For faster navigation, this Iframe is preloading the Wikiwand page for तन्त्रसारसङ्ग्रहः.

तन्त्रसारसङ्ग्रहः


तन्त्रसारसंग्रहस्य रचयिता मध्वाचार्यः भवति। तन्त्रसारसङ्ग्रहः तन्त्रसारग्रन्थस्य सङ्ग्रहरूपात्मकः ग्रन्थः भवति। अस्य ग्रन्थस्य रचयिता महाविष्णुः भवति। तन्त्रग्रन्थेषु प्रधानः ग्रन्थः भवति। तन्तसारस्य सारं ४२० श्लोकेषु निरूपितं भवति। अस्यैव नाम तन्त्रसारसङ्ग्रः इति। अस्य ग्रन्थस्य पठनेन सकलाभिष्टं सिध्यति इति। ततदेव उक्तं ग्रन्थे,
ग्रन्थोऽयं पाठमात्रेण सकलाभीष्टसिद्धिदः।
किमु ज्ञानादनुष्ठानादुभयस्मात् पुनः किमु॥
तन्त्रमार्गास्तु हरिणाह्यसङख्याः कीर्तिता अपि।
तेष्वयं सुगमो मार्गः सुफलश्चानुतिष्ठताम्॥
यावतो ह्यननुष्ठाने कर्मपूर्तिर्न विद्यते।
तावत्समस्तं कथितं ह्यस्मिंस्तन्त्रे यथाविधि॥
प्रीयतेऽनेन मार्गेण पूजितो मुक्तिदो भवेत्।
कामदश्च स्वभक्तानां भगवान् पुरुषोत्तमः॥ इति।
सृष्टेः प्रारम्भे महाविष्णुः ब्रह्मदेवाय दत्तोपदेशस्य सारः एव तन्त्रसारः। अस्य सङ्ग्रहः एव तन्त्रसारसङ्ग्रः इति स्वयं मध्वाचार्यः एव स्पष्टतया उक्तवान् अस्ति। तन्त्रसारसङ्ग्रहे चत्वारः अध्यायाः सन्ति।

प्रथमः अध्यायः

[सम्पादयतु]

प्रथमे अध्याये प्रणवलक्षणम्, अष्टाक्षरैः प्रतिपादितभगवन्मूर्तीनां विवरणम्, मातृकामूर्तीणाम् अष्टमहामन्त्राणाञ्च विवरणं महत्वञ्च, देवपूजाविधानम्, विशेषतया पीठपूजा तथा आवरण पूजाविधानानि महत्वञ्च निरुपितानि सन्ति।

द्वितीयः अध्यायः

[सम्पादयतु]

मातृकान्यासक्रमम्, प्राणायामम्, पापपुरुषविसर्जनक्रमम्, कलशदेवतानाम्, कलशपूजाविधानम्, होमविधिं तथा द्रव्याणां विषये विशेषतया निरूपणम् अस्मिन् अध्याये विद्यते।

तृतीयः अध्यायः

[सम्पादयतु]

तृतीये अध्याये विशेषतया देवताप्रतिष्ठापनविधिविधानविषये विवरणं लभ्यते। प्रतिमालक्षणम्, प्रतिमानिर्माणविधिम्, शिलापरीक्षाविधिम्, शिलाप्रभेदान्, भूशोधनविधिञ्च निरूपितम् अस्ति। एवं देवालयस्य निर्माणार्थं योग्यस्थलस्य विवरणम्, अङ्कुरार्पणविधिम्, बलिदानविधिम्, अधिवासनविधिम्, चक्राब्जभद्रकमण्डलानां लक्षणम्, कलशाभिषेकक्रमञ्च निरूपितम् अस्ति।अभिषेकमन्त्राणां तथा विधिम्, अन्नसन्तर्पणं तथा अतिथिपूजाविधिम्, जीर्णोद्धारविधिम्, सम्प्रोक्षणविधिम्, तत्वन्यासक्रमञ्च निरूपितम् अस्ति।

चतुर्थः अध्यायः

[सम्पादयतु]

चतुर्थे अध्याये विविधानां मन्त्राणां निरूपणं विद्यते। अस्य अध्यायस्य “मन्त्राध्यायः” इत्येव प्रसिद्धिः अस्ति। वराहमन्त्राणि, श्रीकराष्टाक्षरमन्त्रम्, नरसिंहमन्त्राणि, हंसमन्त्राणि, दधिवामनमन्त्रम्, वामनमन्त्रम्, त्रिविक्रमगात्रीमन्त्रम्, राममन्त्रम्, परशुराममन्त्रम्, कृष्णमन्त्राणि, दत्तात्रेयमन्त्रम्, लक्ष्मीमन्त्राणिच निरूपितानि सन्ति। प्रत्येकस्य मन्त्रस्य ध्येयमूर्तेः विवरणम्, अङ्गन्यासकरन्यासविधिविधानानि, होमविधिं तथा द्राव्याणिच निरूपितानि सन्ति। एवं तन्त्रसारसङ्ग्रहः तन्त्रशास्त्रस्य एकः विश्वकोशः एव अस्ति।

  • अस्य ग्रन्थाय २४ अपेक्षया अधिकव्याख्यानानि विद्यन्ते। व्याख्यानकाराणां नामानि,
  1. श्री व्यासतीर्थाः
  2. श्री वादिराजः
  3. श्री वेदवेद्यः
  4. श्री छलारि शेषाचार्यः

{{bottomLinkPreText}} {{bottomLinkText}}
तन्त्रसारसङ्ग्रहः
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?