For faster navigation, this Iframe is preloading the Wikiwand page for सदस्यः:Rsachi/प्रयोगपृष्ठम्.

सदस्यः:Rsachi/प्रयोगपृष्ठम्

दधीचिः

Rsachi/प्रयोगपृष्ठम्
Dadhichi
Information
Gender Male
Family Atharvan (father)

दधीचिः दध्याञ्चः दध्याङ्गः इति अपि आख्यातः। एष हिन्दूधर्मणि ऋषीणाम् अग्रस्थानिकः वर्तते। तस्य यशस्य कारणं सः स्वशरीरं दत्वा देवानां वज्रायुधनिर्माणे साहाय्यं कृतवान्। देवाः नागानां अधिपेन वृत्त्रासुरेण देवलोकात् निक्षिप्तवन्तः। खिन्नाः देवाः तदा तं प्रति युद्धाय एकं महास्त्रम् इच्छितवन्तः। दधीचिना करुणया दत्तेन स्वशरीरात् आनीतेन अस्थिपञ्जरेण वज्रायुधं निर्माप्य देवाः वृत्त्रासुरं निहत्य देवलोकं पुनः प्राप्तवन्तः। दध्याञ्चः दध्याङ्गः इति नामनी द्ध्य च अञ्च वा अङ्ग शब्दयोः संधिना भवतः। तस्य अर्थः बहुव्रीहि समासः “यस्य अङ्गानि दधिना शक्तियुतानि कृतानि सः” इति । दधीचिः पदः तस्य अपभ्रंशः इति पाणिना अष्टाध्याय्यां बोधितम्।

वृत्त्रं निहाय समस्तप्राणिभ्यः देवाः जलं विमोचितवन्तः यत् पूर्वं वृत्त्रः जलशोषणेन जनान् पीडितवान् आसीत्। एतस्मिन् देवानां महत्कार्ये स्वशरीरं समर्प्य दधीचिः चिरकालं सर्वैः ऋषिभिः सम्मानितः। दधीचिः निःस्वार्थः दुष्टनिग्रहकार्ये परोपकाराय आत्मबलिं करणीयमिति निदर्शयति। दधीचिना प्रेरितः एव भारतस्य राष्ट्रपतिना योद्धानां दीयमानः अत्युच्चः वीरपुरस्कारः परमवीरचक्रः। एतत्पुरस्कारः प्रायशः योद्धाय युद्धे तस्य वीरमरणानन्तरमेव दीयते।

दधीचिः शिवभक्तः च इति मानितः। शिवः सतीदेहत्यागानन्तरं शक्त्या विरहितः ऋषीदृशः काननं गत्वा एकान्तः अवसत्। शिवरात्री इति वार्षिकोत्सवः शिवस्य ऋषिरूपे भक्तैः प्रथमतः दर्शनसंदर्भमेव। तदा दधीचिः निरन्तरपूजाफलेन तेन शिष्यपरिवारेण सह शिवस्य दर्शनं लभते।

श्रीमद्भागवतपुराणे कथितं दधीचिः अथर्वणऋषेः तस्य चित्तिः नाम भार्यायाः च पुत्रः इति। अथर्वणः अथर्ववेदस्य रचयिता य चतुर्षु वेदेषु एकः। चित्तिः कर्दमऋषेः पुत्री। मुख्यतः राजास्थाने वर्तमानाः दधीचब्राह्मणाः दधीचेः अपत्याः। ते विदेषमपि गतवन्तः।

