For faster navigation, this Iframe is preloading the Wikiwand page for उत्तर-अमेरिकाखण्डः.

उत्तर-अमेरिकाखण्डः

उत्तरामेरिका एकः महाद्वीपः वर्तते। सा पसिफिक्-अट्लाण्टिक्महासागरयोः मध्ये स्थिता। २४ २५८ ६६४ वर्गसहस्रमानानि विस्तारयुक्तः अयं विशालः खण्डः केनडा, वेस्टिण्डिस्, ग्रीन्लेण्ड्, मध्यामेरिका, मेक्सिकोप्रदेशैः युक्तः अस्ति । अस्मिन् विपरीतं वातावरणं, विविधसंस्कृतीनां मिश्रणम्, अत्यधिका सम्पत्तिः, अत्याधुनिकं तन्त्रज्ञानम्, अनेकाः विश्वसंस्थाश्च विद्यन्ते । तान्त्रिकज्ञानं, गणकयन्त्रज्ञाने अग्रेसरत्वम्, असङ्ख्यवस्तूनां निर्यातः, युद्धसामग्र्यः, गोधूमोत्पादनम् इत्यादीनाम् आधारेण युक्तः आढ्यखण्डः वर्तते अयम् । प्रबलशक्तिः इत्येतत् अन्वर्थनाम अस्य खण्डस्य अमेरिकासंयुक्तसंस्थानां विद्यते ।

उत्तरामेरिकायाः मानचित्रम्

परिसरः

[सम्पादयतु]

प्राकृतिकलक्षणानि

[सम्पादयतु]

अस्य खण्डस्य पश्चिमार्धम् औन्नत्ये विद्यते । पूर्वार्धं निम्नताप्रदेशे विद्यते । पश्चिमभागे पर्वतश्रेण्यः, पूर्वदिशि उन्नताः प्रदेशाः, मध्यभागे समतलप्रदेशः, पूर्वकरावलीसमतलप्रदेशश्च अस्य खण्डस्य प्राकृतिकभागाः सन्ति । वायव्यभागे अलास्का ब्रूक्-श्रेण्यः विद्यन्ते । केनडादेशस्य पश्चिमदिशि करावलीश्रेण्यः सन्ति । तत्पार्श्वे विद्यमानाः राकीपर्वतश्रेण्यः मेक्सिकोपर्यन्तं विद्यन्ते । केनडादेशस्य मध्यभागतः अमेरिकासंस्थानानां मध्यभागं यावत् विशालः समतलप्रदेशः विद्यते । केनडादेशस्य मध्यभागः पूर्वभागश्च सरोवरैः युक्तः उपत्यकाप्रदेशः इति निर्दिश्यते । ३०°–५०° अक्षांश, १२°–१०° रेखांशयोः मध्ये दक्षिणोत्तरदिशि काश्चन श्रेण्यः विद्यन्ते । समुद्रतीरस्य पार्श्वे समुद्रतीरश्रेणी, ततः सियरा-नेवाद-केस्केड्श्रेण्यः विद्यन्ते । ततः विशालः समतलप्रदेशः, तानन्तरं वसाच्-श्रेणी, कोलोराडो उपत्यका ततः उन्नताः राकिपर्वताः विद्यन्ते । अत्र ४३९९ m उन्नतम् एल्बर्ट्-शिखरं ४३७८ m उन्नतं ब्लाङ्काशिखरं च विद्यते । समुद्रतीरस्य समीपे ४३१७ m उन्नतं शास्ताशिखरम् अस्ति । मेक्सिकोदेशे पश्चिमसियारामाड्रे पूर्वसियारामाड्रेश्रेण्योः मध्ये मेक्सिको-उपत्यका विद्यते । अत्र ५४५२ m उन्नतं पोपोकटेपेट्ल्, ५७०० m उन्नतं सिट्लल्ट्पेट्ल्-शिखरो स्तः । पूर्वभागे लघ्व्यः उपत्यकाः सन्ति । अपलेषियन्पर्वताः दक्षिणोत्तरदिशि विद्यन्ते । केनडादेशस्य क्यूबेक्-प्रदेशः लारेन्सियन्-प्रस्थभूमिः इति निर्दिश्यते ।

