राः सन्ति । एता एव सूक्ष्मभूतान्यपि सन्ति । इमा अहङ्कारात् अभिव्यक्ताः सन्ति, अतः विकृतिरूपा वर्तन्ते । आभ्य एव स्थूलभूतानि व्यक्तानि भवन्ति, अतः प्रकृतिरूपा अपि सन्ति ।
पञ्चमहाभूतानि - पञ्च तन्मात्राभ्यः पृथकृ-पृथक् क्रमशः शब्दात् आकाशः, स्पर्शाद् वायुः, रूपात् तेजः, रसात् जलम्, गन्धात् पृथ्वी चेति पञ्चमहाभूतानि व्यक्तानि भवन्ति । इमे स्थूलपदार्थाः पञ्चतन्मात्राणां विकृतयः सन्ति । सांख्यशास्त्रे कथिता इमे सर्वे व्यक्तपदार्थाः अनित्याः सन्ति । एषु आश्रितत्त्वमपि विद्यते । एते लिङ्गरूपा अर्थात् हेतुभूता अपि सन्ति । इमे त्रिगुणात्मकाः प्रकृतिकार्यतया जडाश्चापि वर्तन्ते ।

मूलप्रकृतेरस्तित्वे प्रमाणानि

[सम्पादयतु]

व्यक्ततत्त्वानि परिमितानि सन्ति किन्तु मूलप्रकृतिः व्यापिकाऽस्ति । व्यक्ततत्त्वानाम् अनेकत्वे या समन्वयात्मकता विद्यते तयापि मूलप्रकृतेः सिद्धिर्भवति । शक्यनुकूलया प्रवृत्त्या अपि मूलप्रकृतिः सिद्ध्यति । सृष्टौ कार्यकारणभावेनापि मूलकारणतया प्रकृतेः सिद्धिर्भवति । जगतः नानात्वे तत्कारणभूते अव्यक्ते च तादात्म्येनापि प्रकृतिसिद्धिर्जायते ।
अव्यक्ते प्रायः व्यक्तप्रकृतेः सर्वेषां धर्माणां विपर्ययो भवति । स एकः अनाश्रितश्चास्ति । अर्थात् अव्यक्तं व्यक्तापेक्षया प्रायेण भिन्नमस्ति, किन्तु ‘कारणगुणात्मकत्वात्कार्यस्य’ इत्याधारेण काश्चन विशेषता व्यक्ताव्यक्तयोः तुल्याः सन्ति । यथा त्रिगुणमचेतनमित्यादि ।

अहङ्कारविचारः

[सम्पादयतु]

अहङ्कारस्योत्पत्तिः पूर्वमेव प्रतिपादिता । अयमहङ्कारः बुद्धिविशेषात्मकः । अहन्ता इति अहमाकारात्मिका बुद्धिः,इदन्ता इति इदमाकारात्मिका बुद्धिः अयं व्यवहारः एव बुद्धिविशेषः इत्युच्यते । अहन्ता बुद्धिं विना इदन्ताबुद्धिः नोदेति, अतः अहन्ताबुद्धिविशेषभूताहङ्कारस्योत्पत्तिरिति सिध्यति । अस्मिनप्यहङ्कारे सत्वादिगुणानामुत्कर्षापकर्षेण त्रयः भेदाः उत्पद्यन्ते । यथा, सात्विकभेदस्य वैकारिकः इति, राजसभेदस्य तैजसः इति, तामसभेदस्य भौतिकः इत्यभ्युपगमः । यत्र रजस्तमगुणयोः तिरोहितत्वेन उत्कृष्टत्वेन सत्वगुणः विराजते तत्र सात्विकाहङ्कारस्य स्थितिर्भवति । एवमन्यत्रापि । सात्विकाहङ्कारः रजोगुणसहायेन प्रवृत्त्यात्मकधर्मभूतानामेकादशेन्द्रियाणामुत्पत्तिं करोति । पञ्च ज्ञानेन्द्रियाणि, पञ्च कर्मेन्द्रियाणि, एकं मनः इति एकादशेन्द्रियाणि । भवति चैवमहङ्गारविचारः ।

पुरुषतत्त्वम्

[सम्पादयतु]

