दंष्ट्राकरालानि च ते...
श्लोकः
[सम्पादयतु]- दंष्ट्राकरालानि च ते मुखानि दृष्ट्वैव कालानलसन्निभानि ।
- दिशो न जाने न लभे च शर्म प्रसीद देवेश जगन्निवास ॥ २५ ॥
अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य पञ्चविंशतितमः(२५) श्लोकः ।
पदच्छेदः
[सम्पादयतु]दंष्ट्राकरालानि च ते मुखानि दृष्ट्वा एव कालानलसन्निभानि दिशो न जाने न लभे च शर्म प्रसीद देवेश जगन्निवास ॥ २५ ॥
अन्वयः
[सम्पादयतु]जगन्निवास, देवेश ! दंष्ट्राकरालानि कालानलसन्निभानि च ते मुखानि दृष्ट्वा एव दिशः न जाने । शर्म च न लभे । प्रसीद ।
शब्दार्थः
[सम्पादयतु]- जगन्निवास = विश्वनिकेतन !
- देवेश = सुराधिप
- दंष्ट्राकरालानि = दन्तभयानकानि
- कालानल - सन्निभानि च = प्रलयाग्निसदृशानि च
- ते मुखानि = वदनानि
- दृष्ट्वा एव = ईक्षित्वा एव
- दिशः = आशाः
- न जाने = न वेद्मि
- शर्म च = सुखमपि
- न लभे = न प्राप्नोमि
- प्रसीद = प्रसन्नो भव ।
अर्थः
[सम्पादयतु]विश्वनिकेतन, सुराधिप ! दन्तभयानकानि प्रलयाग्निसदृशानि च तव वदनानि दृष्ट्वा एव दिशः न जानामि । धैर्यं शान्तिं च कथमपि न प्राप्नोमि । प्रसन्नो भव ।
सम्बद्धसम्पर्कतन्तुः
[सम्पादयतु]सम्बद्धाः लेखाः
[सम्पादयतु]Text is available under the CC BY-SA 4.0 license; additional terms may apply.
Images, videos and audio are available under their respective licenses.