For faster navigation, this Iframe is preloading the Wikiwand page for सङ्गीतम्.

सङ्गीतम्

भारतीयसङ्गितस्य रागाः

सङ्गीतम् (Music) इत्येषा कला शब्दैः नादैः शक्त्या च सञ्चाल्यमाना सहजा क्रिया । भावः लयः मेलनं माधुर्यं च उत्तमसङ्गीतस्य मूलन्यासाः भवन्ति । सङ्गीतं मनसि उद्भूयमाना सहजा क्रिया । अतः केनापि नादेन विना अपि मनसि एव सङ्गीतस्य अनुभूतिं कर्तुं समर्थाः मानवाः । यदा एषा क्रिया शास्त्रीशैल्या वाद्यपरिकरैः विशेषकौशलेन प्रदर्शिता भवति तस्याः सङ्गीतकला इति व्यवहारः । सङ्गीतस्य मूलं वेदाः एव । ऋग्वेदादिषु मन्त्राः सस्वराः एव । सङ्गीतं तु स्वरेणनिबद्धम् एव । गानं तु मानवस्य भाषणम् इव स्वाभाविकं भवति । अतः मानवः कदारभ्य गातुम् आरब्धवान् इति निर्णयः दुस्साध्यः एव । किन्तु बहोः कालात् अनन्तरम् अस्य व्यवस्थितं रूपं प्राप्तम् अस्ति । यदा स्वरस्य लयस्य च व्यवस्थितं धारणं भवति तदा कलायाः प्रादुर्भावः भवति ।

इतिहासः

[सम्पादयतु]

मानवः युद्धेषु उत्सवेषु प्रार्थनावसरे , भजनसमये च गानवादसस्य उपयोगं कुर्वन् आगतः । अस्मिन् प्रपञ्चे सर्वजनाङ्गेषु यस्य कस्यचिदपि वाद्योपकरणस्य उपयोगः प्रचलन् अस्ति । यथा वंशीत्यादीनि सुशिरवाद्यानि , कानिचन तन्त्रीवाद्यानि , कानिचन चर्मवाद्यानि , अथवा घनवाद्यानि च । भरतमुनेः पूर्वं भारते गानस्य गीतम् इति वदन्ति स्म । वाद्यैः सह साहित्यं न भवति स्म दाड् दिडदिड इत्यादीनि शुष्कपदानि एव उपयोजनयन्ति स्म । अस्य निर्गीतं अथवा बहिर्गीतं वेति वदन्ति स्म । गीतं वाद्यं तथा नृत्यं त्रयं सङ्गतमुच्यते । इति उक्त्यनुगुणं कालक्रमेण गीतं वाद्यं नृत्यम् इत्यादीनां समतोलितं मिश्रणं सङ्गीतम् इति अवदन् । भारतात् बहिः अन्यदेशेषु केवलं गीतवाद्ये सङ्गीतम् इति वदन्ति । तत्रं नृत्यं काचित् भिन्ना कला । भारते नृत्यं सङ्गीते एव अन्तर्नीतं यतः नृत्येन सह गीतं वद्यं च भवतः एव । स्वरः लयः च गीतन सह सम्मिलन्ति एव । किन्तु नृत्येन सह केवलं लयः एव भवति न तु स्वरः । अतः अत्र सङ्गीतं नाम गीतस्य वाद्यस्य च चिन्तनं क्रियते ।

परिभाषा

[सम्पादयतु]

सङ्गीतस्य आदिमः स्त्रोतः प्राकृर्तिकरवः एव । प्राचीनयुगे मानवः प्रकृत्याः विविधनादान् शृण्वन् अवगन्तुं यतते स्म । प्रकृत्याः सर्वविधनादाः सङ्गीतस्य आधाराः भवितुं नार्हन्ति । अतः येन ध्वनिना भावः उत्पादितः भवति तादृशनादान् परिशील्य सङ्गीतस्य अधारं कुर्वन्तः तान् ध्वनीन् लयेन सह योजयितुं प्रयत्नं कृतवन्तः स्युः । प्रकृत्याः यः नादः मनुष्यस्य मनः संस्पृश्य उल्लासं जनयति सः एव मानवस्य सभ्यतायाः विकासेन सह सङ्गीतस्य साधनम् अभवत् । अस्मिन् चिन्तने मतभेदाः सन्ति एव । दार्शनिकाः परा, पश्यन्ती, मध्यमा, वैखरी इति चतृषु नादप्रकारेषु मध्यमा एव सङ्गीतोपयोगी स्वरः इति वदन्ति । नवदशशतकस्य उत्तररार्धे भरतेन्दुः हरिश्चन्द्रः इति विद्वान् " मानवस्य मानवीयसंवेदनया सह एव सङ्गीतस्य उत्पत्तिः अभवत् " इति अवदत् । अपि च सः सङ्गीतं गीतस्य वादनस्य नृत्यस्य अभिनयस्य समुच्चयः इति अवदत् ।

