For faster navigation, this Iframe is preloading the Wikiwand page for सरस्वतीकण्ठाभरणविद्यापीठम्.

सरस्वतीकण्ठाभरणविद्यापीठम्

सरस्वतीकण्ठाभरणविद्यापीठम्
अढाइ दिन का झोपडा
अन्तस्तात् एतत् 'मस्जिद्' मन्दिरवत् दरीदृश्यते[]
सरस्वतीकण्ठाभरणविद्यापीठम् is located in India
सरस्वतीकण्ठाभरणविद्यापीठम्
Shown within India
अवस्थानम् अजमेर, राजस्थानम्
प्रदेशः भारतम्
भू-निर्देशाङ्काः २६°२७′१५″उत्तरदिक् ७४°३७′२७″पूर्वदिक् / 26.4541489°उत्तरदिक् 74.6242793°पूर्वदिक् / २६.४५४१४८९; ७४.६२४२७९३
प्रकारः विद्यापीठम्
इतिहासः
निर्माता(रः) विग्रहराज चौहान
निर्मितः विग्रहराजस्य शासनकाले
परित्यक्तः ११९२ तमे वर्षे
विशेषघटनाः
  • ११९२ तमे वर्षे नरायन-आख्यस्य राज्ञः पराजयानन्तरं तुर्क-जनानां राक्षसतायाः (हैवानीयत)[] परिणामेन विद्यापीठं नष्टम् अभवत् ।
  • एकादश्यां शताब्द्यां पञ्जाब-प्रदेशात् पञ्जाब शाह पीर इति विस्थापितो भूत्वा अजमेर गतः । तस्य मरणोपरान्तं तस्य विद्यापीठस्य पूर्णरीत्या 'मस्जिद्' इत्यस्मिन् परिवर्तनम् अभवत् ।
  • १८६५ तमे वर्षे जनरल् कनिङ्घम् आख्यः पुरातत्ववेत्ता 'ढाई दिन का झोपडा' इत्यस्य प्राङ्गणे उत्खननम् अकारयत् ।
  • उत्खननकाले ततः अनेके शिलालेखाः प्राप्ताः ।
स्थलवैशिष्ट्यम्
खननदिनाङ्काः १८६५ तमे वर्षे[]

सरस्वतीकण्ठाभरणविद्यापीठम् ( /ˈsɑːrəsvətkənthɑːbhərənəvɪdjɑːpthəm/) (हिन्दी: सरस्वती कण्ठाभरण विद्यापीठ, आङ्ग्ल: Sarswati Kanthabharan Vidyapith) आदिकालात् अजमेर-प्रदेशे स्थितम् अस्ति । एतस्य विद्यापीठस्य निर्माणं चौहाणवंशीयराजा विग्रहराजः अकारयत् । एतस्मिन् विद्यापीठे एव पृथ्वीराजतृतीयः (पृथ्वीराज चौहान) अध्ययनम् अकरोत् । शिल्पकलायां प्रवीणः सः स्वराज्ये शिल्पकलायाः पठनपाठनाय एतस्य विद्यापीठस्य स्थापनाम् अकरोत् । अधुना एतस्य नाम 'अढाई दिन का झोपडा' इति अस्ति । एतस्य पृष्ठे मान्यता अस्ति यत्, एतस्य विद्यापीठस्य विध्वंसं तुर्क-जनाः एकस्मिन् दिने उत दिनद्वये कर्तुं न शक्तवन्तः, अपि तु एतस्य विध्वंसे सार्धद्विदिनस्य कालः अभवत् । अतः एतस्य विद्यापीठस्य स्थाने स्थापितस्य 'मस्जिद्' इत्यस्य नाम 'अढाई दिन का झोपडा' इति अस्ति [] [] । 'अढाई दिन का झोपडा' इत्यस्य नाम्नः पृष्ठे अन्याः अपि किंवदन्त्यः श्रूयन्ते । सुप्रसिद्धस्य एतस्य विद्यापीठस्य ध्वंसः तुर्क-देशीयैः यवनैः कृतः । यतो हि एतत् 'मस्जिद्'-विशेषं मन्दिरस्य, विद्यापीठस्य च ध्वसानन्तरं तयोः अवशेषेभ्यः निर्मितम् अस्ति, अतः अन्तस्तात् एतस्य 'मस्जिद्' इत्यस्य स्थापत्यं मन्दिरवत् दरीदृश्यते ।

इतिहासः

[सम्पादयतु]