जलसम्पत्तिः

[सम्पादयतु]

अस्मिन् खण्डे विपरीतवातावरणं दृश्यते । हिमपातः मरुभूमिलक्षणानि विद्यन्ते चेदपि समृद्धा जलसम्पत्तिः विद्यते । अनेकाः नद्यः सरोवराश्च विद्यन्ते । अमेरिकासंयुक्तसंस्थाने मिसिसिपि-मिसूरिनामिका नदी ६६८० km दीर्घयुता विद्यते । केनडियन्, प्लटे यलोस्टोन्, रेड्, अर्कान्सास्, डकोटा, ओहियो, टेनिस्सी इत्यादयः अस्य उपनद्यः सन्ति । इयं नदी अट्लाण्टिक्सागरं प्रविशति । अलबामा, हड्सन्, सें लारेन्स् इत्यादयः पूर्वभागे विद्यमानाः लघुनद्यः । कोलोरेडो-मेक्सिकोसीमाप्रदेशे रियो ग्राण्डे, साक्रामाण्टो, स्नेक्, कोलम्बिया नद्यः विद्यन्ते । केनडादेशस्य युकान्-अलस्कायोः युकान्-नदी वर्तते । मेकेञ्झि, पीस्, चर्चिल्, नेल्सन्, अथबास्का सस्केचवान्, अल्बेनि इत्यादयः नद्यः केनडादेशे विद्यन्ते । केनडादेशे असङ्ख्याः सरोवराः विद्यन्ते । ग्रेट् बियर्, अथबास्का, विनिपेग्, ग्रेट् स्लेव्, लिन्, रेण्डियर् इत्यादयः सरोवराः विद्यन्ते । ऐरि, ओण्टारियो महाप्रमाणकौ सरोवरौ स्तः । एतौ केनडा अमेरिकासंयुक्तसंस्थानयोः सीमाप्रदेशे विद्येते । ओण्टारियोसरोवरस्य दक्षिणतः नयागाराजलपातः विद्यते । उटाराज्यस्य शुष्के परिसरे साल्ट्-सरोवरः विद्यते ।

मध्यामेरिकायाः मानचित्रम्

वृष्टिः

[सम्पादयतु]

अस्य खण्डस्य पूर्वभागे दक्षिणभागे च वृष्टिः तृप्तिकरी अस्ति । स्यान्-फ्रान्सिस्कोतः अलास्कासमुद्रतीरप्रदेशेषु वृष्टिः योग्या वर्तते । १००° रेखांशतः पूर्वदिशि, सर्वत्र ७५० mm अपेक्षया अधिका वृष्टिः भवति । विशेषतया ग्वाटेमालप्रदेशे ३००० mm अपेक्षया अधिका वृष्टिः भवति । वेङ्कूवर्-प्रदेशे अपि वृष्टिः अधिका । युटा, अरिझोना, नेवाडा, इडाहो, ओरेगान्प्रदेशेषु २५० mm अपेक्षया न्यूना वृष्टिः भविष्यति । अस्मिन् प्रदेशे जलाभावः विद्यते । केनडादेशस्य ग्रेट्-बियर्-सरोवरस्य उत्तरदिशि, अलास्कायाः उत्तरतीरप्रदेशे, आर्कटिक्-सागरस्य समस्तद्वीपेषु, ग्रीन्लेण्ड्प्रदेशे च शैत्याधिकं भवति । अत्र २५० mm अपेक्षया न्यूना वृष्टिः भविष्यति ।

औष्ण्यम्

[सम्पादयतु]

अस्मिन् खण्डे जनवरीमासे शैत्यकालः, जुलैमासे घर्मकालश्च भवति । जनवरिमासे ५०° अक्षांशतः उत्तरभागे औष्ण्यं ५ °C अग्रे न्यूनं भविष्यति । आर्केटिक्सागरद्वीपेषु ग्रीन्लेण्ड्प्रदेशेषु च −३० °C तः −४० °C भविष्यति । ४०° अक्षांशतः दक्षिणतः २८° अक्षांशपर्यन्तम् औष्ण्यं ० °C तः १५ °C भवति । अग्रे दक्षिणदिशि २५ °C अधिकं भविष्यति । ग्रीष्मकाले एल्लेस्मियर्द्वीपे ग्रीन्लेण्ड्प्रदेशे च औष्ण्यं ० °C तः ५ °C भविष्यति । ततः दक्षिणदिशि औष्ण्यं वर्धते । अरिझेना, मेक्सिकोप्रदेशेषु ३० °C ततोप्यधिकं वा भविष्यति ।