पुरुषतत्त्वं प्रत्यक्षानुमानादिभिः प्रमाणैः सिद्धं नैव भवितुं शक्नोति तस्य सिद्धिः केवलं शब्दप्रमाणेनैव भवति । पुरुषतत्त्वम् अहैतुकंनित्यं सर्वव्यापि निष्क्रियं गुणातीतं चास्ति । पुरुषः एकोऽस्ति अनेको वेति विषये सांख्यशास्त्रस्य टीकाकारेषु पर्याप्तं मतभेदो दृश्यते । अस्य कारणमिदमस्ति यत् एकस्मिन् आत्मनि स्वीकृते सति लोके सर्वेषां प्राणिनाम् एक एव व्यापारो भवेत् किन्तु जन्म-मरण-करणादिक्रियाणाम् एकस्मिन् काले एव अनेकताम् अवलोक्य इदमेव वक्तुं शक्यते यत् प्रतिशरीरम् आत्मा भिन्नोऽस्ति ।

पुरुषतत्त्वस्य अस्तित्वे प्रमाणानि

[सम्पादयतु]

पुरुषतत्त्वस्य सिद्धौ सांख्यशास्त्रं प्रायेण अनुमानस्य आश्रयं गृह्णाति । तत्रोक्तं प्रत्येकं संघातः अन्यस्य कृते भवति यथा विष्ठरथादि । जीवन्मुक्तदशायां गुणत्रयस्य अभावात् इदं दृश्यमाणं जगत् आधेयमस्ति । अस्य कृतेऽधिष्ठानस्य आवश्यकता भवति । इदं व्यक्तं जगत् योग्यमस्ति । अस्मै भोक्तुरावश्यकतया कैवल्यार्थ क्रियामाणं प्रयत्नं च दृष्ट्वा कस्यचित् चैतन्यतत्त्वस्यैवानुमानं भवति । इदं चैतसन्यतत्त्वं प्रतिशरीरं पृथक् पृथक् वर्तते ।
अस्यैव पुरुषतत्त्वस्य बिम्बः महत् तत्त्वे निपतति । तदा महत्तत्त्वं जडीभूतमपि चेतनवत् प्रतीयते । तदानीं तस्य बिम्बस्य प्रतिबिम्बः पुरुषे निपतति । तस्मात् पुरुषोऽपि बुद्धिधर्मभ्यो मुक्त इव प्रतीतिविषयो भवति । एषैव अविद्येति उच्यते । इदमेव बन्धस्य कारणमस्ति ।

प्रमाणतत्त्वमीमांसा

[सम्पादयतु]

सांख्यदर्शने प्रमेयतत्त्वानां ज्ञानाय प्रमाणानाम् अनिवार्यता स्वीक्रियते । सांख्यमतेन प्रमाणानि त्रीणि सन्ति-दृष्टम्, अनुमानम्, आप्तवचनञ्चेति । इतरशास्त्रेषु यानि अतिरिक्तानि प्रमाणान्युक्तानि तेषामेषु त्रिष्वेव अन्तर्भावोऽत्र कृतः ।
प्रत्यक्षम्- सांख्यकारिकायां प्रत्यक्षस्य लक्षणमस्ति- प्रतिविषयाध्यवसायो दृष्टः । अर्थात् ज्ञानेन्द्रियाणां स्वस्वविषयैः सह यः संयोगोऽस्ति, तेनोत्पन्नं ज्ञानं प्रत्यक्षं भवति ।
अनुमानम्- तल्लिङ्गिपूर्वकमनुमानम् इति अनुमानलक्षणम् । अर्थात् यत्र लिङ्गेन लिङ्गिनो ज्ञानं विधीयते तत्र तत्प्रमाणम् अनुमानमिति उच्यते । अस्य त्रयो भेदाः सन्ति-पूर्ववत्, शेषवत्, सामान्यतोदृष्टं चेति । कारणेन कार्यस्य अनुमानं पूर्ववत् भवति, कार्येण कारणस्य अनुमानं शेषवद् भवति । अतीन्द्रियादिविषयाणां ज्ञाने सामन्यतोदृष्टम् अनुमानं भवति ।
शब्दप्रमाणम्- आप्तश्रुतिराप्तवचनतु इति शब्दप्रमाणस्य लक्षणम् अस्ति ।

मोक्षविचारः

[सम्पादयतु]