विग्रहराजेन स्थापितस्य संस्कृतविद्यापीठस्य नाम सरस्वतीकण्ठाभरणविद्यापीठम् आसीत् । तस्मिन् विद्यापीठे पुरातत्त्वस्य, वास्तुशिल्पस्य च अध्ययनम्, अध्यापनं च भवति स्म । आभारतं तस्य विद्यापीठस्य प्रसिद्धिः आसीत् । ११९२ तमे वर्षे नरायन-आख्यस्य राज्ञः पराजयानन्तरं तुर्क-जनानां राक्षसतायाः (हैवानीयत)[] परिणामेन विद्यापीठं नष्टम् अभवत् । ततः तस्य मन्दिरस्य अवशेषेभ्यः एव 'मस्जिद्' इत्यस्य निर्माणं कारितवन्तः ते।

द्वादशशताब्दीतः अष्टादशशताब्दीपर्यन्तं केवलं 'मस्जिद्' इति जनाः तत् विद्यापीठम् आह्वयन्ति स्म । एकादश्यां शताब्द्याम् अजमेर-प्रदेशे मराठावंशीयानाम् आधिपत्यम् आसीत् । तस्मिन्नेव काले पञ्जाब-प्रदेशात् विस्थापितो भूत्वा एकः दरिद्रः (फकीर) सरस्वतीकण्ठाभरणविद्यापीठे न्यवसत् । सः दरिद्रः पञ्जाब शाह पीर इति प्रसिद्धः आसीत् । तस्य मरणोत्तरं विद्यापीठस्य पूर्णरीत्या 'मस्जिद्'-रूपेण परिवर्तनम् अभवत् । तस्य दरिद्रस्य स्मरणे अन्ये दरिद्राः प्रतिवर्षं तत्र सार्धद्विदिनात्मकं सम्मेलनं कुर्वन्ति । अतः तस्य विद्यापीठस्य नाम 'मस्जिद्' इत्यस्यानन्तरं 'ढाई दिन का झोपडा' इति अभवत् ।

नष्टविद्यापीठस्य अवशेषेभ्यः 'मस्जिद्' इत्यस्य निर्माणस्य आरम्भिकं कार्यं कुत्बुद्दीन् ऐबक्-आख्यः आक्रान्ता अकारयत् । परन्तु १२१३ ई. मध्ये अल्तमश इत्यस्य काले निर्माणकार्यं पूर्णम् अभवत् । तस्मात् स्थानात् प्राप्तेन एकेन फारसी-शीलेखेन ज्ञायते यत्, हिरात् ५९६ इत्यस्मिन् 'मस्जिद्' इत्यस्य कार्यं पूर्णम् अभवत् । []

सरस्वतीकण्ठाभरणविद्यापीठस्य प्राङ्गणे अद्यापि चौहानवंशस्य मूल्यवन्तः अवशेषाः भूगर्भिताः सन्ति । १८६५ तमे वर्षे जनरल् कनिङ्घम् आख्यः पुरातत्ववेत्ता 'ढाई दिन का झोपडा' इत्यस्य प्राङ्गणे उत्खननम् अकारयत् । उत्खननकाले ततः अनेके शिलालेखाः प्राप्ताः । परन्तु आक्रान्तॄणां प्रहारैः जीर्णाः ते शिलालेखाः अनेकेषु विभागेषु विभक्ताः आसन् । तेषां विभागानां सङ्गटनं कृत्वा चतुर्णां पूर्णशिलालेखानां निर्माणम् अपि अभवत् । संस्कृतज्ञेभ्यः, पुरातत्वविद्भ्यश्च ते शिलालेखाः महत्त्वपूर्णाः सन्ति । तेषु चतुर्षु शिलालेखेषु द्वयोः संस्कृत-प्राकृत-भाषयोः अज्ञातनाटकयोः अंशाः अङ्किताः सन्ति । अन्यद्वयोः एकस्मिन् विग्रहराजस्य राजकविना सोमदेवन रचितः "ललितविग्रहराजः" ग्रन्थः अङ्कितः अस्ति । चतुर्थे शिलालेखे विग्रहराजद्वारा शिवमहाराजस्य (छत्रपति शिवाजी) प्रशंसायां रचितः "हरिकेलि"-आख्यः ग्रन्थः अङ्कितः अस्ति । चौहाणप्रशस्तिः इत्याख्यस्य ग्रन्थस्यापि अवशेषाः ततः प्राप्ताः [] । ललितविग्रहराजः, हरिकेलि-नाटकम् इत्यन्योः ग्रन्थयोः शिलायाम् उत्कीणस्य कार्यं भास्कर-आख्यः शिल्पी अकरोत् []