उत्तरामेरिकायाः नगराणि

मेक्सिकोनगरम्
न्यूयार्क्-नगरम्
लास्-एञ्जलीस्-नगरम्
शिकागोनगरम्
टोराण्टोनगरम्

सस्यानि

[सम्पादयतु]

अरण्य-तृणशाद्वल-मरुभूमिभिः युक्तः अयं खण्डः परिसरानुगुणैः सस्यैः युक्तः अस्ति । अपलेषियन्पर्वतप्रदेशेषु सरोवरं परितः विद्यमानेषु प्रदेशेषु पैन्, हेम्लाक्, स्प्रूस्, फर् इत्यादयः शङ्ख्वाकारकाः वृक्षाः वर्धन्ते । ततः दक्षिणभागेषु विस्तृतपर्णयुक्तानि मेपल्, ओक्, वाल्नेट्, हिकरि, बीच इत्यादीनि सस्यानि विद्यन्ते । पैन्-वृक्षाः अधिकतया दृश्यन्ते । शैत्यकाले हिमपातावसरे पर्णपातवृक्षैः पतितानि केसर-रक्तवर्णपर्णानि विराजन्ते । इतोपि दक्षिणतः यदि गम्यते मेग्नोलिय, नित्यहरिद्वर्णयुक्तः ओक्-वृक्षः, सैप्नेस्-सस्यं, फ्लोरिडाप्रदेशे ताडवृक्षः, स्याटिन्-वृक्षः, समुद्रजलस्य अरण्यसस्यानि दृश्यन्ते । पश्चिमदिशि राकिश्रेणीप्रदेशेषु पैन्, फर्न्, लार्च्, सेडार्, स्प्रूस्, रेड्वुड् इत्यादयः वृक्षाः वर्धन्ते । वाशिङ्ग्टन्-राज्ये उन्नतानि निबिडारण्यानि सन्ति । टेक्सास् इत्यादिषु शुष्कप्रदेशेषु क्याक्टेनामकं मरुभूमिसस्यं, सेजब्रष्, गम्मीगुल्म इत्यादीनि सस्यानि विद्यन्ते । मरुभूमिप्रदेशे अफीम्-सस्यानि वर्धन्ते । अनेकविधानि लघूनि फलानि अरण्येषु उपलभ्यन्ते । केलिफोर्निया, ओगेगान्, मिस्सूरि ओहियो, पेन्सिल्वेनिय, न्यूयार्क्, फ्लारिडा, मिषिगान् इत्यादिषु राज्येषु फलानि शाकानि च अधिकप्रमाणेन उपलभ्यन्ते । केनडादेशस्य सस्केचवान्, मनिटोबा, अल्बर्टाराज्यानां दक्षिणभागाः कृषियोग्याः सन्ति । अवशिष्टाः भागाः अरण्यमयाः । केनडायाः पश्चिमभागः उत्तरभागाश्च कृषियोग्याः न सन्ति ।
अमेरिकासंयुक्तसंस्थानस्य मध्य-पूर्वप्रदेशेषु कृषिः, शाद्वलमिश्रितकृषिः भवति । पश्चिमभागेषु तृणशाद्वलानि विद्यन्ते । पशुपालनम् अत्रत्यं विशेषः । गोधूमः, यावानलश्च अत्रत्यः प्रमुखः फलोदयः । अमेरिकासंयुक्तसंस्थानस्य पूर्वभागेषु तमाखुः, कार्पासश्च विशेषः मध्यभागे गोधूमः विशेषफलोदयः । मेक्सिकोदेशस्य दक्षिणभागेषु यावानलः इक्षुदण्डश्च वर्धते । कदली काफी च मेक्सिको, हाण्डुरास्, निकरवागुव, कोस्टरिकासु अधिकप्रमाणेन वर्ध्यते अन्यदेशेभ्यः प्रेष्यते च ।