प्रादुर्भावः

[सम्पादयतु]

प्राच्यशास्त्रेषु सङ्गीतस्य उत्पत्तेः विषये कौतुकयुताः कथाः सन्ति । देवेन्द्रस्य सभायां वादाकाः नर्तकाः गायकाः च आसन् । अप्सराः नर्तनं कुर्वन्ति स्म किन्नराः वाद्यं वादयन्ति स्म । अस्याः कलायाः गान्धर्वविद्या इति नाम । गान्धर्वकलायां गीतस्य अतीव प्राधान्यं भवति । आदौ गानम् आगतम् । तदनन्तरं वाद्यं, गीतायाः प्राधन्यं तु आसीदेव । अतः एव गितं नृत्यं वाद्यं वा भवतु तस्य सङ्गीतम् इति अभिधानं दत्तम् । भारतीयसर्वासु भाषासु सङ्गीतम् इति पदं गानम् इति अर्थे एव उपयुज्यते । सङ्गीतम् इति पदं सम् उपसर्गपूर्वकं गै धातुना निष्पन्नम् । ऐङ्ग्लोसैक्सन् भाषायाम् अस्य रूपान्तरम् 'सिङ्गन्'(singan) इति अस्ति । अधुनिकाङ्ग्लभाषायां 'सिङ्ग् ' (sing) इति रूपम् अवाप्नोत् । ऐस्लेण्ड् इति देशस्य भाषयां अस्य रूपं सिङ्गज(singja) इति, डैनिश् भाषयां सैञ्ज् इति, डच् भाषायां त्सिङ्गन् (Synge) इति, जर्मन्भाषायां सिङ्गन् (singen), अरब्बी भाषायां गाना इति वदन्ति । सर्वप्रथमः सङ्गीतग्रन्थए सङ्गीतरत्नाकरे गायनवदननृत्यानां सङ्गमम् एव सङ्गीतम् इति पदेन व्यवहारः कृतः । वस्तुतः गीतशब्देन सह सम् उपसर्गं योजयित्वा सङ्गीतम् इति पदं निष्पन्नं यस्य अर्थः सम्यक् गीतम् इति । नृत्यवादनैः सह कृतं गानं सङ्गीतं भवति । शास्त्रेषु सङ्गीतं साधना इति अपि उक्तम् । प्रामाणिकरूपेण अवलोकयामः चेत् प्राचीनसभ्यतायाः अवशेषेषु मूर्तिषु, भित्तिचित्रेषु दृश्यते यत् सहस्राधिकवर्षेभ्यः पूर्वम् एव सङ्गीतं परिचितम् आसीत् । देवदेवताः सङ्गीतस्य प्रेरकाः इति न केवलं भारतदेशे किन्तु पाश्चिमात्यदेशेषु अपि एतादृशः विश्वासः अस्ति । यूरोफ् अरब् फारस् इत्यादिषु देशेषु सङ्गितस्य विषये पदानि सन्ति । सङ्गीतार्थं युनानी भाषायां मौसिकी (musique), ल्याटिन् भाषायां मुसिका (musica), फ्रांसीसी भाषायां मुसीक् (musique), पोर्तुगीस् भाषायां मुसिका (musica), जर्मन् भाषायां मूसिक् (musik),इब्रानी, अरबी, फारसी भाषायां मोसीकी इति पदैः सङ्गीतपदस्य व्यवहारः । सर्वेषु पदेषु अवश्यं साम्यः अस्ति एव । ये सर्वे पश्चिमदेशीयाः शब्धाः युनानी भाषायाः म्यूज़् (muse) इति शब्देनैव निष्पन्नाः । युनानी परम्परयां म्यूज़् नाम कव्यसङ्गीतयोः दीवी इति विश्वासः । तेषां कोशे अस्य अर्थः दीपः इति । गनस्य प्रेरणादायिनी देवी इति अस्य विवरणम् । यूनानीजनाः म्यूज़् ज्यौस (zeus) कन्या इति भावयन्ति । ज्यौस् इति पदं तु संस्कृतभाषायाः द्यौः इत्यस्य रूपन्तरमेव यस्य अर्थः स्वर्गः इति । यूनान्याः ज्यौस्, म्यूज़् च शब्दौ ब्रह्मसरस्वत्योः सदृशौ स्तः ।