ललितविग्रहराजः

[सम्पादयतु]

सोमदेवकृतः ललितविग्रहराजः ग्रन्थः विग्रहराजस्य यशोगाथा अस्ति । सरस्वतीकण्ठाभरणविद्यापीठस्य प्राङ्गणात् ये शिले प्राप्ते, तयोः एकस्यां ३८ पक्तयः, द्वितीयायां ३७ पङ्क्तयः सन्ति । प्रथमशिलायाः चत्वारः विभागाः, द्वितीयशिलायाः नव विभागाः च आसन् । प्रत्येकस्य विभागस्य काष्ठस्य चतुरङ्गे क्रोडीकरणेन सम्पूर्णस्य शिलायाः रक्षणं चिरकालस्य कृते अभवत् । कुत्रचित् कानिचन अक्षराणि अपि खण्डितानि सन्ति, परन्तु शिल्पकारस्य अद्भुतलेखनपद्धत्या शुद्धाक्षराणां ज्ञानं बहुधा भवति ।

महीपतेः विद्वान् पुत्रः भास्करः स्वयं ध्यानेन अक्षराणि व्यलिखत् । नाटकस्य संस्कृतभाषा अतिसरला अपि अस्ति । तस्मिन् शिलालेखे शार्दूलविक्रीडितः, वसन्ततिलका, अनुष्टप्, स्रग्धरा, आर्या, मन्द्रक्रान्ता इत्यादीनि छन्दांसि सन्ति । प्राकृतभाषायाः अपि बाहुल्येन प्रयोगः कृतः अस्ति । डॉ. पिशेल आख्यस्य इतिहासविदः मतम् अस्ति यत्, ललितविग्रहराजनाटकेऽस्मिन् हेमचन्द्राचार्यस्य व्याकरणनियमानाम् आधिक्येन अनुसरणम् अभवत् [] । विग्रहराजेन स्थापिते सरस्वतीकण्ठाभरणविद्यापीठे ललितविग्रहराजस्य उत्कीणतायाः कार्यं पूर्णम् अभवत् । ततः तस्मिन् विद्यापीठे एव सोमदेवकृतः सः ग्रन्थः प्रस्थापितः आसीत् । इत्यनेन सिद्धं भवति यत्, ललितविग्रहराजस्य नाटकं सत्यार्थोपस्थापनात्मिका कृतिः अस्ति । तस्मिन् नाटके घटितानां घटनानां वर्णनम् ऐतिहासिकसाहित्यस्रोतस्त्वेन ललितविग्रहराजनाटकस्य महत्त्वं वर्धयति ।

हरकेलि

[सम्पादयतु]

सरस्वतीकण्ठाभरणविद्यापीठस्य प्राङ्गणे उत्खननकाले द्वे शिले प्राप्ते । तयोः प्रथमशिलायां लिङ्गोद्भव-आख्यस्य द्वितीयाङ्कस्य उत्तरार्धः, तृतीयाङ्कस्य पूर्वार्धश्च उत्कीर्णः अस्ति । प्रथमाङ्कस्य शिला इतोऽपि न प्राप्ता । एकस्यां शिलायां क्रौञ्चवधम् इत्याख्यस्य पञ्चमाङ्कस्य अङ्कनम् अस्ति । अनेन इतिहासविदां मतम् अस्ति यत्, सम्पूर्णनाटकस्य विभाजनं चतुर्षु उत पञ्चसु भागेषु भवेत् । द्वितीयशिलायां यत्र अङ्कस्य समाप्तिः भवति, तत्र अङ्कसमाप्तौ रचयितृत्वेन विग्रहराजस्य नाम अङ्कितम् अस्ति[१०]

१२१० विक्रमसंवत्सरस्य माघमासस्य शुक्लपक्षस्य पञ्चमम्यां (५/२/१२१०) तिथौ रविवासरे हरिकेलि-नाटकं पूर्णम् अभवत् ।

भोजराजस्य विद्यापीठेन सह तुलना

[सम्पादयतु]

