केशव बलिराम हेडगेवार
केशव बलिराम हेडगेवार | |
---|---|
जन्म |
१ एप्रिल् १८८९ नागपुरम् |
मृत्युः |
२१ जून् १९४० (आयुः ५१) नागपुरम् |
शिक्षणस्य स्थितिः | कलकत्ता मेडिकल कॉलेज |
वृत्तिः | राजनैतिज्ञः&Nbsp; |
केशवबलिरामहेडगेवारः (Keshav Baliram Hedgewar) (१८८९-१९४०) राष्ट्रियस्वयंसेवकसङ्घस्य संस्थापकः । सङ्घस्य आद्यसरसङ्घचालकः अस्ति केशव बलिराम हेडगेवार । तस्य जीवनस्य एकमात्रं लक्ष्यम् आसीत् – हिन्दु-अस्मितायाः पुनर्जागरणद्वारा हिन्दुसमाजः सुसङ्घटितः सन् परमवैभवस्थितिं यथा प्राप्नुयाद् तथा कर्तव्यम् इति । अनेन उद्देशेन एव तेन १९२५ तमस्य वर्षस्य विजयदशम्यां महाराष्ट्रराज्यस्य नागपुरे राष्ट्रियस्वयंसेवकसङ्घं स्थापितवान् ।
बाल्यजीवनम्
[सम्पादयतु]१८८९ तमे वर्षे युगादिदिने केशवस्य जन्म नागपुरे जातम् । पिता बलिरामपन्तः, माता रेवतीबाई । पिता महान् संस्कृतविद्वान् आसीत् । अग्निहोत्रिणः तस्य प्रमुखं कार्यम् आसीत् वेदाध्ययनम् अध्यापनञ्च । एतस्य कुटुम्बस्य मूलग्रामः तेलङ्गणाराज्ये निजामाबादजनपदे कन्दकूर्ती इति। पूर्वजाः केभ्यश्चित् अन्वयेभ्यः प्राक् नागपुरम् आगतवन्तः। अनयोः दम्पत्योः षड् अपत्यानि। तिस्रः कन्याः, त्रयः पुत्राः च। पुत्राः महादेवः, सितारामः, कनीयतमः केशवः च। केशवस्य त्रयोदशतमे वर्षे तस्य पितरौ प्लेग (plague) इति रोगस्य प्रकोपे दिवङ्गतौ। तस्य पितृव्यः आबाजी हेडगेवारः तस्य संवर्धनम् अकरोत्।
शिक्षणम्
[सम्पादयतु]केशवस्य शालेयशिक्षणं नील-सिटी-हायस्कूल इति शालायाम् अभवत्। शालापरीक्षणदिने सर्वेभ्यः छात्रेभ्यः सः 'वन्दे मातरम्' इति राष्ट्रभक्तिपूर्णाम् उद्घोषणां कारितवान्। एतत् आङ्ग्लशासनादेशाविरुद्धम् आसीत्। तेन कारणेन कुपितेन आङ्ग्लसर्वकारेण सः शालातः बहिष्कृतः। अतः सः यवतमाळनगरे राष्ट्रिय-विद्यालये शालेयं शिक्षणं पूर्णं कृतवान्। अनन्तरं १९१०तमे वर्षे महाविद्यालयीनं शिक्षणं प्राप्तुं सः नँशनल मेडिकल कॉलेज कलकत्ता इत्यत्र गतवान्। तदर्थं डॉ. मुञ्जेमहोदयानां (हिन्दुमहासभायाः नेता) मार्गदर्शनं साहाय्यं च आसीत्। तत्र १९१६तमे वर्षे L.M.S. इति उपाधिं प्राप्तवान्। एकवर्षं छात्रप्रशिक्षणावधिं समाप्य सः वैद्यः भूत्वा नागपुरं प्रत्यागतवान्।
सामाजिककार्याणि
[सम्पादयतु]सङ्घस्थापना
[सम्पादयतु]मरणम्
[सम्पादयतु]Text is available under the CC BY-SA 4.0 license; additional terms may apply.
Images, videos and audio are available under their respective licenses.