भारतीयसङ्गीतम्

[सम्पादयतु]

भारतीयसङ्गीतस्य जन्म वेदमन्त्राणाम् उच्चारणेन एव ज्ञातुं शक्यते । सङ्गीतस्य प्राचीनतमः ग्रन्थः भरतमुनेः नाट्यशास्त्रं भवति । अन्ये सङ्गीतसम्बद्धाः ग्रन्थाः नाम बृहद्देशी, दत्तिलम्, सङ्गीतरत्नाकरः च भवन्ति ।

  • भारतीयसङ्गीतस्य सप्तस्वराः...
  • षड्जः (स)
  • ऋषभः (रे)
  • गन्धारः (ग)
  • मध्यमः (म)
  • पञ्चमः (प)
  • दैवतः (द)
  • निषादः (नी)

एतेषां शुद्धस्वराणाम् उपरि अथवा अधः विकृतस्वरः आगच्छाति । स , प स्वरयोः विकृतस्वरः न भवति । रे,ग,द, नी स्वराः यदा अधः भवन्ति तस्य कोमलस्वराः इति कथयन्ति । म स्वरस्य विकृतस्वरः उच्चः भवति तस्य तीव्रस्वरः इति वदन्ति । समकालीनभारतीये शास्त्रीयसङ्गीते शुद्धाः विकृताः चेति १२ स्वराणाम् उपयोगः भवति । पुरातनकालादेव भारतीयस्वरसप्तकानां संवादसिद्धिः अस्ति एव । महर्षेः भरतस्य एतेषां स्वराणाम् आधारेण २२श्रुतयः प्रतिपादिताः । एषः तु केवलं भारतीयसङ्गीतस्य विशेषः एव ।

भारतीयसङ्गीतस्य प्रकाराः

[सम्पादयतु]

भारतीये सङ्गीते प्रथानतयाः त्रयः भेदाः सन्ति ।

  • शास्त्रीयं सङ्गीतम् अस्य'मार्गसङ्गीतम्'इत्यपि वदन्ति ।
  • उपशास्त्रीयं सङ्गीतम्
  • सुगमं सङ्गीतम्
  • जानपदीयं सङ्गीतम्

अस्मिन् पुनः उपभेदाः भवन्ति एव । भारतीयशास्त्रीये सङ्गीते प्रधानौ भेदौ स्तः ।

हिन्दुस्तानीसङ्गीतं मुगल् राज्ञां छत्रछायायां विकसितम् । कर्णाटकसङ्गीतं तु मन्दिराणाम् अश्रयेण विवृद्धम् । अतः एव दक्षिणभारतस्य कृतिषु भक्तिरसः अधिकः, हिन्दुस्तानीसङ्गीते शृङ्गारः अधिकः दृश्यते । उपशास्त्रीयसङ्गीते ठुमरि, टप्पा, होरी, कजरी, लावणि, सोभाने, इत्यादयः भावन्ति ।

सुगमसङ्गीते जनसाधारणेषु प्रचलितानि एतानि भवन्ति ।

  • भजनम्
  • भारतीयचलच्चित्रसङ्गीतम्
  • ग़ज़ल
  • भारतीयपाप् (Pop)सङ्गीतम्
  • जानपदसङ्गीतम्

ख्याताः सङ्गीतकाराः

[सम्पादयतु]
  • भरतमुनिः
  • डी. के. पट्टम्माळ्
  • भीमसेन जोशी
  • तञ्जावूर बृन्दा
  • रविशङ्करः
  • एम्. एस्. सुब्बुलक्ष्मी
  • कपिला वात्स्यायन
  • प्रेम लता जोशी
  • दत्तिल
  • शार्ङ्गदेव
  • गोपालकृष्ण भारती
  • पट्टणं सुब्रह्मण्य अय्यर्
  • रामनाथपुरम् श्रीनिवास अय्यङ्गारः
  • पापनाशं शिवन्
  • ऊत्तुक्काडु वेङ्कटसुब्बय्यरः
  • मैसूर् वासुदेवाचार्य:
  • हरिकेशनल्लूर् मुत्तैय्यभागवत:
  • अन्नमाचार्य:
  • लाल्गुडि जयराम:
  • महाराज: स्वातितिरुनाळ्
  • नारायणतीर्थ:

वीथिका

[सम्पादयतु]

बाह्यानुबन्धाः

[सम्पादयतु]
{{bottomLinkPreText}} {{bottomLinkText}}
सङ्गीतम्
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?