प्राणिपक्षिणः

[सम्पादयतु]

टेक्सास्-देशे उष्णवलयस्य मण्डूकः, फ्लारिडायां मकरः समशीतोष्णवातावरणस्य प्राणिपक्षिणश्च दृश्यन्ते । अमेरिकायाः वनवृषभः पूर्वम् अधिकप्रमाणेन आसन् । हरिणः, अट्टर्, पुमा, कृष्णभल्लूकः, बीवर्-प्राणिनश्च बहुत्र दृश्यन्ते । पश्चिमभागेषु शाद्वलवृकः, चिप्मङ्क्नामकः चिक्रोडः, कोयेट्, मूस् इत्यादयः वसन्ति । अमेरिकासंयुक्तसंस्थाने क्षीरकृषिनिमित्तमात्रं न अपि च मांसार्थमपि बहुसङ्ख्याकाः गावः सन्ति । युरोपखण्डे दृश्यमानाः पक्षिणः अत्र अपि वसन्ति । रक्त-टनेजर्, हरिद्-हम्मिङ्ग्पक्षी, केसर-कृष्णवर्णीयाः ओरियल्पक्षिणः अमेरिकादेशस्य विशेषाः । क्यालिफोर्नियायाः रेन्, टिट्पक्षिणः अस्मिन् स्थलमात्रे वसन्ति । सुन्दरः कार्डिनल्पक्षी, पूर्वप्रदेशेषु दृश्यमानः व्हिप्पूर्विल् अत्रत्यः विशिष्टपक्षिणः । सरटः, गोधा, विषयुक्तसर्पाः विशेषतया र्याटल्सर्पाः अत्र वसन्ति । एते मरुभूमौ वसन्ति ।

खनिजाः

[सम्पादयतु]

अमेरिकासंयुक्तसंस्थानेषु उपलभ्यमानाः एते इन्धनतैलम्, अनिलः, अयः, ताम्रं, बाक्सैट्, स्वर्णं, रजतं, युरेनियञ्च अस्य खण्डस्य प्रमुखाः खनिजाः । केनडादेशे स्वर्णं, रजतं ताम्रम् अयः, निक्केल्, युरेनियम्, इन्धनतैलम् अनिलसम्पत्तिः च अधिकप्रमाणेन विद्यन्ते । मेक्सिकोदेशे स्वर्णं रजतं, अण्टिमनिखनिजाः सन्ति । इन्धनतैलम् अनिलसम्पत्तिश्च विद्यन्ते ।

उद्यमाः

[सम्पादयतु]

केनडादेशस्य टोरेण्टो माण्ट्रियल्प्रदेशेषु महत्प्रमाणकाः उद्यमाः सन्ति । दारुसम्बद्धकर्म तन्नाम काष्ठसारः, कागदादीनाम् उद्यमः विद्यते । अरण्यसम्बद्धोद्यमाः, खनिकर्म,यन्त्रोपकरणानां निर्मितिः, काष्ठतक्षणयन्त्रागाराः विद्यन्ते । कृषिः, मीनपालनं, विद्युद्वस्तुनश्च मेक्सिकोदेशे विद्यते । अमेरिकासंयुक्तसंस्थानेषु अयसः यन्त्रागारः, यन्त्रोपकरणानि, वाहनानि, विमानानि, युद्धसामग्र्यः, आहारपदार्थाः, रासायनिकवस्तूनि, वस्त्रं, कागदं, मुद्रणं, पुस्तकप्रकाशनं, काष्ठवस्तूनि, गणकयन्त्रज्ञानं वर्धनोद्यमाश्च अत्र विद्यन्ते ।

अस्याः प्रमुखाः देशाः

  • कानडा
  • अमेरिका संयुक्त संस्थानम्
  • मेक्सिको
  • ग्रीन्लाण्ड्
{{bottomLinkPreText}} {{bottomLinkText}}
उत्तर-अमेरिकाखण्डः
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?