निस्सङ्गः पुरुषः अविद्या च नित्यतत्त्वे स्तः । एतदर्थमनयोः संयोगोऽपि अनादिरेव मन्यते । प्रकृतिरपि अनादि जडा वास्ति । पुरुषस्य प्रतिबिम्बेन प्रकृतिरथवा तदुत्पन्नं महत् तत्त्वम् आत्मानं चेतनवत् अवगच्छति । एवं महतः प्रतिबिम्बः पुरुषे निपतति, ततः प्रकृतिधर्मान् पुरुषः स्वगतानेव अवगच्छति अर्थात् ये सुखदुःखादयः प्रकृताः परिणामाः सन्ति । पुरुषः तान् जानाति । अनेन सः कर्त्तृभोक्त्रादिरूपेण विज्ञायते । अयमेव पुरुषस्य अयथार्थरूपः बन्धोऽस्ति । पुरुषोऽस्मात् कल्पितबन्धनात् मुक्तो भूत्वा आत्मनः स्वरूपम् अभिज्ञातवान् । प्रकृतेः स्वरूपज्ञानमेव विवेकख्यातिरस्ति । उभयोः प्रकृतिपुरुषयोः आत्मनः स्वरूपे अवस्थितिरेव मुक्तिर्विद्यते ।
एवं जगत्कर्त्तृत्वादयः सर्वे धर्माः प्रकृतेरेव सन्ति । पुरुषस्तु साक्षिमात्रमस्ति । तस्य दृष्टृत्वम् अकर्त्तृत्वं भोक्तृत्वं चापि मन्यते । एतद्वीपरीतं सर्वे धर्माः मूलप्रकृतौ सन्ति । अथायं प्रश्नो जायते यत् प्रकृतिरचेतनाऽस्ति तथापि कर्तव्यरूपो धर्मस्तस्यां कथं घटते । अस्मिन् विषये ईश्वरकृष्णो लिखति-पुरुषस्य साक्षित्वे कर्त्तृत्वादयो धर्माः मूलप्रकृतावपि स्वाभाविकाः सन्ति । यथा धेनोः स्तनेषु वत्सवृद्ध्यर्थम् अभिवृद्धये जडमपि दुग्धं स्वतः प्रवर्तते । एवं प्रकारेण प्रतिपुरुषं मुक्तये प्रकृतिः स्वभावतो महदादेः सृष्टिं करोति । अत्र तस्य स्वकीयं किमपि स्वार्थम् न विद्यते ।

सूक्ष्मशरीरनिरूपणम्

[सम्पादयतु]

एकस्मिन् जन्मनि मुक्तिः सम्भवा नास्ति इति विचारेण सांख्यशास्त्रे एतादृशी विचारधारा विकसिता यत् चेतनो जीवात्मा अनेकानि जन्मानि गृह्णाति । तदा प्रकृतिः बुद्धेरष्टभिर्भावैः सह एकस्मात् शरीरात् अन्यस्मिन् शरीरे प्रविष्टा भवति । एषा प्रक्रिया स्थूलशरीरेण सम्भवा नास्ति, अतः शरीरान्तः स्थितं यत् सूक्ष्मशरीरं वर्तते तदेव शरीरत् निष्क्रमणं करोति । सूक्ष्मशरीरे पञ्चज्ञानेन्द्रियाणि, पञ्च कर्मेन्द्रियाणि, पञ्च तन्मात्राः, मनः, बुद्धिः, अहङ्कारश्चेति अष्टादशतत्त्वानि सन्ति । इदमेव सूक्ष्मशरीरं पुरुषस्य भोगाय नानारूपाणि धारयति । स्थूलशरीरं विना सूक्ष्मशरीरं भोगाय न क्षमते । सः स्थूलशरीरस्याश्रयम् अवश्यमेव गृह्वाति । इदं सूक्ष्मशरीरम् अप्रतिहतगतिकं भवति ।

सांख्यस्य आचार्यपरम्परा ग्रन्थपरम्परा च

[सम्पादयतु]

(१) कपिलः तत्कृतं तत्त्वसमाससूत्रं साङ्ख्यसूत्रं च

[सम्पादयतु]

