महाराज जयचामराजेन्द्र वडियर्
महारजः जयचामराजेन्द्र वडियर् मैसूरु राजसंस्थानस्य पन्चविम्शततम महराजः आसीत् । असौ महान् तत्त्वज्नः, सङ्गीतज्नः, राजनैतिकचिन्तकः चापि आसीत्।
बाल्यं यौवनं च
[सम्पादयतु]जयचामरज वडियर् महोदयः १९१९ तमे वरषे जुलै मासस्य अश्टादशतमे दिवसे संजातः । एष: युवराजः कण्टीरव नरसिंहराज वडियर् युवराणि केम्पुचेलुवजम्मण्णि तयो: अपत्यः । अस्य विद्याभ्यासं मैसूरु नगरस्य महारजास् कालेज् मध्ये अभावत्। अस्य पितृव्यस्य नाल्वडि श्रिकृष्णराज वडियर् महोदयस्य मृत्योरनन्तरम् जयचामराज महोदयेन १९४० तमे वर्षे सेप्तेम्बर् मासस्य अष्टमे दिने मैसूरु राजसंस्थनस्य राजसिंहासनम् आरुह्यते। पश्चात् १९४४ तमे वर्षे महोदयः महाराणीं त्रिपुरसुन्दरी अम्मण्णीं विवाहितवान्। यदा १९४७ तमे वर्षे भरतदेशः परतन्त्रात् मुक्तो अभवत् सार्वभौमत्वम् त्यक्त्वा प्रजातन्त्रम् प्रति उपकर्तुम् प्रथमः जयचमराज वडियर् महोदयः एव आसीत्।
सङ्गीतप्रेमः
[सम्पादयतु]महराज महोदयः पाश्चात्य तथा कर्णाटकशास्त्रीयसङ्गीते परिणीतः आसीत्। लन्डन् नगरस्य गिल्डाल् स्कूल् आफ् म्यूसिक् इतः "लैसेन्शियेट्" पदवीं तथा विश्वख्यातः ट्रिनिटि कालेज् आफ् म्युसिक् इतः सम्मानार्थक फेल्लो पदवीम् प्राप्तवान्। विद्वान् वेङ्कटगिरियप्प महोदयस्य पालने वीणवादनं आस्थानविद्वान् श्रिवासुदेवाचर्यस्य गुरुत्वे शास्त्रीयसङ्गीतम् च महाराजेन अधिगतः । "ब्रह्माण्ड वलये", "चामुण्डेश्वरी पालय माम्", "भजरे मानस", "श्रीविद्यां ललिताम्" इत्यादयः महाराजेन विरचित कृतयः।
अद्वैतवेदान्तः भगवत्गीता कुण्डलिनियोगः इत्यादि विषयेषु महाराजमहोदयः ग्रन्थानि रचितवान्। ऋग्वेदस्य पुराणानां कन्नडभाषायाः प्रचीनग्रन्थानां कन्नाडानुवादं महाराजमहोदयेन प्रायोजितम्। १९७४ तमे वर्षे सेप्तेम्बर् मासे २३ तमे दिने बेङ्गळूरु नगरस्थे राजप्रासादे महाराजः जयचामराजेन्द्र वडियर् महोदयः स्वर्गं प्राप्तवान्। तेषां विषये ख्यातकविकुवेम्पु महोदयः उक्तवान् - "अन्ये जनाः तु सिंह्मासनम् आरुह्य राजानः भवन्ति, परं एतैः सिंह्मासनं परित्यज्य महाराजो भूतः" इति।
Text is available under the CC BY-SA 4.0 license; additional terms may apply.
Images, videos and audio are available under their respective licenses.