दधीचेः पत्नी स्वर्चा इति। तस्य पुत्रः पिप्पलादः। पिप्पलादस्य मतः प्रसिद्धः सः प्रश्नोपनिषदस्य रचयिता अपि। दधीचेः आश्रमः मिस्रिक् प्रदेशे नैमिषारण्ये लखनौ समीपे उत्तरप्रदेशे आसीत्[] । पुराणेषु उल्लेखितः तस्य आश्रमः इदानीमपि दृश्यते। पुरातनकाले बहवः ऋषयः दीर्घायणं कृतवन्तः। प्रायशः दधीचिः गुजरात्प्रदेशे साबरमतिनदीतीरे स्वल्पकालं निवसति स्म। दहोड देशे अपि दूधीमतिनद्याः[] समीपे दधीचिः साधनं कृतवान् इति ऊहा वर्तते। दधीचेः सहजातायाः नाम दूधीमति। तस्याः कृते एकं मन्दिरमपि चतुर्थशतमाने निर्मितं दधीमतिमातामन्दिरमिति नागोर् राजास्थान् स्थले अस्ति। दधीचिः ऋग्वेदस्य प्रथममण्डले अनेकऋचेषु सूक्तेषु अपि उल्लेखितः[]. []. hymns 1.80.16, 1.84.13–14, 1.116.12, 1,117,22, 1.139.9, 9.108.4</ref>। तस्य प्रस्तावः भागवतपुराणे देवीभागवते अन्य पुराणेष्वपि लभते। दधीचिः नारायणकवचम् इति ग्रन्थस्य रचयिता इति मान्यते। एतत् कवचं दाक्षिणात्यदेशे बहु मानितं तस्य पठनेन जनाः शक्तिं शान्तिञ्च प्राप्नुवन्ति इति श्रद्धा वर्तते। दहिया जाठ् जनाः महर्षिदधीचेः वंशजाः।

पुराकथाः

[सम्पादयतु]

दधीचिः अनेकपुराकथासु उल्लेखितः अनेकदा अश्वशिरः इत्यपि।

अश्वशिरः

[सम्पादयतु]

दधीचिः वैदिककलायां ब्रह्मविद्यायां च निपुणः तेन मधुविद्यया अमरत्वं प्राप्तम्। देवेन्द्रः तस्यबलात् भीतः यत् दधीचिः महर्षिरपि। इन्द्रस्य भीतिः अश्विनीकुमारौ प्रतिरपि आसीत् ततः सः सर्वान् भाययति स्म कश्चिदपि यदि तौ मधुविद्यां बोधयति तर्हि तस्य शिरच्छेदं करोमि इति। किन्तु अश्विनीकुमारौ एतद्विद्यां लब्धुं दधीचेः इन्द्रात् संरक्षणं कर्तुं च निर्धारितवन्तौ एकं योजनं कृतवन्तौ। तौ दधीचिना मधुविद्यां प्राप्य तस्य शिरं विच्छेद्य गुह्यस्थले स्थापयित्वा अश्वस्य शिरं दधीचये योजितवन्तौ। इन्द्रः कृद्धः दधीचेः अश्वशिरं विच्छिद्य गतवान् । तदा तौ दधीचये निजशिरं स्थाप्य मधुविद्यया पनः तं जीवितं कृतवान्। तथैव तस्य नाम अश्वशिरः इति प्रचलितम्।

क्षुवइन्द्रयोः पराजयः

[सम्पादयतु]

एकदा दधीचेः क्षुवः नाम राज्ञः च मद्धे विवादः संजातः । क्षुवः विष्णुभक्तः। विवादः आसीत् कः उत्तमः ब्राह्मणक्षत्रिययोः मद्ध्ये इति। दधीचिः क्षुवस्य उपरि मुष्टिप्रहारं कृतवान्। क्षुवः तं वज्रेन प्रहृतवान्। विहंसितः ऋषिः शुक्राचार्येण उपचरितः। ततः दधीचिः शिवं उद्दिश्य कठोरतपः आचरितवान्। शिवः तस्मै त्रीन् वरान् अददत् -१. कदापि सः अवमानितः न भवति। २. सः केनापि हतः न भवति। ३.तस्य अस्थिः वज्रवत् कठोरः भवति। दधीचिः पुनः क्षुवेन सह युद्धं कृत्वा तं पराजितवान्। क्षुवः विष्णुं प्रार्थयत्। इदं विदित्वा दधीचिः त्रिशूलेन प्रहृतवान्। तदा विष्णुं विना सर्वे अन्ये देवाः पलायितवन्तः। यद्यपि सर्वदा दधीचिः विष्णुं प्रति गौरवं अनुभूतवान् आसीत्। अन्यसमये देवाः तस्य अस्थि वत्त्रासुरवधाय अयाचन् दधीचिः झटिति अङ्गीकृतवान् यदा तैः सूचितं ते विष्णुना प्रेषितवन्तः।