सांख्यदर्शनस्य प्रवर्तकः महर्षिः कपिलः अवर्तत । सांख्यतत्त्वानां सर्वप्रथमं विवेचनम् अनेनैव विहितम् । कपिलः पौराणिकेषु अष्टचत्वारिंशत्सु अवतारेषु परिगणितम् आसीत् । अनेनैव उपनिषद्भ्यः सांख्यतत्त्वानि पृथक् कृत्वा तानि सूत्ररूपेण आकलितम् । कपिलस्य विषये प्रायेणेदं प्रसिद्धमस्ति यत् सः निर्माणकायं धृत्वा आसुरिः सांख्यतत्त्वानाम् उपदेशं प्रददौ । कपिलस्य कर्त्तृत्वेनैव सांख्यसूत्राणां प्रसिद्धिरस्ति । सांख्यसूत्राणां रचना कपिलेनैव विहिता, किन्तु तेन आसुरये यः सांख्योपदेशः प्रदत्तः स एव सांख्यसूत्ररूपेण प्रचलितोऽभविष्यत् ।

कपिलस्य नाम्ना एकाऽन्या रचना तत्त्वसमाससूत्रमपि उपलभ्यते । तत्त्वसमासे केवलं द्वाविंशति सूत्राणि सन्ति । सांख्यसूत्रे तु सप्तत्रिंशदुत्तरपञ्चशतानि सूत्राणि षट्सु अध्यायेषु विभक्तानि सन्ति । अस्य प्रथमाध्याये सांख्यविषयस्य स्थापना विहिता । द्वितीयाध्याये प्रकृतेः कार्याणां निरूपणम् अस्ति । तृतीयाध्याये वैराग्यस्य प्रतिपादनमस्ति । चतुर्थाध्याये सांख्यतत्त्वबोधस्य उदाहरणमस्ति । पञ्चमाध्याये विमतपरिहारो वर्तते । षष्ठाध्याये सांख्यसिद्धान्तानां परिचयः प्रदत्तः ।

(२) आसुरिः (ग्रन्थः नास्ति)

[सम्पादयतु]

अयं कपिलस्य साक्षात् शिष्यः आसीत् । अस्य काचिदपि रचना नैवोपलभ्यते किन्तु स्याद्वादमञ्जरीग्रन्थे एकः श्लोकः आसुरेर्नाम्ना उद्धृतोऽस्ति, तेन ज्ञायते यत् आसुरेः काचिद् रचनाऽवश्यमेवासीत् इति ।

(३) पञ्चशिखः (षष्टितन्त्रम्)

[सम्पादयतु]

अयम् आसुरेः शिष्यः आसीत् । सांख्यदर्शनमयं व्यवस्थापितवान् । अस्य रचना षष्टितन्त्र नाम्ना प्रसिद्धा वर्तते । ‘षष्टितन्त्र’ नामकरणस्य सन्दर्भे विदुषाम् विचारेण अनेकानि कारणानि वर्तन्ते । महाभारतेऽपि पञ्चशिखस्य सिद्धान्तानाम् उल्लेखोऽस्ति येन षष्टितन्त्रस्य प्राचीनता परिलक्ष्यते ।

(४) विन्ध्यवासी (ग्रन्थः नास्ति)

[सम्पादयतु]

विन्ध्यवासी सांख्यशास्त्रस्य प्रतिष्ठित आचार्य आसीत् । यद्यपि केचन विद्वास इदं प्रतिपादितवन्तो यत् विन्ध्यवासी एव ईश्वरकृष्णः आसीत् इति । किन्तु तेषामिदं मतं प्रामाणिकं नास्ति यतो हि अस्योल्लेखः भोजवृत्ति-श्लोकवार्तिक-मेधातिथिभाष्य-अभिनवभारति-इत्यादिषु ग्रन्थेषु स्पष्टरूपेण प्राप्यते । अस्य कस्याश्चिदपि रचनाया उल्लेख इतिहासे उपलब्धो नास्ति तथापि अतिवाहिकशरीरेण मृत्योरुपरान्तं जीवः क्वचिद् गच्छति अयं सिद्धान्तोऽनेन मान्यो नावर्तत ।
अस्मिन् एव कालखण्डे वार्षगण्यं, जैगीषव्यः वोढु, देवल प्रभृतीनां सांख्यविदुषामपि उल्लेखः प्राप्यते किन्तु प्रामाणिकसामग्र्याः अभावे तेषामेतिहासिकस्थानस्य निर्धारणं कठिनमस्ति । यद्यपि वार्षगण्यः पञ्चपर्वाया अविद्यायाः प्रवक्तृरूपे वाचस्पतिमिश्र उल्लिखितवान् । महाभारते असितदेवलयोः संवादेन देवलस्यापि व्यक्तित्वं सिद्ध्यति ।