यादृशी स्थितिः विग्रहराजेन स्थापितस्य सरस्वतीकण्ठाभरणविद्यापीठस्य अस्ति, तादृशी स्थितिः भाजराजेन (ई. १०१५-१०५५) स्थापितस्य सरस्वतीकण्ठाभरणविद्यापीठस्य अस्ति । उभयोः विद्यापीठयोः नामनी समाने स्तः । उभयोः स्थितिः अपि समाना अस्ति । उभयोः विद्यापीठयोः स्थाने सद्यः 'मस्जिद्' अस्ति । विग्रहराजेन स्थापितस्य सरस्वतीकण्ठाभरणविद्यापीठस्य नाम 'अढाई दिन का झोपडा', भोजराजेन स्थापितस्य सरस्वतीकण्ठाभरणविद्यापीठस्य नाम 'कमल मौला' च अस्ति ।

उभयोः स्थानयोः उत्खननेन संस्कृतसाहित्यस्य शिलालेखाः प्राप्ताः । यथा 'अढाई दिन का झोपडा' इत्यस्मात् स्थानात् सोमदेवस्य, विग्रहराजस्य कृतयः प्राप्ताः, तथैव 'कमल मौला' इत्यस्मात् स्थानात् भोजराजस्य अनेकाः कृतयः प्राप्ताः । 'अढाई दिन का झोपडा' इत्यस्मात् स्थानात् ललिकविग्रहराजः, हरिकेलि-नाटकं, चौहानप्रशस्तिः इत्यादयः शिलालेखाः प्राप्ताः । 'कमल मौला' इत्यस्मात् स्थानकात् कूर्मशतं, पारिजातमञ्जरी इत्यादीनां शिलालेखाः प्राप्ताः ।

सम्बद्धाः लेखाः

[सम्पादयतु]

विग्रहराजः

चौहानवंशः

हिन्दुधर्मः

संस्कृतसाहित्यम्

बाह्यसम्पर्कतन्तुः

[सम्पादयतु]

http://panchjanya.com/arch/2001/4/22/File18.htm Archived २०१२-१०-२७ at the Wayback Machine

http://hindi.nativeplanet.com/ajmer/attractions/adhai-din-ka-jhopra/

उद्धरणम्

[सम्पादयतु]
  1. एपिग्राफिया इण्डिका, मुस्लोमिका, ई. १९११-१२, ई. डेनिसन् रास्,
  2. २.० २.१ डॉ. बिन्ध्यराज चौहान (2012). दिल्लीपति पृथ्वीराज चौहान एवं उनका युग. राजस्थानी ग्रन्थागार. p. ६२. ISBN 978-81-86103-09-1 Check |isbn= value (help). 
  3. डॉ. बिन्ध्यराज चौहान (2012). दिल्लीपति पृथ्वीराज चौहान एवं उनका युग. राजस्थानी ग्रन्थागार. p. 63. ISBN 978-81-86103-09-1 Check |isbn= value (help). 
  4. J.L. Mehta. Medieval Indian Society And Culture 3. Sterling. p. 175. ISBN 978-81-207-0432-9. "...Adhai din ko Jhompra at Ajmer were built by him out of the material of demolished Hindu temples...the masjid at Ajmer was erected on the ruins of a Sanskrit college" 
  5. सार्धद्विदिनेषु संस्कृतमहाविद्यालयस्य विनाशः
  6. एपिग्राफिया इण्डिका, मुस्लोमिका, ई. १९११-१२, ई. डेनिसन् रास्, पृ. १५
  7. डॉ. बिन्ध्यराज चौहान (2012). दिल्लीपति पृथ्वीराज चौहान एवं उनका युग. राजस्थानी ग्रन्थागार. p. ७१. ISBN 978-81-86103-09-1 Check |isbn= value (help). 
  8. डॉ. बिन्ध्यराज चौहान (2012). दिल्लीपति पृथ्वीराज चौहान एवं उनका युग. राजस्थानी ग्रन्थागार. p. ६९. ISBN 978-81-86103-09-1 Check |isbn= value (help). 
  9. डॉ. बिन्ध्यराज चौहान (2012). दिल्लीपति पृथ्वीराज चौहान एवं उनका युग. राजस्थानी ग्रन्थागार. p. ६४. ISBN 978-81-86103-09-1 Check |isbn= value (help). 
  10. "इति महाराजाधिराज विग्रहराज देव कवि विरचिते" इति शिलालेखे अङ्कितम् अस्ति।

अधिकवाचनाय

[सम्पादयतु]

मन्दिरस्य स्थाने मस्जिद्

{{bottomLinkPreText}} {{bottomLinkText}}
सरस्वतीकण्ठाभरणविद्यापीठम्
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?