इन्द्रवृत्त्रयोः युद्धं वज्रायुधञ्च

[सम्पादयतु]

देवराजः इन्द्रः एकदा वृत्त्रासुरेण स्वर्गात् निक्षिप्तः। सः असुरः वरबलात् केनापि विदितशस्त्रेण न मार्यः। सः जगतः सर्वजलसम्पदं स्वस्य असुरगणानां कृते चोरितवान्अ अपि। तस्य उद्देश: सर्वे जनाः देवाः च तृषेण मृताः भवन्तु तर्हि तस्य स्वर्गपदविः अविरुद्धा भविष्यति। इन्द्रः खिन्नः विष्णुं साहाय्यार्थं उपगतवान्। विष्णुः केवलं दधीचेः अस्थिना निर्मितवज्रेण वृत्त्रः मार्यः इति उक्तवान्। अतः इन्द्रादिदेवाः दधीचिं अपगतवन्तः यस्य शिरच्छेदं पूर्वं इन्द्रः एव कृतवान् आसीत्। दधीचिः स्वस्य अस्थेः याचनां पूरीकर्तुं अनुमतः परन्तु तदेव देहत्यागस्य पूर्वं नैमिषारण्य समीपे सर्वान् पुण्यतीर्थक्षेत्रान् गन्तुं ऐच्छत्। क्षेत्राटनानन्तरं ध्यानावस्थायां प्राणं निरुध्य देहं त्यक्तवान्। तदा दिव्यकामधेनुः तस्य शरीरं पूर्णं लिध्वा अस्थिपञ्जरं अत्यजत्। तस्य मेरुदण्डेन देवाः वज्रायुधं अन्यायुधानपि निर्मापितवन्तः। वज्रायुधेन असुरः हतः ततः इन्द्रः देवलोकस्य आधिपत्यं पनर्प्राप्य जलं सर्वेभ्यः जनेभ्यः विमोचितवान्।

अन्यतरवृत्तान्ते दधीचिः देवानां शस्त्राणां संरक्षितुं देवैः नियुक्तः यदा ते असुराणां प्रति युद्धे व्यस्ताः आसन्। बहु कालं दधीचिः तानि रक्षितवान् अन्ते सः तानि सर्वशस्त्राणि पुण्यजले अलुम्प्य तज्जलं पीतवान्। कालानन्तरं देवाः आगत्य शस्त्राणि ऐच्छन्तः वृत्त्रासुरहननाय। किन्तु दधीचिः तानि संरक्षणार्थं तेन पीतानि इति अवदत्। ततः स्वस्य शरीरेणैव असुरवधाय दिव्यास्त्रं पुनः प्राप्यते इति निर्धार्य स्वजीवं तपोबलेन नर्मितमन्त्राग्निकुण्डे त्यक्तवान्। ब्रह्मा तदा तस्य अस्थिभिः वज्रायुधादिदिव्यास्त्राणि नर्मापितवान्। वज्रायुधः दधीचेः मेरुदण्डेन निर्मितः। तथा देवाः तैः दिव्यायुधैः असुरान् पराजितवन्तः।

== अन्यवृत्तान्ताः ==

दक्षयज्ञे यदा शिवः तं प्रति असूयवशात् न आमन्त्रितः तथा अवमानितः दधीचिः प्रथमः यः दक्षयज्ञात् निर्गतवान्।

देवीहिङ्ग्लजायाः स्तुतिः दधीचिना रचिता इति प्रतीतिः। परषुरामात् संरक्षणाय कतिचन क्षत्रियबालान् हिङ्ग्लादेव्या मन्दिरे सः अवगूह्य हिङ्ग्लादेव्याः मन्त्रं रचितवान्।

  1. "The Great Sage Dadhichi". Archived from the original on 21 April 2007. आह्रियत 20 September 2009. 
  2. "History of Dahod". आह्रियत 18 February 2018. 
  3. ३.० ३.१ "Dadhichi in Ahmedabad". आह्रियत 20 September 2009. 
{{bottomLinkPreText}} {{bottomLinkText}}
सदस्यः:Rsachi/प्रयोगपृष्ठम्
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?