(५) विज्ञानभिक्षुः- (साङ्ख्यप्रवचनभाष्यम्)

[सम्पादयतु]

विज्ञानभिक्षुरपि ऐतिहासिकः सांख्यविद्वान् अस्ति । अस्य स्थितिकालः षोडशशताब्दी इति मन्यते । सांख्यप्रवचनभाष्यमपि अस्यैव कृतिरस्ति । योगवार्तिके ब्रह्मसूत्रे च विज्ञानामृतभाष्यमपि अस्य कृतिरूपेण उपलभ्यते । अस्य विदुषो विचारैः वेदान्तसाम्यताः सन्ति, अतः उभयविधशास्त्राणां समन्वयपरकोऽयं मन्यते ।

(६) ईश्वरकृष्णः (साङ्ख्यकारिका)

[सम्पादयतु]

ईश्वरकृष्णः सांख्यकारिकायाः रचयिता भवति । ईश्वरकृष्णस्य स्थितिकालः ईस्वीपूर्व द्वितीयशताब्दी इति मन्यते । पञ्चशिखस्य पश्चात् ईश्वरकृष्ण एव सर्वसम्मतः सांख्यतत्त्ववेत्ताऽस्ति । षष्टितन्त्रस्य आधारं गृहीत्वा अनेन सांख्यकारिका विरचिता । सांख्यकारिका वर्तमाने सर्वाधिकं लोकप्रियः ग्रन्थोऽस्ति । इयमेव रचना कनकसप्तति सांख्यसप्तति सुवर्णसप्तति चापि उच्यते ।

सांख्यकारिकायां द्वासप्ततिः कारिकाः सन्ति । आसु कारिकासु आचार्यगौडपादस्य गौडपादभाष्यमुपलभ्यते । सांख्यकारिकायाः अनेके टीकाग्रन्थाः अपि विद्यन्ते । वाचस्पतिमिश्रस्य सांख्यतत्त्वकौमुदी, माठराचार्यस्य माठरवृत्तिः, शङ्कराचार्यस्य जयमङ्गलाटीका टीकाग्रन्थेषु विशिष्टा वर्तन्ते । नारायणतीर्थविरचिता चन्द्रिकाटीका, हरिहरारण्यककृता सांख्ययोगसरलाख्या बँगलाटीका, युक्तिदीपिका टीका चापि सम्प्रति उपलभ्यन्ते ।

सम्बद्धपुटानि

[सम्पादयतु]

अध्ययनकेन्द्राणि

[सम्पादयतु]
नाम राज्यम् सङ्केतः
राष्ट्रियसंस्कृतसंस्थानम्
http://www.sanskrit.nic.in
देहली (दशराज्येषु अस्ति) राष्ट्रिय संस्कृत संस्थान

मा. स. वि. मन्त्रालय के अन्तर्गत स्थापित 56-57 इन्स्टीट्यूशनल एरिया जनकपुरी नई दिल्ली - 110 058 ई-मेल: rsks@nda.vsnl.net.in

राष्ट्रियसंस्कृतविद्यापीठम्
http://www.nsktu.ac.in
आन्ध्रप्रदेशः तिरुपतिः-५१७५०७. आन्ध्रप्रदेशः
श्रीलालबहादुरशास्त्रीराष्ट्रियसंस्कृतविद्यापीठम्
http://www.slbsrsv.ac.in
देहली बि-४, कुतुब् इन्स्टिट्युशनल् येरिया, निव् देहली -११००१६

आधाराः

[सम्पादयतु]
  1. मूलप्रकृतिरविकृतिः महदाद्याः प्रकृतिविकृतयः सप्त ।
    षोडकस्तुविकारो नप्रकृतिर्नविकृतिः पुरुषः ॥ सांख्यकारिका, ईश्वरकृष्णः. १
  2. मूलप्रकृतिरविकृतिः महदाद्याः प्रकृतिविकृतयः सप्त ।
    षोडकस्तुविकारो नप्रकृतिर्नविकृतिः पुरुषः ॥ सांख्यकारिका, ईश्वरकृष्णः. १

बाह्यानुबन्धाः

[सम्पादयतु]
{{bottomLinkPreText}} {{bottomLinkText}}
साङ्ख्यदर्शनम्
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?